________________
४८४
-
-
बृहत्कल्प-छेदसूत्रम् -२-३/९५ प्रकृतिरेषा यत् तथाविधज्ञानविकलोऽप्येष औद्धत्यमुद्वहति ।।क्षपकः प्राह[भा.४३६३] मूलेण विना हु केलिसे, तलु पवले य घने य सोभई।
न य मुलविभिन्नए घडे, जलमादीणि धलेइ कुण्हुई। कृ-मूलेन विना 'तरु' वृक्षः चशब्दावपिशब्दार्थो, 'प्रवरोऽपि प्रधानोऽपिसहकारादिरपीत्यर्थः, 'घनोऽपि' पत्रबहलोऽपिकीशःशोभते? नकीद्दगपीतिभावः; एवं विनयमूलविकलोधर्मोऽपि न शोभां बिभर्ति । तथा 'न च' नैव मूले-बुध्ने विभिन्नो घटो जलादीनि वस्तनि क्वचिदपि धारयति, एवं धर्मघटोऽपि विनयमूले सातछिद्रो न किमपि ज्ञानादिजलं धारयितुमिष्टे ।
अतोऽहं विनयं कारयामीति प्रक्रमः॥ [भा.४३६४] किंवा मए न नायं, दुविहे गहणम्मिजं जहिं कमती।
भन्नइ अभिनवगहणं, सच्चित्तं तेन न विन्नायं॥ वृ-सचित्ता-ऽचित्तभेदाद् द्विविधेऽपि ग्रहणे यद् यत्राभिनवंपुराणं वा क्रामति तत् तत्र मया किं वा न ज्ञातं येनैवं 'न जानासि ग्रहणस्वरूपम्' इत्याधभिधीयते? । इतरः प्रतिब्रूते-भण्यते अत्रोत्तरम्-अभिनवं सचित्तग्रहणं त्वया न विज्ञातम् ॥ तच्चेदम्- . [भा.४३६५] अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु ।
पवावणाअनरिहा, अनला एएत्तिया वुत्ता ॥ [भा.४३६६] अडयालीसं एते, वज्जित्ता सेसगाण तिण्हं पि।
अभिनवगहणं एयं, सच्चित्तं ते न विनायं ॥ वृ- 'पुरुषेषु' पुरुषविषयाः “बाले वुड्ढे नपुंसे य०" इत्यादिगाथाद्वयोक्ता अष्टादश भेदाः, स्त्रीषुत एव गुर्विणी-बालवत्सासहिताविंशतिर्भेदाः, नपुंसकेषुतु“पंडए वाइएकीवे." इत्यादयो दश भेदाः प्रव्राजनाया अनर्हा-अयोग्याः । अत एव “एएत्तिय"त्ति एते एतावन्तो भेदाअनला इति निशीथाध्ययने उक्ताः, “अली भूषण-पर्याप्ति-वारणेषु" इति धातुपाठाद् अपर्याप्ताः, प्रव्रज्यापरिपालनेऽसमर्था इत्यर्थः ॥ एतान् सर्वसङ्ख्यया अष्टाचत्वारिंशतं भेदान् वर्जयित्वा शेषाणां त्रयाणामपि' पुरुष-स्त्री-नपुंसकानांप्रव्राजनं कर्तुं कल्पते । एतदभिनवग्रहणं सचित्तं "ते" त्वया न विज्ञातम् । एवं तेनोक्ते सति क्षपकः ‘सती नोदना' इत्यभिधाय प्रवृत्तस्तथैव यथारत्नादिकं वस्त्रप्रदानं कर्तुमिति॥
मू. (९६) कप्पइ निग्गंथाणवा निग्गंधीणवाआहारायणियाए सेज्जासंथारएपडिग्गाहित्तए। वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.४३६७] घेत्तं जहक्कमेणं, उवही संथारएसु ठवयंति।
तेसि पि जदा गहणं, तं पिहु एमेव संबंधो॥ वृ-यथारलाधिकक्रमेणोपधिं गृहीत्वा ततस्ते स्वस्वसंस्तारकभूमीषु स्थापयन्ति । तेषामपि च' संस्तारकाणां यदा ग्रहणं तदा तदपि ‘एवमेव' यथारत्नाधिकं कर्तव्यम् । एष पूर्वसूत्रेण सह सम्बन्धः॥ __अनेन सम्बन्धेनायातस्यास्य व्याख्या- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथारलाधिकं शय्यासंस्तारकान् प्रतिग्रहीतुमिति सूत्रसङ्केपार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org