________________
उद्देशक : १, मूलं- ३४, [भा. २७०० ]
१३७
च्छेद इति । यथा चाधिकरणकरणे आदेशत्रयेण प्रायश्चित्तमुक्तं तथा साहाय्यकरणेऽपि द्रष्टव्यम्, समानदोषत्वात् ।। अथोपेक्षाव्याख्यानमाह
[भा.२७०१] परपत्तिया न किरिया, मोत्तु परटुं च जयसु आयट्ठे । अवयवेा वत्ता, गुणो वि दोसो हवइ एवं ॥
वृ-इहाधिकरणं कुर्वतो दृष्ट्वा माध्यस्थ्यभावेन तिष्ठन् अन्येषामप्युपदेशं प्रयच्छति-परप्रत्यया या 'क्रिया' कर्मबन्धः सा अस्माकं न भवति, परकृतस्य कर्मण आत्मनि सङ्क्रमाभावात् । तथा यद्येतावधिकरणकरणादुपशाम्येते ततः परार्थ कृतो भवति । तं च परार्थं मुक्त्वा यदि मोक्षार्थिनस्तदा ‘आत्मार्थ एव’ स्वाध्याय-ध्यानादिके 'यतध्वं' प्रयत्नं कुरुत । अपि चेत्यभ्युच्चये । ओधनियुक्तिशास्त्रेऽप्युपेक्षा संयमाङ्गतया प्रोक्ता, “उवेहित्ता संजमो वुत्तो" (पेहेत्ता संजमो वुत्तो, उवेहित्ता वि संजमो) । इति वचनात् । यद्वा "मैत्री- प्रमोद - कारुण्य- माध्यस्थ्यानि सत्त्वगुणाधिक-क्लिश्यमाना-ऽविनेयेषु" इति वचनाद् अविनेयेषु माध्यस्थ्यापरपर्याया उपेक्षैव प्रोक्ता, ततः सैव साधूनां कर्तुमुचितेति भावः । अत्र सूरिराह "गुणो वि दोसो हवइ एवं " ति यदिदमविनेयेषु माध्यस्थ्यमुपदिष्टं तदसंयतापेक्षया न पुनः संयतानङ्गीकृत्य; यस्मादसंयतेष्वियमुपेक्षा क्रियमाणा गुणः संयतेषु तु क्रियमाणा महान् दोषो भवति । उक्तञ्चौघनिर्युक्तावपि संजयगिहिचोयणऽचोयणे यवावार ओवेहा । अथ " परपत्तिया न किरिय" त्ति पदं भावयति
[भा. २७०२]
जइ परोपडिसेविज्जा, पावियं पडिसेवणं । मज्झ मोनं चरंतरस, के अट्ठे परिहायई ॥
- यदि 'परः' आत्मव्यतिरिक्तः 'पापिकाम्' अकुशलकर्मरूपामधिकरणादिकां प्रतिसेवनां प्रतिसेवेत ततो मम मौनमाचरतः को नाम ज्ञानादीनां मध्यादर्थः परिहीयत ? न कोऽपीत्यर्थः ॥ अथ "मोत्तु परट्टं व जयसु आयट्टे" इति पदं व्याचष्टे
[भा. २७०३]
आय उवत्ता, माय परट्ठम्मि वावडा होह ।
हंदि परट्ठाउत्ता, आयट्ठविणासगा होंति ॥
वृ- आत्मार्थो नाम-ज्ञान-दर्शन- चारित्ररूपं पारमार्थिकं स्वकार्यं तत्रोपयुक्ता भवत, मा च ‘परार्थे’ परकार्येऽधिकरमोपशमनादौ व्यापृता भवत । हन्दीति हेतूपदर्शने । यस्मात् परार्थायुक्ता ‘आत्मार्थविनाशकाः’ स्वाध्याय-द्यानाद्यात्मकार्यपरिमन्थकारिणो भवन्ति ।। गतमुपेक्षाद्वारम् । अथोपहसनोत्तेजनाद्वारे युगपद् व्याचष्टे
[भा. २७०४] एसो वि ताव दम्मउ, हसइ व तस्सोमयाए ओहसना । उत्तरदानं मा ओसराहि अह होइ उत्तुअणा ।।
वृ- द्वयोरधिकरणं कुर्वतोरेकस्मिन् सीदति आचार्योऽन्यो वा ब्रवीति - एषोऽपि तावददान्तपूर्वोदम्यतामिदानीमनेन; यदि वा तस्य 'अवमतायां' पश्चात्करणे इत्यर्थः स्वयमट्टट्टहासैरुपहसति, एतदुपहसनमुच्यते । तथा तयोर्मध्याद् यः सीदति तस्य 'उत्तरदानं ' अमुकममुकं च ब्रूहि इत्येवं शिक्षापणम्; यद्वा-माऽमुष्मादपसरस्त्वम्, ध्ढीभूय तथा लग यथा नैतेन पराजीयसे, अथैषोत्तेजनाऽभिधीयते ॥ अथ सहायकत्वं व्याख्यानयति
[भा. २७०५ ] वायाए हत्थे हि व, पाएहि व दंत-लउडमादीहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org