________________
उद्देश : ३, मूलं- ९६, [भा. ४३६७ ]
अथेदमेव सूत्रं विवरीषुराह[भा. ४३६८]
सेज्जासंथारो या, सेज्जा वसही उ थाण संथारो । पुव्वहम्मि उ गहणं, अगेण्हणे लहुगो आणादी ||
वृ- शय्यासंस्तारो नाम शय्या - वसतिस्तस्यां यत् 'स्थानं' शयनयोग्यावकाशलक्षणं स शय्यासंस्तारक उच्यते । तस्य च शय्यासंस्तारकस्योपाश्रयं प्राप्तैः पूर्वाह्णवेलायामेव ग्रहणं कर्त्तव्यम् । अग्रहणे मासलघु प्रायश्चित्तम्, आज्ञादयश्च दोषाः ॥ [ भा. ४३६९]
चोयगपूच्छा दोसा, मंडलिबंधम्मि होइ आगमनं । संजम - आयविराधन, वियालगहणे य जे दोसा ॥
वृ- अत्र नोदकः पृच्छां करोति-यदि पूर्वाह्न एव ग्रामं प्राप्तास्ततस्तदैव शय्यासंस्तारकमपि गृह्णन्तु, वयमप्येतत् प्रतिपद्यामहे; परं यदि भक्तवेलायां प्राप्तास्तदा प्रथमं भिक्षां पर्यटन्तु, ततो बहिरेव समुद्दिश्य चरमपौरुषीप्रत्युपेक्षणां कृत्वा स्वाध्यायं च विधाय विकालवेलायां ग्रामं प्रविशन्तु । सूरिराह - "दोस'' त्ति बहिर्भुञ्जनानां बहवो दोषाः । कथम ? इत्याह- 'मण्डलीबन्धे' चिलिमिलिकां दत्त्वा मण्डलीरचनया भोजने विधीयमाने कुतूहलेन सागारिकाणामागमनं भवति, तैः सहासङ्घडे क्रियमाणे संयमाSSत्मविराधना । विकाले च वसतेर्ग्रहणे ये दोषा भवन्ति तन्निष्पन्नं प्रायश्चित्तं भवतीति द्वारागाथासमासार्थः ॥
सम्प्रतमेनामेव विवरीषुराह
[भा. ४३७०]
४८५
अइभारेण व इरियं, न सोहए कंटगाइ आयाए । • भत्तट्ठिय-वोसिरिया, अतिंतु एवं जढा दोसा ।।
वृ-परः प्राह-भक्तवेलायां प्राप्तैस्तावत् प्रथमतो भक्तं ग्रहीतव्यम्, अन्यथा वेलातिक्रमे भक्तपानलाभो न भवेत् । ततो भक्त - पानं गृहीत्वा वसतिं गवेषयित्वा यदि तदानीमेव तत्र प्रवेशः क्रियते तदा भक्त-पानोपकरणसत्को यो अतिभारस्तेन वाशब्दस्यानुक्तसमुच्चयार्थतया बुभुक्षया तृष्परितापनया चोपयोगमप्रयच्छन्तः संयमे ईर्यां न शोधयेयु-, आत्मनि कण्टकादिकं न पश्येयुः, एवं च यथाक्रमं संयमा-ऽऽत्मनोर्विराधना । ततः 'भक्तार्थि-व्युत्सृष्टाः' पूर्वं भक्तार्थिताः - बहिरेव समुद्दिष्टास्ततो व्युत्सृष्टाः कृतपुरीष-प्रश्रवणोत्सर्गा सन्तो ग्रामम् 'अतियन्तु' प्रविशन्तु, एवं हि 'दोषाः ' संयमा - ऽऽत्मविराधनालक्षणाः परित्यक्ता भवन्ति ॥
अथाचार्य प्रत्युत्तरयति
[भा. ४३७१] आयरियवयण दोसा, दुविहा नियमा उ संजमा - SSयाए । aas को वा सामी, असंकडं मंडलीए वा ।।
वृ- आचार्यस्य वचनमिदम्-त्वदुक्तनीत्या बहिर्भुञ्जानानां नियमाद् 'द्विविधाः' संयमाssत्मविराधना (लक्षणाः) दोषा भवन्ति । तथाहि तैस्तत्र भक्त - पानमानीतं सागारिकाश्च कुतूहलवशात् तद्दर्शनार्थमागताः, ततो यदि तावन्तं कालं भक्त - पानं धारयन्तस्तिष्ठन्ति तदा भारेण महती परितापना भवेत् सूत्रार्थयोश्च परिहाणिरुपजायेत । अथ सागारिकान् ब्रुवते - 'व्रजतयूयम्' ततोऽधिकरणं भवति । अथवा ते सागारिका एवमुच्यमाना ब्रवीरन्-कोऽस्य वृक्षस्य देवकुलस्य वा स्वामी ये चास्माकं सम्मुखं 'व्रजत' इति भणत ? । एवमसङ्घडे तैः सह सञ्जाते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org