________________
उद्देशक : १, मूलं-३४, [भा. २६७९]
१३१ वृ-इच्छा नाम न 'जिनादेशः' तीर्थकृतामुपदेशोऽयमिति कृत्वा नादरादीनि पदानि करोति किन्तुस्वच्छन्देन।तथा आढा नाम-आदरस्तं यथापूर्वमुचितालापादिभि कृतवाँस्तथा कुर्याद्वान वा।शेषाणि त्वभ्युत्थानादीनि सुगमानीति कृत्वाभाष्यकृतान व्याख्यातानि।अत्रच सम्भोजनसंवासनपदे ‘मनोज्ञेषु' सम्भागिकेषु 'इतरेषु वा' असाम्भोगिकेषु भवेयुः ।। कृता भाष्यकृता विषमपदव्याख्या । अथ नियुक्तिविस्तरः[भा.२६८०] नामं ठवणा दविए, भावे य चउव्विहं तु अहिगरणं ।
दव्वम्मि जंतमादी, भावे उदओ कसायाणं ।। वृ-नामाधिकरणंस्थापनाधिकरणंद्रव्याधिकरणंभावाधिकरणंचेति चतुर्विधमधिकरणम्। तत्र नाम-स्थापने गतार्थे । द्रव्याधिकरणमागमतोऽधिकरणशब्दार्थं प्ररूपयन्ननुपयुक्तो वक्ता। नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्याधिकरणं यन्त्रादिकं द्रष्टव्यम् । यन्त्रं नाम दलनयन्त्रादि । 'भावे' भावाधिकरणं 'कषायाणां' क्रोधादीनामुदयो विज्ञेयः॥
तत्र द्रव्याधिकरणं व्याख्यानयति[भा.२६८१] दव्वम्मि उ अहिगरणं, चउव्विहं होइ आनुपुव्वीए ।
निव्वत्तण निक्खिवणे, संजोयण निसिरणे यतहा।। वृ- 'द्रव्ये' द्रव्यविषयमधिकरणं चतुर्विधं भवति 'आनुपूर्व्या' परिपाट्या, तद्यथानिर्वर्तनाधिकरणं निक्षेपणाधिकरणं संयोजनाधिकरणं निसर्जनाधिकरणं चेति । तत्र योनिप्राभृतादिना यदेकेन्द्रियादिशरीराणि निवर्तयति, यथा सिद्धसेनाचार्येणाश्वा उत्पादिताः। जहा वा एगेनायरिएण सीसस्स जोगो उवदिट्ठो जहा महिसो भवति । तं च सुतं आयरियाणं भाइनिजेन । सो निद्धम्मो उनिक्खंतो महिसं उप्पाएउं सोयरियाण हत्थे विक्किणइ । आयरिएण सुतं।तत्थगतोभणेइ-किं एतेनं? अहंतेरयणजोगंपयच्छामि, दव्वे आहराहि।तेअआहरिया। आयरिएण संजोइया एगंते निक्खित्ता भणितो-एत्तिएण कालेणउक्खनिज्जासि, अहं गच्छामि। तेन उक्खत्तो । दिट्ठीविसो सप्पो जातो । सो तेण मारितो । एवं अहिगरणच्छेदो । सो वि सप्पो अंतोमुहुत्तेणमओ ति॥ __ यद्वा वैक्रिया-ऽऽहारकशरीरे अपि यन्निष्कारणे निवर्तयति, परशु-कुन्तादीनि वा करोति तनिर्वर्तनाधिकरणमुच्यते। निक्षेपणाधिकरणंद्विधा-लौकिकंलोकोत्तरिकंच।तत्रयमत्स्यग्रहणार्थं गलनामा लोहकण्टकः कूटं वा मृगादीनां ग्रहणाय जालं वा लावकादीनामर्थाय निक्षिप्यते, शतध्यादीनि घरट्टा-ऽरघट्टादीनि वा यन्त्राणि स्थाप्यन्ते तदेतद् लौकिकं निक्षेपणाधिकरणम् । यत्तु लोकोत्तरिकं तत् षड्विधम्-यत्र पात्राद्युपकरणं निक्षिपतित्र न प्रत्युपेक्षते न प्रमार्जयति १ नप्रत्युपेक्षतेप्रमार्जयति२प्रत्युपेक्षतेनप्रमार्जयति ३; यत्तुप्रत्युपेक्षतेप्रमार्जयति ३; यत्तुप्रत्युपेक्षते प्रमार्जयतिच तदुष्प्रत्युपेक्षितंदुःप्रमार्जितं४दुःप्रत्युपेक्षितंसुप्रमार्जितं ५सुप्रत्युपेक्षितंदुष्प्रमार्जितं ६ करोति; एवमेते षङ्भङ्गा निक्षेपणाधिकरणम् । यस्तु सप्तमो मङ्गः सुप्रत्युपेक्षितं सुप्रमार्जितं करोतिती लक्षणः स नाधिकरणम्, शुद्धत्वात् । यद्वा यद् भक्तं पानकं वाऽपावृतं स्थापयति तनिक्षेपणाधिकरणम्।संयोजनाधिकरणमपि द्विधा लौकिक-लोकोत्तरिकभेदात् । तत्र लौकिकं रोगाद्युत्पत्तिकारणं विष-गरादिनिष्पत्तिनिबन्धनं वा द्रव्यसंयोजनम् । लोकोत्तरिकं तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org