________________
उद्देशक : १, मूलं - ३२, [भा. २६५५ ]
[ भा. २६५५ ] छिंडीए अवंगुयाए, उब्मामग-तेनगाण अइगमणं । वसहीए वोच्छेदो, उवगरणं राउले दोसा ॥
वृ- संयतैः रात्रौ कायिकीव्युत्सर्जनार्थं 'अपावृतायाम् उद्घाटितायां झिण्डिकायां कस्याप्युद्भामकस्य स्तेनस्य वा 'अतिगमनं' प्रवेशो भवेत् । सच प्रविश्य किञ्चिदपहरेत् अगारीं वा प्रतिसेवेत तन्निष्पन्नं साधूनां प्रायश्चित्तम् । शय्यातरश्चिन्तयेत् कुतो घननिश्छिद्रे स्तेनकः प्रविष्टः ? नृनं संयतौश्छिण्डिका रात्रवुद्धाटिता। ततोऽसौ प्रद्विष्टो वसतेर्य्यवच्छेदं कुर्यात् । यद्वा स स्तेनकः संयतानां गृहस्थानां वा 'उपकरणं' वस्त्रादिकमपहरेत् ततः सागारिको राजकुले निवेदयेत्, यथा-संयतैरुद्धाटितायां छिण्डिकायां स्तेनकः प्रविष्टः । ततश्च ग्रहणाऽऽकर्षणादयस्त एव दोषाः ।। अथवा शप्यातरभ्रूणिका केनचिदुद्भ्रामकेण सह सम्प्रलग्ना, तया च 'रात्रौ भवता समागन्तव्यम्' इति तस्य सङ्केतः कृतः, स चोद्भामक आयातः संयतैश्च छिण्डिका स्थगिता, ततः सा द्वितीयदिने तं प्रश्नयति
[भा. २६५६ ] किं नागओ सि समणेहिं ढक्कियं दोस कूयरा जं तु । एतेऽवंगुण व, अज पइट्ठो सइरचारी ॥
१२५
वृ- कल्ये किं नागतोऽसि ? । स प्राह- आगतोऽहं परं किं करोमि ? श्रमणैः स्थगितं छिण्डिकाद्वारम् । ततः “दोस कूयरा जं तु" त्ति कुत्सितं शिष्टजनजुगुप्सितं चरन्तीति कुचराः- उद्भ्रामका उद्भ्रामिका वा, ते यद् 'द्वेषात्' प्रद्वेषतः साधूनां प्रान्तापना - ऽभ्याख्यानदानादि करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् । अथवा 'एतैः' श्रमणैः 'अपावृतेन' उद्घाटितेन छिण्डिकाद्वारेण 'स्वैरचारी' स्तेन उद्भ्रामकोवा अद्यास्माकं गृहे प्रविष्ट इति सागारिको यद् वसत्यादिव्यवच्छेदं कुर्यात् तन्निष्पम् ।। अथवा स्तेनः प्रविष्टः सन्निदं कुर्यात्[भा. २६५७]
अवहारे चउभंगो, पसंग एएहिं संपदिन्नं तु । संजयलक्खेण परे, हरिज तेना दिय निसिं वा ।।
वृ- अपहारे चतुर्भङ्गी । तद्यथा-एके स्तेनाः प्रविष्टाः सन्तः संयतानां हरन्ति न गृहस्थानाम् १ अपरे गृहस्थानां न संयतानाम् २ केचिद् गृहस्थानामपि संयतानामपि ३ केचिन्न गृहस्थानां न संयतानामित्येष चतुर्थो भङ्गः शून्यः । तत्र यत्र संयतानामपहरन्ति तत्रोत्कृष्ट-मध्यम- जधन्योपधिनिष्पन्नम् । यत्र तु गृहस्थानामपहरन्ति तत्र 'एतैरेव साधुभिश्छिण्डिकामुद्घाटयद्भिस्मदीयं सुवर्णादि स्तेनेभ्यः सम्प्रदत्तम्' इति विचिन्त्य ते गृहस्था राजकुले ग्रहणा ऽऽकर्षणादिप्रसङ्ग कारापयेषुः । तथा 'अपरे' केचिद् मायाविनः स्तेनाः 'संयतलक्ष्येण' साधुवेषव्याजेन दिवा वा निशायां वा तत्र प्रविश्य कथञ्चित् प्रमत्तानामगारिणां सुवर्णादिकमपहरेयुः । तृतीयभङ्ग तु प्रथमद्वितीयभङ्गोक्ता दोषा द्रष्टव्याः । यत एते दोषा अतः शालायां वा मध्ये वा छिण्डिकायां वा न स्थातव्यम् । भवेत् कारणं येन तत्रापि तिष्ठेयुः ॥ किं पुनस्तत् ? इत्याहअद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असईए । साला मज्झे छिंडी, वसंति जयणाए गीयत्था ।।
[भा. २६५८]
वृ- अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् शुद्धां वसतिं मार्गयित्वा यदि न लभन्ते ततः प्रथमं शालायां तस्या अलाभे चतुःशालादिगृहमध्ये तस्याप्यभावे छिण्डिकायां यतनया गीतार्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org