________________
१२९
उद्देशक ः १, मूलं-३३, [भा. २६७२] आह यद्येवं ततः सूत्रमपार्थकम् ?, तत्र साध्वीनां वस्तुमनुज्ञातत्वात् । सूरिराह-नैवम्[भा.२६७३] सुत्तनिवाओ पासेन गंतु बिइयपय कारणज्जाए।
सालाए मझे छिंडी, सागारिय निग्गहसमत्थो ।। कृ-यत्र पार्श्वेनगत्वानिर्गमन-प्रवेशौक्रियेतेतत्र निर्ग्रन्थीभिर्द्धितीपदेऽध्वनिर्गमनादौ कारणजाते वस्तव्यमित्येवमत्र सूत्रनिपातः । तत्र च शालायां वा मध्ये वा छिण्डिकायां वा यदि सागारिकः 'निग्रहसमर्थ' जितेन्द्रियस्तरुणादीनांवा संयतीरुपसर्गयतांखरण्टनादिना शिक्षाकरणदक्षो भवति ततस्तत्र स्थातव्यम् ॥ एतदेव व्याख्यातुमाह[भा.२६७४] पासेन गंतु पासे, व जंतु तहियं न होइ पच्छित्तं ।
मज्झेण व जंगंतुं, पिह उच्चारं घरंगुत्तं ॥ [भा.२६७५] दुजणवजा साला, सागारअवत्तभूणगजुया वा।
एमेव मज्झ छिंडी, निय-सावग-सज्जणगिहे वा ।। वृ-यत्र पाइँन गत्वा निर्गम्यते वा, यद् वा गृहं गृहपतिकुलस्य पार्वे भवति तत्र तिष्ठतां प्रायश्चित्तं न भवति । यद् वा गृहं गृहपतिकुलस्य मध्येन गत्वा प्रविश्यते तद् यदि पृथगुच्चारकायिकीभूमिकं ‘गुप्तं च' कुड्य-कपाटादिभिः सुसंवृतं ततस्तत्रापि प्रायश्चित्तं न भवति । तत्र यदिशालायां स्थातव्यं स्यात् तदा सा 'दुर्जनवर्जा' दुःशीलरहिता यद्वा सागारिकस्य सम्बन्धिनो येअव्यक्ताः-अद्याप्यपरिणतवयसोभ्रूणकाः-बालकास्तैर्युता याशाला तस्यां स्थातव्यम् । एवमेव चतुःशालकादिगृहमध्ये छिण्डिकायांवायत्र निजकाः-तासामेव संयतीनांनालबद्धाःपितृ-भ्रात्रादयः श्रावका वा-माता-पितृसमाना जिनवचनभाविता भवन्ति यानि वा सज्जनानां-स्वभावत एव सुशीलानां यथाभद्रकाणां गृहाणि तत्र स्थातव्यम् ।।
मू. (३४) भिक्खू य अहिगरणं कटुतं अहिगरणं विओसवित्ता विओसवियपाहुडे, इच्छाए परो आढाइजा इच्छाए परो नो आढाइजा, इच्छाए परो अब्भुटेजा इच्छाए परो नो अब्भुटेजा, इच्छाए परो वंदिज्जा इच्छाए परो नो वंदिज्जा, इच्छाए परो संभुजेजा इच्छाए परो नो संभुंजेजा, इच्छाए परो संवसिज्जा इच्छाए परो नो संवसिज्जा, इच्छाए परो उवसमिजा इच्छाए परो नो उवसमिज्जा । जो उवसमइ तस्स अत्थि आराधना, जो न उवसमइ तस्स नत्थि आराधना, तम्हा अप्पणा चेव उवसमियव्वं । से किमाहुभंते ! ? उवसमसारं सामनं ।।
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याशङ्काव्युदासायाह[भा.२६७६] एगत्थ कहमकप्पं, कप्पं एगत्थ इच्चऽसद्दहतो।
पडिसिद्धे व वसंते, निवारण वइक्कमे कलहो। वृ- ‘एकत्र' गृहपतिकुलस्य मध्ये कथं निर्ग्रन्थानामकल्प्यम् ? निर्ग्रन्थीनां तु कथम् ‘एकत्र' तत्रैव कल्प्यम् ? 'इति' एवमश्रद्दधतः कलह उपजायते । यद्वा प्रतिषिद्ध प्रतिश्रये वसतः केनचिन्निवारणं कृतम्, ततः प्रतिषिद्धोपाश्रयस्थाता तदीयवचनस्य व्यतिक्रम-विकुट्टनं करोति एवं कलहो भवेत् । उत्पन्ने च कलहे झगित्येव व्यवशमनं कर्तव्यमित्यत्र सूत्रे प्रतिपाद्यत इति ॥
अनेन समबन्धेनायातस्यास्यव्याख्या-'भिक्षु सामान्यः साधुः, चशब्दस्यानुक्तसमुच्चयार्थत्वा199
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org