________________
१२६
बृहत्कल्प-छेदसूत्रम् -२-१/३२ वसन्ति ।। तत्र शालाविषयां यतनां तावदाह[भा.२६५९] बोलेण झायकरणं, तहा विगहिएऽनुसहिमाईणि।
वेउव्वि खद्धऽवाउडि, छिड्डा चोले य पडले य॥ कृयत्रस्वाध्यायं कुर्वतामालापकान्कर्णाघाटयन्तितत्र बोलेन' सर्वेऽपिसमुदिताः स्वाध्यायं कुर्वन्तियेन तेव्यक्तं किमप्यालापकपदंनशृणुयुः । अथ तथापितेतदेकाग्रचित्ततया शृण्वन्तो दक्षत्वादालापकपदानि गृह्णीयुः ततस्तेषामनुशिष्टः कर्तव्या-भो भद्राः! न वर्तते युष्माकमित्यं कर्णाघाटकेनालापन्ग्रहीतुम्, इत्थं गृह्णतामिहैवोन्मादादयोबहवोऽना भवन्तीति।आदिग्रहणाद् विद्याया मनेण वा ते तथा वशीक्रियन्ते यथा कर्णाघाटकेन ग्रहणादुपरमन्ते । तथा 'विकुर्विते' विण्टकविद्धे 'खद्धे' महाप्रमाणे 'अपावृते' व्यपगतत्वचिसागारिके सति इयं यतना-पटलकानां चोकपट्टकस्य वा चतुरस्त्रीकृतस्यैकस्मिन् पुटे छिद्रं कृत्वा सागारिकं गोपायितव्यम् ।।
यत्रादर्शदोषा भवन्ति तत्रेयं यतना[भा.२६६०] अद्दागदोससंकी, जा पढमा ताव पाउया निति।
उट्ठण-निवेसनेसुय, तत्तो पिटुंन कुव्वंति ॥ वृ- आदर्शदोषशङ्किनः सन्तो यावत् प्रथना पौरुषी तावत् प्रावृता एव निर्गच्छन्ति । उत्थानोपवेशनयोश्च ततः गृहस्थाभिमुखपृष्ठंन कुर्वन्ति,मापुतौ ध्ष्ट्वा तेऽमङ्गलंमन्यन्तामिति कृत्वा ।। यत्र कल्पस्थकदोषाः समुद्देशदोषाश्च भवन्ति तत्रेयं यतना[भा.२६६१] अवणाविंतिऽवनिति व, कप्पढे परिरयस्स असईए।
अप्पत्ते सइकाले, बाहि वियट्टति निग्गंतुं॥ वृ-परिरयो नाम-मार्गान्तरेणगमनम्, ततश्चयद्यन्यस्यमार्गस्यसम्भवस्ततः कल्पस्थाधिष्ठितं मार्गं विहाय तेन गन्तव्यम् । अथ नास्त्यपरो मार्गस्ततः कल्पस्थानि शय्यातरादिभिस्ततो मार्गादपनाययन्ति, वयंभिक्षादौ गमिष्यास्तत एतदपत्यभाण्डं निव्याबधिमन्यत्र नयत' इत्येवं भणन्तीतिभावः ।अथनतत्रकोऽपिसनिहितः ततःस्वयमेव यतनयाततोमार्गात्तान्यपनयन्ति। तेषां च गृहस्थानां यदा समुद्देशनवेला तदा साधवोऽप्राप्ते एव भिक्षासत्काले पात्रकाण्युद्ग्राह्य निर्गत्य च बहिर्गत्वा 'व्यावर्त्तयन्ति भिक्षावेलां प्रतीक्षन्ते, येनावष्वष्कणादयो दोषाः परिहृता भवन्ति ।। यत्र संयतानां भुजानानां सागारिकंतत्रेयं यतना[भा.२६६२] नीउच्चा उच्चतरी, चिलिमिलि भुंजंत सेसए भयणा।
पुढवी-दगाइएसंसारण जयणाएकायव्वा ।। वृ-यदि सर्वेऽपिसाधवः ‘भुञ्जानाः' भक्तार्थिनस्तदा तिस्त्रश्चिलिमिलिकादातव्याः, तद्यथाप्रथमा नीचा, द्वितीया तस्याः सकाशादुच्चा, तृतीया तु ततोऽप्युच्चतरा । शेषा नाम-यदि केचिदभक्तार्थिनस्तदा तिसृणां चिलिमिलिकानां भजना, कदाचिदेका कदाचिद् द्वे कदाचित् तिम्रोऽपि दातव्या इति भावः । यत्र च पृथिवी-दका-ऽग्नि-बीजानां सम्भवस्तत्र गृहस्थानां यतनया 'सारणा' अनुशिष्टिः कर्तव्या, यथा साधूनांपृथिव्युदकाग्निबीजानांविराधनान भवति तथा यतितव्यमिति ॥यत्र बीजकायंकण्डयन्त्यो गायन्ति तत्रेयं यतना
[भा.२६६३] जइ कुट्टणीउ गायंति विस्सरं साइयाउ मुसलेहिं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org