SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ बृहत्कल्प-छेदसूत्रम् -२-१/३३ वृ-अस्य व्याख्या प्राग्वत्।। अथ भाष्यम्[भा.२६६८] एसेव कमो नियमा, निग्गंथीणं पिनवरिचउलहुगा। नवरं पुन नाणत्तं, सालाए छिडि मज्झेय॥ वृ-'एष एव' निर्ग्रन्थसूत्रोक्तः क्रमो निर्ग्रन्थीनामपि ज्ञातव्यः । नवरं तासां तत्र तिष्ठन्तीनां चतुर्लघुकाः प्रायश्चित्तम्, वैक्रिया-ऽप्रावृता-ऽऽदर्शविषयाश्च दोषा न भवन्ति । शेषं सर्वमपि प्राग्वद् द्रष्टव्यम् । नवरं पुनः 'नानात्वं' विशेषः शालायं छिण्डिकायां मध्ये च त्रिष्वपि स्थानेषु वक्तव्यम् । तत्र शालायां तावदाह[भा.२६६९] सालाए कम्मकरा, उड्डंचय गीयए य ओहसणा। घर खामणं च दानं, बहुसो गमनं च संबंधो॥ वृ-शालायां स्थितानामार्यिकाणां कर्मकराउड्डञ्चकान् कुर्युः, यथा-याशी इयमार्यिका ताशी मम श्यालिका वा मातुलदुहिता वा विद्यते । गीतेन वा ते कर्मकरादयः प्रपञ्चन्ते, यथा-वंदामु खंति ! पडपंडुरसुद्धदंति!, रच्छाए जंति! तरुणाण मणंहरंति!।इत्यादि। उपहसनं वा कश्चित् करोति।ततश्च भिक्षार्थंगृहंगतायास्तस्याः क्षामणम्, दानंचवस्त्र-पात्रादेः, गमनंचबहुशस्तस्याः समीपे करोति । ततश्चैवं ‘सम्बन्धः' तयोः परस्परं घटनं भवति । अथामून्येवोपहसनादीनि पदानि गाथात्रयेण भावयति[भा.२६७०] पानसमा तुज्झ मया, इमा यसरिसी सरिव्वया तीसे। संखे खीरनिसेओ, जुज्जइ तते तत्तं च ॥ [भा.२६७१] सो तत्थ तीए अन्नाहि वा वि निब्भत्थिओ गओ गेहं । खामिंतो किल सुढिओ, अक्खुन्नइ अग्गहत्थेहिं । [भा.२६७२] पाएसुचेडरूवे, पाडेत्तू भणइ एस भे माता। जंइच्छइ तं दिज्जह, तुमं पि साइज जायाई॥ वृ-तत्र शालादौ काञ्चिदुदाररूपां संयती दृष्ट्वा कश्चित् पुरुषः स्वसुहृदं विपन्नपत्नीकं सोपहासमित्थं ब्रवीति-वयस्य ! या किल तव प्राणसमा पत्नी सा तावन्मृता, अपराच तथाविधा न विलोक्यते, ‘इयंतु' संयती 'तस्याः' त्वत्पल्याः ‘सध्शी' सध्यूपा सध्वयाश्च, अतस्तवानया सह सम्बन्धो विधीयमानःशङ्के क्षीरनिषेक इव, तप्तंच लोहमपरेणापितप्तेन सह संयोज्यमानमिव 'युज्यते' सुश्लिष्टीभवति । एवं ब्रुवाणोऽसौ तया संयत्या अन्याभिर्वा संयतीभिढिं निर्भर्त्सतः सन् सवयस्योऽपि स्वगेहं गतः । अन्यदा च स तदीयवयस्यः संयती भिक्षार्थं स्वगृहमागतां शठतया “सुढितो" ति सुष्टु-अतीवास्तः-प्रयत्नपरः किल क्षामयन्निव अग्रहस्तैः ‘आक्षुणति' तस्याः पादौ विलिखतीत्यर्थः, चेटरूपाणि च प्राक्तनपत्याः सम्बन्धीनि तस्याः संयत्याः पादयोः पातयित्वा भणति-एषा "भे" भवतां माता, यत्किमपीयमिच्छति तत् सर्वमाहारादिजातमस्यै दातव्यम् । संयतीमपि भणति-एतत् त्वदीयं गृहम्, अमूनि च भवत्याः सम्बन्धीनि ‘जातानि अपत्यानि, अतस्त्वमेतानि ‘सातयेः" सङ्गोपायेः। एवमुक्त्वा वस्त्रा-ऽन-पानादीनि बहुशस्तस्याः प्रयच्छति।साच स्त्रीस्वभावतया तुच्छेनाप्याहारादिना वशीक्रियत इत्यतो भूयो भूयस्तदीयगृहे गमानगमनं कुर्वत्यास्तस्यास्तेन सह सम्बन्धो भवति । यत एते दोषा अतो न तत्र स्थातव्यम्॥ Jain Education International anal For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy