________________
उद्देशकः३, मूलं-९५, [भा.४३१३]
४७३
अदाणे गुरुणो लहुगा, सेसे लहुओ इमे होति ॥ वृ-वस्त्रेषु समानीतेषु ये वृषभास्ते यथारत्नाधिकं तत्र वस्त्रणि प्रयच्छन्ति । यदि तत्र गुरुणां प्रथमतो वस्त्रदानं न कुर्वन्ति तदा चतुर्लघुकाः । शेषाणां यथारत्नाधिकं विभज्य न प्रयच्छन्ति लघुमासः । तेच रत्नाधिकाः 'इमे' वक्ष्यमाणा भवन्ति । तत्र गुरुणां याशानि वस्त्राणि दीयन्ते तदेतत् प्रतिपादयति[भा.४३१४] विदु क्खमा जे य मनानुकूला, जे योवजुजंति असंथरते।
गुरुस्स सानुग्गहमप्पिणत्ता, भाएंत सेसाणि उ झंझहीणा ।। वृ-साधुभिर्यथाविधि गृहीत्वा भूयांसि वासांसि वृषभाणां समर्पितानि, ततो वृषभा "विदु" त्ति 'विदित्वा' सुन्दरा-ऽसुन्दरताविभागं विज्ञाय यानि 'क्षमाणि' हेढानि यानि च ‘मनोऽनुकूलानि' गुरुणां मनसोऽभिरुचितानियानि चाऽसंस्तरति गच्छेगुरुपरिभुक्तान्यपिशेषसाधूनामुपयुज्यन्ते तानि गुरोः 'सानुग्रह' सविशेषं यथा भवति एवमपयित्वा शेषाणि वस्त्राणि झञ्झा-कलहस्तेन हीनाः-विरहिताः सन्तो यथारत्नाधिकं परिभाजयन्ति ।
अथ तानेव रत्नाधिकानाह[भा.४३१५] उवसंपज्ज गिलाणे, परित्त सुत सोअव्वए य जातीय।
तव भासा लद्धीए, ओमे दुविहस्स अरिहा उ॥ वृ. “उवसंपज्ज" ति यः तत्प्रथमतया उपसम्पदं प्रतिपद्यते । ‘ग्लानः' मन्दः, स च द्विधाआगाढोऽनागाढश्च । 'परीत्तः' परिमितोपधि । “सुत" त्ति बहुश्रुतः । “सोअव्वए" त्ति यो व्याख्यानमण्डल्या उत्थितानां सूत्रार्थे श्रोतव्ये ज्येष्ठतया व्यवह्रियते । “जाइ"त्तिजातिस्थविरः षष्टिवर्षपर्यायः । “तव" त्ति तपस्वी । “भास" त्ति यः अभाषिकः-तद्देशभाषायामनभिज्ञः । "लद्धीए" त्ति यस्य लब्ध्वा वस्त्राणि लभ्यन्ते।
एतेषामुपसम्पद्यमानादीनां यथाक्रमंदत्वा ततो यो यः पर्यापरत्नाधिकः स सप्रथमं गृह्णाति, "ओमि" त्ति अवमरालिकः पश्चाद् गृह्णाति ।
एते यथाक्रमं 'द्विविधस्य' ओघोपधेरौपग्रहिकोपधेश्च ग्रहणे 'अर्हा' योग्या मन्तव्याः॥ [भा.४३१६] एएसि परुवणया, जा य विना तेहिं होति परिहानी ।
अहवा एक्केकस्स उ, अड्डोकंतीक्कमो होति ॥ वृ-एतेषाम्' उपसम्पद्यमानादीनां प्ररुपणा' व्याख्याकर्तव्या, सा चानन्तरमेव कृता । यद्येतेषां यथाक्रमं वृषभा न प्रयच्छन्ति ततो या तेषां 'तैः' वस्त्रैर्विना 'परिहानि' संयमविराधनादिका भवति तन्निष्पन्न प्रायश्चित्तम् । अथवा 'एकैकस्य' उपसम्पद्यमानादेः प्रत्येकं ग्लानादिविषयोऽयमर्धापक्रान्तिक्रमो भवति ॥ तद्यथा[भा.४३१७] उवसंपज्ज गिलाणो, अगिलाणो वा वि दोन्नि वि गिलाणा।
तत्थ विय जो परित्तो, एस गमो सेसगेसुं पि । - उपसम्पद्यमानो द्विविधः-ग्लानोऽग्लानश्च । तत्र यो ग्लानस्तस्य दातव्यम् । अथ द्वावपि ग्लानावग्लानौ वा ततो यस्तत्र परीत्तोपधिस्तस्मै दातव्यम् । एवमेषः ‘गमः' प्रकारः 'शेषेष्वपि' बहुश्रुतादिपदेषु मन्तव्यः, तद्यथा-द्वावपि परीत्तोपधी अपरीत्तोपधी वा ततो यो बहुश्रुतस्तस्मै
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org