________________
१३६
बृहत्कल्प-छेदसूत्रम् -२-१/३४ यद्वा हीनाक्षरमधिकाक्षरं वा पदं वक्ति । तत्र हीनाक्षरम्-भास्कर इति वक्तव्ये भाकर इति वक्ति, अधिकाक्षरम्-सुवर्णमिति वक्तव्ये सुसुवर्णमिति ब्रवीति॥परिहारिकद्वारमाह[भा.२६९६] परिहारियमठवेंते, ठवियमणट्ठाए निव्विसंतेवा।
कुच्छियकुले व पविसइ, चोइयऽनाउट्टणे कलहो॥ वृ-गुरु-ग्लान-बालादीनां यत्र प्रायोग्यं लभ्यते तानि कुलानि परिहारिकाण्युच्यन्ते, एकं गीतार्थसङ्घाटकं मुक्त्वा शेषसङ्घाटकानां परिहारमर्हन्तीति व्युत्पत्तेः । तानि यदि न स्थापयति, स्थापितानि वा 'अनर्थ' निष्कारणं 'निर्विशति' प्रविशतीत्यर्थः, यद्वा 'परिहारिकाणि नाम' कुत्सितानि जात्यादिजुगुप्सितानीति भावः, तेषु कुलेषु प्रविशति । एतेषु स्थानेषु नोदितो यदि नावर्त्तते न वा तेषु प्रवेशादुपरमते ततः कलहो भवति ।। देशकथाद्वारमाह[भा.२६९७] देसकहापरिकहणे, एक्के एक्के व देसरागम्मि।
मा कर देसकहं ति य, चोइय अठियम्मि अहिगरणं ॥ वृ-देशकथाया उपलक्षणत्वाद्भक्त-स्त्री-राजकथानांच परिकथनं कुर्वाणो द्वितीयेन साधुना नोदितः-मा देशादिकथां कार्षी, न वर्तते साधूनामीशी कथां कथयितुम् । स प्राह-कोऽसि तवं येनैवं मां वारयसि? । तथापि अस्थिते' अनुपरते सत्यधिकरणं भवति । यद्वा “एक्के एक्के व देसरागम्मि"त्ति एकः साधुः सुराष्ट्रां वर्णयति, यथा-रमणीयः सुराष्ट्राविषयः; द्वितीयः प्राहकूपमण्डूकस्त्वम्, किंजानासि? दक्षिणापथएवप्रधानोदेशः; एवमेकैकदेशरागेणोत्तरप्रत्युत्तरिकां कुर्वाणयोस्तयोरधिकरणं भवति ॥ एवमुत्पन्नेऽधिकरणे किं कर्तव्यम् ? इत्याह[भा.२६९८] जो जस्स उ उवसमई, विज्झवणं तस्स तेन कायव्वं ।
जो उ उवेहं कुज्जा, आवज्जइ मासियं लहुगं । वृ-यःसाधुर्यस्य साधोःप्रज्ञापनयोपशाम्यतितस्यतेन साधुना 'विध्यापन' क्रोधाग्निनिर्वापणं कर्तव्यम् । यः पुनः साधुरुपेक्षां कुर्यात् स आपद्यते मासिक लघुकम् ॥ [भा.२६९९] लहुओ उ उवेहाए, गुरुओ सो चेव उवहसंतस्स ।
उत्तुयमाणे लहुगा, सहायगत्ते सरिसदोसो॥ वृ- उपेक्षां कुर्वाणस्य लघुको मासः प्रायश्चित्तम् । उपहसतः स एव मासो गुरुकः । अथ उत्प्राबल्येन तुदति उत्तुदति-अधिकरणं कुर्वन्तं विशेषत उत्तेजयतीत्यर्थः ततश्चत्वारो लघुकाः। अथ कलहं कुर्वतः 'सहायकत्वं' साहाय्यं करोति ततोऽसावधिकरणकृता सह सध्शदोष इति कृत्वा सदृशं प्रायश्चित्तमापद्यते, चतुर्गुरुकमित्यर्थः ॥ तथा चाह[भा.२७००] चउरो चउगुरु अहवा, विसेसिया होति भिक्खुमाईणं ।
अहवा चउगुरुगादी, हवंति ऊ छेद निट्ठवणा॥ वृ-भिक्षु-वृषभोपाध्याया-ऽऽचार्णामधिकरणंकुर्वतांप्रत्येकंचतुर्गुरुकम्, ततश्चत्वारश्चतुर्गुरुका भवन्ति ।अथवात एव चतुर्गुरुकास्तपः-कालविशेषिता भवन्ति, तद्यथा-भिक्षोश्चतुर्गुरुकंतपसा कालेनच लघुकम्, वृषभस्य तदेव कालगुरुकम्, उपाध्यायस्य तपोगुरुकम्, आचार्यस्य तपसा कालेन च गुरुकम् । अथवा चतुर्गुरुकादारभ्य च्छेदे निष्ठापना कर्तव्या, तद्यथा-भिक्षुरधिकरणं करोति चतुर्गुरुकम्, वृषभस्यषड्लघुकम्, उपाध्यायस्यषड्गुरुकम्, आचार्यस्याधिकरणंकुर्वाणस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org