________________
उद्देश : १, मूलं - ३४, [भा. २६८५ ]
१३३
वृ- गुरुकं 9 लघुकं २ 'मिश्रं' गुरुलघुकमिति ३ 'प्रतिषेधश्चैवोभयपक्षेऽपि' न गुरुकं नापि लघुकमित्यर्थः ४, एवं व्यवहारतश्चतुर्द्धा द्रव्यम् । 'तत्र पुनः' एतेषां मध्ये ये प्रथमद्वितीये पदे ते 'सर्वत्रापि' निश्चयनयमताश्रितेषु सूत्रेषु प्रतिषिद्धे । तथाहि स निश्चयनयो ब्रवीति - नास्त्येकान्तेन गुरुस्वभावं किमपि वस्तु, पराभिप्रायेण गुरुत्वेनाभ्युपगतस्यापि लेष्टवादेः परप्रयोगादूर्ध्वादिगमनदर्शनात्; एवमेकान्तेन लघुस्वभावमपि नास्ति, अतिलघोरपि बाष्पादेः करताडनादिना अधोगमनादिदर्शनात्; तस्मादियं वस्तुनः परिभाषा - यत्किमप्यत्र जगति बादरं वस्तु तत् सर्वं गुरुलघु, शेषं तु सर्वमप्यगुरुलघुकमिति ।। इदमेव व्यक्तीकुर्वन्नाहजातेयगं सरीरं, गुरुलहु दव्वाणि कायजोगो य ।
[भा. २६८६ ]
मन-भासा अगुरुलहू, अरूविदव्वा य सव्वे वि ।।
वृ- औदारिकशरीरादारभ्य तैजसशरीरं यावद् यानि द्रव्याणि, यश्च तेषामेव सम्बन्धी 'काययोगः ' शरीरव्यापारः एतत् सर्वं गुरुलघुकमिति निर्देश्यम् । यानि तु मनो-भाषाप्रायोग्याणि, उपलक्षणत्वाद् आनपान-कार्मणप्रायोग्याणि तदपान्तरालवर्तीनि च द्रव्याणि, यानि च सर्वाण्यपि धर्मा-धर्माSSकाश - जीवास्तिकायलक्षणान्यरूपिद्रव्याणि तदेतत् सर्वमगुरुलघुकमिति परिभाष्यम् ॥ [भा. २६८७ ] अहवा बायरबोंदी, कलेवरा गुरुलहू भवे सव्वे । सुहुमानंतपदेसा, अगुरुलहू जाव परमाणू ॥
वृ- ' अथवा ' इति प्रकारान्तरद्योतने । बादरा बोन्दि-शरीरं येषां ते 'बादरबोन्दयः' बादरनामकर्मोदयवर्त्तिनो जीवा इत्यर्थः, तेषां सम्बन्धीनि यानि कडेवराणि, यानि चापराण्यपि बादरपरिणामपरिणतानि भू-भूधरादीनि शक्रचाप- गन्धर्वपुरप्रभृतीनि वा वस्तूनि तानि सर्वाण्यपि गुरुलघून्युच्यन्ते । यानि तु सूक्ष्मनामकर्मोदयवर्त्तिनां जन्तूनां शरीराणि यानि च सूक्ष्मपरिणामपरिणतानि अनन्तप्रादेशिकादीनि परमाणुपुद्गलं यावद् द्रव्याणि तानि सर्वाण्यप्यगुरुलघूनि।। दर्शितं निश्चयनयमतम् अथ व्यवहारनयमतमाह
[भा. २६८८ ] ववहारनयं पप्प उ, गुरुया लहुया य मीसगा चेव ।
डुग पदीव मारुय, एवं जीवाण कम्माइ ॥
वृ-व्यवहारनयं पुनः 'प्राप्य' अङ्गीकृत्य त्रिविधानि द्रव्याणि भवन्ति, तद्यथा-गुरुकाणि लघुकानि 'मिश्रकाणि च ' गुरुलघूनीत्यर्थः । तत्र यानि तिर्यगूर्ध्वं वा प्रक्षिप्तान्यपि स्वभावादेवाधो निपतन्ति तानि गुरुकाणि, यथा-लेष्टुप्रभृतीनि । यानि तूर्ध्वगतिस्वभावानि तानि लघुकानि, यथाप्रदीपकलिकादीनि । यानि तु नाधोगतिस्वभावानि न वा ऊर्ध्वगतिस्वभावानि, किं तर्हि ? स्वभावादेव तिर्यग्गतिधर्मकाणि तानि गुरुलघूनि, यथा- 'मारुतः' वायुसतप्रभृतीनि । एवं जीवानां कर्माण्यपि त्रिधा भवन्ति-गुरूणि लघूनि गुरुलघूनि च । तत्र यैरमी जीवा अधोगतिं नीयन्ते तानि गुरुकाणि, यैस्तु त एवोर्ध्वगतिं प्राप्यन्ते तानि लघुकानि, यैः पुनस्तिर्यग्योनिकेषुवा मनुष्येषु वा गतिं कार्यन्ते तानि गुरुलघुकानीति ॥ तदेवं व्यवहारनयाभिप्रायेण समर्थितः कर्मणां गुरुत्वलघुत्वपरिणामः । अथ परः प्राह- ननु जीवास्तावत् स्ववशा एव ज्ञानावरणादिकं कर्मोपचिन्वन्ति ततो गतिरपि तेषां स्ववशतया किं न प्रवर्त्तते ? यदेवं कर्मोदयबलादूर्ध्वमधस्तिर्यग्वा नीयन्ते ? उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org