________________
१३४
बृहत्कल्प-छेदसूत्रम् -२-१/३४ [भा.२६८९] कम्मं चिणंति सवसा, तस्सुदयम्मि उ परव्वसा होति ।
रुक्खं दुरुहइ सवसो, विगलइस परव्वसो तत्तो॥ वृ-जीवाः ‘स्ववशाः' स्वतन्त्राएव मिथ्यात्वा-ऽविरत्यादिभिः कर्म 'चिन्वन्ति' बध्नन्तीत्यर्थः, परं 'तस्य' कर्मण उदये तेजीवाः परवशा भवन्ति । दृष्टान्तमाह-यथा कश्चित् पुरुषो वृक्ष मारोहन् 'स्ववशः' स्वाभिप्रायानुकूल्येनारोहति, स च कुतश्चिद् दुःप्रमादात् ततो विगलन् ‘परवशः' स्वकाममन्तरेणैव विगलति। आह यद्येवंततः किंसंसारिणो जीवाः सर्वथैव कर्मपरवशा एव? उच्यते-नायमेकान्तः, यत आह[भा.२६९०] कम्मवसा खलु जीवा, जीववसाई कहिंचि कम्माइं।
कत्थइ धणिओ बलवं, धारणिओ कत्थई बलवं। वृ-कर्मवशाः खलु प्रायेणामी संसारिणो जीवाः, परं 'कुत्रचित्' प्रबलधृति-बलादिसद्भावे कर्माण्यपि जीववशानि । अमुमेवा) दृष्टान्तेन द्रढयति-यथा 'कुत्रचित्' जनपदादौ 'धनिकः' व्यवहारिको बलवान्, 'कुत्रचित् पुनः' प्रत्यन्तग्रामादौ ‘धारणिकः' ऋणधारकोऽपि बलवान् । इयमत्र भावना-यदि जनपदमध्यवर्ती विद्यमानविभवो वा धारणिकस्तदा धनिको बलीयान्, अथ धारणिकः प्रत्यन्तग्रामे वा पल्लयां वा गत्वा स्थितः न वा तस्य तथाविधं किमपि द्रव्यमस्ति ततो धारणिको बलवान् भवति ॥ एष दृष्टान्तः । अथार्थोपनयमाह[भा.२६९१] धनियसरिसंतु कम्म, धारणिगसमा उ कम्मिणो हिंति।
संताऽसंतधना जह, धारणग धिई तनू एवं ॥ वृ-इह धनिकसद्दशं कर्म, धारणिकसमानाः 'कर्मिणः' सकर्मका जीवा भवन्ति, सुख-दुःखो पभोगादिऋणधारकत्वात् तेषामिति भावः । यथा च 'सद्धनाः' विद्यमानविभवाः 'असद्धनाश्च' अविद्यमानविभवा धारणिका भवन्ति । तत्र च विद्यमानविभवे धारणिके धनिको यदि कार्य भवति तदा राजकुलबलेनतंधारणिकंधृत्वा स्वल्पंद्रव्यंबलादपि गृह्णाति, सचधारणिकस्तस्मिन् द्रव्ये दत्ते सति अनृणीभवति अथासावविद्यमानविभवस्ततस्तेन धनिकेन स वशीक्रियते, वशीकृतश्च तत्पारतन्त्रयेण वर्तमानो दुस्सहं दासत्वादिमहादुःखोपनिपातमनुभवति। एवमत्रापि "धिइ"त्ति धृतिबलं "तनु"त्ति शारीरंच बलं विद्यमानविभवताकल्पमवसेयम्। इदमुक्तंभवतियस्यजीवस्यवज्रकुड्यसमानं विशिष्टं मनःप्रणिधानबलं वर्षभनाराचसंहननलक्षणंचशारीरंबलं भवति स धनिकसशं कर्म क्षपयित्वा सुखेनैवानृणीभवति; यस्य तु धृतिबलं शारीरबलं वा न भवति स तेन कर्मणा वशीक्रियते, वशीकृतश्च तत्परतन्त्रतया वर्तमानो विविधशारीरमानसदुःखोपनिपातमनुभवति ॥ आह धृति-संहननबलोपेतो यत् कर्म क्षपयति तत् किमुदीर्णमनुदीर्णं वा क्षपयति? इति उच्यते[भा.२६९२] सहणोऽसहणो कालं, जह धनिओ एवमेव कम्मंतु।
उदिया-ऽनुदिए खवणा, होज्ज सिया आउवज्जेसु॥ वृ-धनिको द्विधा-सहिष्णुसहिष्णुश्च । यः सहिष्णः स विवक्षितं कालं प्रतीक्षते, इतरस्तु न प्रतीक्षते । एवमेव कमीपि किञ्चित्स्वकालपूर्ती किञ्चित् पुनस्तामन्तरेणापि स्वविपाकंदर्शयतीति। एवमुदीर्णस्यानुदीर्णस्य वाकर्मणः क्षपणा धृति-संहननबलोपेतस्य भवेत्, “सिय" त्ति ‘स्यात्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org