________________
१२७
उद्देशक : १, मूलं-३२, [भा. २६६३]
विलवंतीसु सकलुणं, हयहियय! किमाकुलीभवसि ।। वृ-बीजकायंकुट्टयन्तीति कुट्टन्यः-कण्डनकारिण्य इत्यर्थः, तासु गायन्तीषुसाधुभिस्वचेतसि चिन्तनीयम्-यदि नामैतः कुट्टन्योमुशलैरनवरतमुक्षिप्यमाण-निक्षिप्यमाणैः 'सादिताः' खेदिताः सत्यस्तढुखापनोदार्थमित्थं विस्वररुदन्त्य इवगायन्ति तर्हि परमार्थतो विलपितमेवैताः कुर्वन्ति, "सर्वं गीतं विलपितम्" इति वचनात् ततः सकरुणं विलपन्तीष्वेतासु हे हतहृदय ! किमेवम् 'आकुलीभवसि' विश्रोतसिकामुपगच्छसि? नैवं भवतो युज्यत इति भावः।
गता शालाविषया चता । अथ मध्यविषयांयतनामाह[भा.२६६४] मज्झे जग्गंति, सया, निति ससदा य आउला रत्तिं ।
फिडिए यजयण सारण, एहेहि इओ इमंदारं ॥ कृ-यत्रचतुःशालादिगृहमध्ये वसन्तितत्रवृषभारात्रौ सदैव' चतुर्वपियामेष्वित्यर्थःवारकेण जाग्रति । कायिक्यादिव्युत्सर्जनार्थं च रात्री ‘सशब्दाः' काशितादिशब्दं कुर्वन्तः ‘आकुलाश्च' त्वरमाणाः 'निर्यन्ति' निर्गच्छन्ति यथा पूर्वोक्ताः शङ्कादयो दोषा न स्यु । यश्च रात्रौ 'स्फिटितः' मार्गात् परिभ्रष्टो भवति तस्य यतनया यथा गृहस्था न विबुध्यन्ते तथा सारणा कर्तव्या, यथा-ह हि इत इदं द्वारंवर्तते ॥ [भा.२६६५] अविजाणंतो पविट्ठो, भणइ पविट्ठो अजाणमाणो मि।
एहामि वए ठविउं, न पवत्तइ अस्थि मे इच्छा ॥ वृ-यत्सत्रान्यमपवरमविजानन् प्रविष्टः स पृष्टोऽपृष्टो वा शङ्कापनोदार्थ भणति-'अजानानः' मार्गमनवबुध्यमानोऽहमत्र प्रविष्टः । यदिअविरतिका तमवभाषते-मया सममुपभुव भोगान् अन्यथोड्डाहं करिष्यामीति, ततो वक्तव्यम्-येषा गुरूणां समीपे मया व्रतानि गृहीतानि सन्ति तेषामेव सन्निधौ स्थायित्वाएष्यामि, ममापि त्वद्विषयाइच्छाऽस्ति परं किं करोमि? 'नप्रवर्तते' नबुध्यते (युज्यते) गुरूणांसमीपेव्रतान्यस्थापयित्वा एवं कर्तुम् इत्यभिधायततो निर्गन्तव्यम्।।
यत्र मजन-हिरण्ये भवतस्तत्रेयं यतना[भा.२६६६] कडओ व चिलिमिली वा, मजतिसुथेरगा यतत्तो उ।
आइन्नहिरनेसुय, थेर चिय सिक्खगा दूरे॥ कृ-शय्यातरस्त्रीषु मज्जन्तीषु उपलक्षणत्वात् शय्यातरे वा मजति अपान्तराले कटको वा चिलिमिलिका वा दातव्या, ततश्च तेन पाइँन स्थविराः स्थापयितव्याः । येन च पार्वेन हिरण्यादीन्याकीर्णानि भवन्ति ततः स्थविरा एव कर्त्तव्याः । शिक्षकास्तु ततो दूरे स्थापनीयाः॥ गता मध्यविषया यतना । अथ छिण्डिकाविषयामाह[भा.२६६७] दारमसुत्रं काउं, निति अइंती ठिया उ छिंडीए।
काइयजयणा सच्चिय, वगडासुत्तम्मिजा भणिया॥ कृ-छिण्डिकायां स्थिताः सन्तोद्वारमशून्यं कृत्वा निर्गच्छन्ति वा प्रविशन्तिवा येन स्तेनादयो दोषा न भवन्ति । 'कायिकीयतना तु' मात्रकव्युत्सर्जनादिका सैव द्रष्टव्या या पूर्वं वगडासूत्रे भणिता ॥
मू. (३३) कप्पइ निग्गंधीणं गाहावइकुलस्स मज्झमज्झेणं गंतुं वत्थए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org