________________
१३५
उद्देशक : १, मूलं-३४, [भा. २६९२] . कदाचित् कस्याप्येवं भवति न सर्वस्य । यस्तु संहनन-बलविहीनः स नवरमनुदीर्णं कर्म देशतः क्षपयेत् न सर्वतः “आउवजेसु"त्तिआयुःकर्मवर्जानां शेषकर्मणामनुदीर्णानामपि क्षपणंभवति, आयुषः पुनरुदीर्णस्यैव क्षपणमिति भावः । तदेवं धनिक-धारणिकदृष्टान्ते जीव-कर्मणोरुभयोरपि तुल्यमेव यथायोगं बलीयस्त्वं द्रष्टव्यम् । उक्तञ्च
ग्निाशो ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे नीचैर्गोत्रावतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्वम्। निर्वाणं नारदेऽपि पशमपरिणति सा चिलातीसुतेऽपि
इत्थं कर्मा-ऽऽत्मवीर्ये स्फुटमिह जयतां स्पर्द्धया तुल्यरूपे। उक्तं सप्रपञ्चं भावाधिकरणम् । अथ कथं तदुत्पद्यते ? इत्याशङ्कावकाशमवलोक्य तदुत्थानकारणानि दर्शयति[भा.२६९३] सच्चित्ते अच्चित्ते, मीस वओगय परिहार देसकहा।
सम्ममणाउट्टते, अहिगरणमओ समुप्पजे ॥ वृ- 'सचित्ते' शैक्षादौ 'अचित्ते' वस्त्र-पात्रादौ 'मिश्रके' सभाण्ड-मात्रकोपकरणे शैक्षादावनाभाव्येऽपरेणगृह्यमाणे, तथा 'वचोगतं व्यत्यानेडितादितत्र वा विधीयमाने, परिहारःस्थापना तदुपलक्षितानियानि कुलानितेषावाप्रवेशे क्रियमाणे, देशकथायांवा विधीयमानायाम्, एतेषु स्थानेषु प्रतिनोदितो यदि सम्यग् नावर्त्तते-न प्रतिपद्यते अतोऽधिकरणमुत्पद्यते इति नियुक्तिगाथासमासार्थः ।। अथैनामेव विवृणोति[भा.२६९४] आभव्वमदेमाणे, गिण्हत तहेव मग्गमाणे य ।
सच्चित्तेतरमीसे, वितहापडिवत्तिओ कलहो॥ वृ-'आभाव्यं नाम' शैक्षःशैक्षिका वा कस्याप्याचार्यस्योपतस्थे 'युष्मदन्तिके प्रव्रज्यां गृह्णामि' इति। तमुपस्थितं मत्वा विपरिणमय्य परः कश्चिदाचार्यो गृह्णाति ततो मौलाचार्योब्रवीति-किमेवं मदीयमाभाव्यं गृह्णासि ?, पूर्वगृहीतं वा शैक्षादिकं याचितः-मदीयमाभाव्यं किं न प्रयच्छसि ? इति। एवमाभाव्यं सचित्तम् इतरद्' अचित्तं मिश्रृंवा तत्कालं गृह्यमाणंपूर्वगृहीतंवामार्यमाणमपि यदा वितथप्रतिपत्तितो न ददाति तदा कलहो भवति । वितथप्रतिपत्तिर्नाम-परस्याभाव्यमपि शैक्षादिकमनाभाव्यतया प्रतिपद्यते॥वचोगतद्वारमाह[भा.२६९५] विच्चामेलण सुत्ते, देसीभासा पवंचने चेव ।
अन्नम्मि य वत्तव्वे, हीनाहिय अक्खरे चेव ।। वृ- 'सूत्रे' सूत्रविषया या 'व्यत्यानेडना' अपरापरोद्देशका-ऽध्ययन-श्रुतस्कन्धेषु घटमानकानामालापक-श्लोकादीनां योजना, यथा-“सव्वजीवा विइच्छंति, जीविउंनमरिजिउं" इत्यत्र इदमप्यालापकपदं घटते “सव्वे पाणा पियाउया" इत्यादि । तथाभूतं सूत्रं परावर्तयन् ‘किमेवं सूत्रं व्यत्यानेडयसि ?' इति प्रतिनोदितो यदि न प्रतिपद्यते तदाऽधिकरणं भवति । देशीभाषा नाम-मरु-मालव-महाराष्ट्रादिदेशानां भाषा तामन्त्रयत्र देशान्तरे भषमाण उपहस्यते, उपहस्यमानश्वासङ्खडं करोति । यद्वा प्रपञ्चनं वचनानुकारेण वा चेष्टानुकारेण वा कोऽपि करोति ततः प्रपञ्चयमानसाधुना सहाधिकरणमुत्पद्यते।अन्यस्मिन् वा वक्तव्ये कोऽप्यन्यद्वक्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org