SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ - ४८६ बृहत्कल्प-छेदसूत्रम् -२-३/९६ ततश्चभाजनभेदादयो दोषाः । अथ मण्डल्यांरचितायांसागारिकाः समागच्छन्तिततोमहान्तमुड्डाहं कुर्युः ।। अमुमेवार्थं सविशेषमाह[भा.४३७२] भत्तट्ठण सज्झाए, पडिलेहण रत्तिगेण्हणे जंच। पुव्वण्हम्मि उ गहणे, परिहरिया ते भवे दोसा॥ - "भक्तार्थन' मण्डल्या भोजनं स्वाध्यायं प्रत्युपेक्षणां वा क्रियमाणां विलोक्य ते उड्डाहं उड्डञ्चकान् वा कुर्वीरन्, तत्रापि तथैवासाडदोषः । अथ ते सागारिकाः प्रद्विष्टाः सन्तो वसतिं न प्रयच्छन्ति ततोऽपरं ग्रामं गच्छेयुः, तत्र च विकाले प्राप्ताः सन्तो रात्रौ वसतिग्रहणं कुर्वन्तो यद् दोषजालमापद्यन्ते तनिष्पत्रं प्रायश्चित्तम्, अतः पूर्वाह्न एव वसतेग्रहणं कर्तव्यम् । ततश्च 'ते' पूर्वोक्ता दोषाः परिहृता भवन्ति ॥ किञ्च[भा.४३७३] कोतूहल आगमनं, संखोहेणं अकंठगमणादी। ..तेचेवऽसंखडादी, वसहिं च न देतिं जंचऽन्नं ।। वृ-मण्डल्यांसागारिकाः कौतूहलेनागमनं कुर्युतत्र कस्यापि संयतस्य संक्षोभेण भक्त-पानस्य 'अकण्ठगमनादिकम्' अश्रोतोगमनप्रभृतिकं भवेत् । अथवा कोऽप्यसहिष्णुइँयात्-किमेवं प्रलोकयथ?; ततस्त एवासङ्खडादयो दोषाः ।अथ 'सागारिकम्' इति कृत्वाअभुक्ता एव भक्तपानव्यग्रहस्ता ग्रामं प्रविशन्ति तत्र च यैः सममसङ्खडं कृतं ते वसतिं न प्रयच्छेयुः, अन्यानपिच ददतोनिवारयेयुः। “जंचऽनं" तिवसतावप्राप्यमाणायांयदन्यदोषजातमापद्यन्ते तन्निष्पन्नम्।। अथ वसत्यभावदकृतभोजना एवान्यं ग्रामं गच्छेयुः तत इमे दोषाः[भा.४३७४] भारेण वेयणाए, न पेहई खाणुमाइए दोसे । इरियाइ संजमम्मी, परिगलमाणे य छक्काया ।। वृ-भक्त-पानस्योपकरणस्य च सम्बन्धिना भारेणवेदना या भवेत्तयाचस्थाणु-कण्टकादीन् दोषान् न प्रेक्षते, ततश्चात्मदिराधना । यत् पुनरीया अशोधनं सा संयमविराधना । परिगलति च भक्त-पाने षट्कायविराधना ॥ तत्रप्राप्तानां दोषानभिधित्सुराह[भा.४३७५] पविसण मग्गण ठाणे, वेसित्थि दुगंछिए य सुन्ने य । सज्झाए संथारे, उच्चारे चेव पासवणे ॥ वृ-अन्यस्मिन् ग्रामे विकालवेलायां प्रवेशे कृते वसतेर्गिणे परस्परस्फिटितानामाकारणेन महानधिकरणदोषो भवति । वेश्यास्त्रपाटके चर्मकरादिस्थाने वा जुगुप्सिते तिष्ठतां वक्ष्यमाणं दोषजातं 'शून्यगृहादौ च' अप्रत्युपेक्षितायां वसतौ स्वाध्यायं संस्तारकमुच्चारं प्रश्रवणं च कुर्वतामकुर्वतां च बहवो दोषा भवन्तीति द्वारगाथासमासार्थः॥ अथैनामेव विवृणोति[भा.४३७६] सावय तेना दुविहा, विराधना जा य उवहिणा उ विना । . गुम्मिय गहणा-ऽऽहणणा, गोणादी चमढणा रत्तिं॥ वृ-विकालेप्रविशतांश्वापदभयंभवति। 'स्तेना द्विविधाः' शरीरापहारिण उपकरणापहरिणश्च, ते तदानीमभिद्रवन्ति । उपघातपहृते या तेन विना तृणग्रहणा-ऽग्निसेवनादिका संयमविराधना For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy