________________
बृहत्कल्प-छेदसूत्रम् -२-१/३४ भक्तोपधिशय्याविषयसंयोजनम् । निसर्जनाधिकरणमपि लौकिकं शर-शक्ति-चक्र-पाषाणादीनां निसर्जनम् । लोकोत्तरिकं तु सहसाकारादिना यत् कण्टक-कर्करादीनां भक्तपानान्तः पतितानां निसर्जनम् । गतं द्रव्याधिकरणम् । अथ भावाधिकरणमाह
[भा. २६८२] अह- तिरिय उड्डकरणे, बंधण निव्वत्तणा य निक्खिवणं । उवसम-खएण उड्डं, उदएण भवे अहेगरणं ॥
वृ-इह क्रोधादीनां कषायाणामुदयो भावाधिकरणमित्युक्तम् अतस्तेषामेव 'अधस्तिर्यगूर्ध्वकरणे' अधोगतिनयनेतिर्यग्गतिनयने ऊर्ध्वगतिनयने च स्वरूपं वक्तव्यम् । तथा 'बन्धनं नाम' संयोजनं १ निर्वर्त्तना २ निक्षेपणं ३ चसब्दस्य व्यवहितसम्बन्धस्यात्र योजनाद् निसर्जना ४ चेति चतुर्विधं द्रव्याधिकरणम् । आह अनन्तरप्रतिपादितमिदं किमर्थमिदानीमभिधीयते ? उच्यतेयत् प्राग् गाथायां चतुर्विधं द्रव्याधिकरणमुक्तं तद् “दव्वम्मि जंतमादी" इति पदं व्याख्यानयता भाष्यकृता दर्शितम्, इदं तु निर्युक्तिकारः सङ्ग्रहगाथया द्वयोरपि द्रव्यभवाधिकरणयोः स्वरूपं सूचयतीति । अथास्या एव प्रथमापादं पश्चार्द्धेन व्याचष्टे - “उवसम” इत्यादि । कषायाणामुपशमेन क्षयेन चोर्ध्वगति-स्वर्गा ऽपवर्गलक्षणाऽवाप्यते । तेषामेव च तीव्रपरिणामानामुदयेन 'अधः करणं भवति' नरकगतिगमनं भवतीत भावः । उपलक्षणमिदम्, तेन नातितीव्रैः कषायैस्तिर्यग्गतिर्मध्यमैस्तु मनुष्यगतिरवाप्यत इति पुरातनगाथासमासार्थः ॥ अथास्या एव भाष्यकारो व्याख्यानं करोति[भा. २६८३ ] तिव्वकसायसमुदया, गुरुकम्मुदया गती भवे हिट्ठा । नाइकिलिट्ठ- मिऊहि य, उववज्जइ तिरिय-मनुएसु ॥
वृ तीव्राः सङ्किलष्टपरिणामा ये कषायाः क्रोधादयस्तेषां सम्बन्धी यः सम्-एकीभावेनोदयस्तेन जीवा गुरूणां ज्ञानावरणीयादिकर्मणामुपचयं कुर्वन्ति । गुरुकर्मोदयाच्च तेषाम् 'अधः ' सप्तमनरकपृथिव्यादिनरकेषु गतिर्भवति । ये तु कषाया नातिक्लिष्टाः- नातीवाशुभपरिणामास्तैर्नातिक्लिष्टः कर्मोपचयो भवति ततश्च तिर्यक्षूत्पद्यन्ते । ये तु मृदवः प्रतनुपरिणामास्तैर्मृदुः कर्मोपचयो भवति ततो मनुष्येषूत्पद्यन्ते ॥
[ भा. २६८४ ]
१३२
खीणेहि उ निव्वाणं, उवसंतेहि उ अनुत्तरसुरेसु ।
जह निगो तह लहू, समुवचओ तेन सेसेसु ॥
वृ- 'क्षीणैः' अभावतां गतैः कषायैर्निर्वाणमासादयति । 'उपशान्तैः' विष्कम्भितोदयैः तुशब्दात् क्षीणोपशान्तैश्चानुत्तरविमानवासिषु सूरेषूत्पद्यते । एवं यथा प्रकृष्टः प्रकृष्टतरः कषायाणां निग्रहः तथाऽयं जीवः 'लघुः' लघुभूतो भवति । अथ न तथाविध- कषायाणां निग्रहः कृतस्ततः कर्मणां समुपचयो भवति, तेन 'शेषेषु' अनुत्तरविमानवासिवर्जेषु देवेषूत्पद्यते । आह गुरुलघुकमगुरुलघुकं वा द्रव्यं भवति नैकान्तगुरुकं न वा एकान्तलघुकमित्यागमेऽभिधीयते ततः कर्मणां गुरुतया जीवा अधो गच्छन्ति लघुतया तूर्ध्वमिति कथं न विरुध्यते ? उच्यते-इह हि यद् आगमे गुरुलघुकमगुरुलघुकं वा द्रव्यमुक्तं तन्निश्चयनयमता श्रयणेन, इदं तु कर्मणां गुरुत्वं लघुत्वं च व्यवहारनयमता श्रयणाद् उच्यते । तथा चामुमेवार्थं ज्ञापयितुमिदमाह
[ भा. २६८५ ] गुरुयं लहुयं मीसं, पडिसेहो चेव उभयपक्खे वि । तत्थ पुन पढमबिइया, पया उ सव्वत्थ पडिसिद्धा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org