________________
४८३
उद्देशकः ३, मूलं-९५, [भा. ४३५९] प्रतिग्रहो मात्रकं वा गृहीतम् । तथा[भा.४३६०]पाणदय सीयमत्युय, पमज्ज चिलिमिलि निसिज कालगते। __. गेलन्न लज्ज असहू, छेअण सागारिए भोगो।।
दृ-वर्षाकल्पादिकं 'प्राणिदयार्थम्' अकायादिजीवरक्षानिमित्तं परिभोक्तव्यम् । कल्पत्रयं शीतरक्षार्थम् । संस्तारकोत्तरपट्टको आस्तरणमास्तृतं तदर्थम् । रजोहरणंचप्रमार्जनार्थं गृह्यते। चिलिमिलिका ज्योतिशाला-दकतीरादावुपयुज्यते।रजोहरणस्यनिषद्याद्वयंनिषदनार्थमादीयते। "कालगए"त्ति कालगतस्याच्चादनार्थं नन्तकादिकं गृह्यते । ग्लानत्वं वा कस्यापि सजातं सः अप्रावृतः सुखेनास्तामिति कृत्वा तस्याग्रे चिलिमिलिका दीयते । “लज्ज"त्ति लज्जाव्यपगमार्थ चोलपट्टकः परिभुज्यते । “असहु"त्ति राजादिप्रव्रजिता असहिष्णवः ते कल्पादिकं प्रावृणीयुः। "छेदन"त्तिनखहरणिका-पिप्पलकादिनानखप्रलम्बादीनां छेदनं क्रियते। “सागारिए"त्ति शैक्षस्य त्ति नखहरणिका-पिप्पलकादिना नखप्रलम्बादीनां छेदनं क्रियते । “सागारिए"त्ति शैक्षस्य सज्ञातकानां सागारिकं ततः कल्पादिकं प्रावार्य प्रच्छन्ने स्थाप्यते । एवमादिकः सर्वोऽपि यथायोगमौधिकस्यौपग्रहिकस्य चोपधेः परिभोगो मन्तव्यः ।।
उक्तं पुराणग्रहणम्।तदुक्तौ च समर्थितमचित्तग्रहणम् । एवं क्षपकेण त्रिविधे ग्रहणे प्ररूपिते सति इतरः प्राह[भा.४३६१] उवरिं कहेसि हिट्ठा, न याणसी वयणं न होइ एवं तु ।
चतुरो गुरुगा पुच्छा, नासेहिसितं जहा वेजो। वृ- यद् उपरि कथयितुं योग्यं तत् त्वम् ‘अधस्तात्' पूर्वं कथयसि । इयमत्र भावना-यद् भवता प्रथममेवाचार्यादिविषयं पुराणसचित्तग्रहणमभिहितं तदशैक्षलक्षणाभिनवसचित्तग्रहणप्ररूपणादूर्ध्व प्ररूपयितुं योग्यमासीत्, अभिनव-पुराणपर्याययोः पूर्व-पश्चात्कालभावित्वेन भावात; तस्य चाभिनवसचित्तगर्हणस्य भवताप्ररूपणैवनकृता, अत एवनजानासि ग्रहणस्वरूपम्। यथा च “वन्दित्वा विनयेन पृच्छ' इत्येवमहकारदूषितं वचनं त्वयोक्तम् एवमभिधियमानं न भवति, सतां पूजनीयमिति वाक्यशेषः। एवंचब्रुवाणस्य भवतश्चत्वारोगुरुकाः।क्षपकः पृच्छतिकिमत्र मम झूणमापतितं येनैवं प्रायश्चित्तं ? । इतरः प्राह-त्वं पल्लवग्राहितया सम्यक् सिद्धान्ताभिप्रायमविज्ञाय जल्पसि । एवं च प्रज्ञापयन् त्वमात्मना नष्टोऽन्यानपि नाशयिष्यसि, यथा स प्रथमोद्देशकमणितो वैद्यः पूर्वाह्ने वमनं दद्यादपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पत्यमाहर्विशोषणम्॥
इति श्लोकमात्रं गृहीत्वा चिकित्सां कुर्वन् विनष्टः एवं भवानपीति चिरनतनगाथासमासार्थः । अथैनामेव किश्चिद् विवृणोति[भा.४३६२] वयणं न वि गव्वमालियं, एलिसयं कुलसेहि पूजियं।
अहवा न वि एत्थ लूसिमो, पगई एस अजानुए जने ॥ वृ. इतरः क्षपकं ब्रूते-'ईशं' 'मां वन्दित्वा विनयेन पृच्छ' इत्येवंरूपं 'गर्वभारितम्' । अहङ्कारभारगुरुकं वचनं 'कुशलैः' विद्वद्भिः 'न पूजितं' नश्लाधितम्, अतो नैव भवतो वक्तुं युज्यते । अथवा नाप्यत्र वयं 'रुष्यामः' रोषं कर्तुमर्हामः । कुतः ? इत्याह-'अज्ञे' मूर्खे जने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org