________________
४७२
बृहत्कल्प-छेदसूत्रम् -२-३/९५
दोषा न भवन्तीति । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'यथारालिकं' योयो रात्निकः- भावरलैरधिकस्तदनतिक्रमेणचेलानिप्रतिग्रहीतुमिति सूत्रार्थः।।
अथ नियुक्तिविस्तरः[भा.४३०९] संघाऽएण एक्कतो, हिंडंती वंदएन जयणाए।
साधारणऽनापुच्छा, उ अदत्तं एक्कओ भागा॥ वृ-सङ्घाटकेन ‘एकतः' एकस्यां दिशि साधवो वस्त्रग्रहणार्थं हिण्डन्ते । अथ सङ्घाटकेन न प्राप्यते ततो वृन्देनापि यतनया पर्यटन्ति । अथ ‘साधारणं' बहूनामाचार्याणां सामान्यं तत् क्षेत्रं ततो यदि तत्रापरेषामाचार्याणामनापृच्छया गृहन्ति तवा “अदत्तं" ति साधर्मिकस्तैन्यं भवति, अतस्तानापृच्छय ग्रहीतव्यानि, गृहीत्वा च तेषां वस्त्रणाम् ‘एकतः' एकसहशा भागाःकर्तव्यान विसहशा इति सङ्ग्रहगाथासमासार्थः॥
साम्प्रतमेनामेव विवृणोति[भा.४३१०] निस्साधारण खेत्ते, हिंडंतो चेव गीतसंघाडो।
उप्पादयते वत्थे, असती तिगमादिवंदेनं ।। वृ-'निस्साधारणे एकाचार्यप्रतिबद्ध क्षेत्रे गीतार्थसङ्घाटको भिक्षां हिण्डमानएववसत्रण्युत्पादयति ।अथ सङ्घाटकेन हिण्डमानान प्राप्नुवन्ति ततः 'त्रिकादिवृन्देन' त्रिचतुःपञ्चादिसाधुसमूहेन पर्यटन्त उत्पादयन्ति ॥
साधारणक्षेत्रे पुनरयं विधिः[मा.४३११] दुगमादीसामन्ने, अणपुच्छा तिविह सोधि नवमं वा।
संभोइयसामन्ने, तह चेव जहेक्कगच्छम्मि । कृ-द्विकादीनां-द्वित्रिप्रभृतीनामाचार्याणांसामान्य क्षेत्रेतेषामनापृच्छया गृह्णतस्त्रिविधा 'शोधिः' प्रायश्चित्तम्-जधन्ये पञ्चकम्, मध्यमे मासिकम्, उत्कृष्टेः; 'नवमंवा' सूत्रादेशेनानवस्थाप्यम् । ते चाचार्या परस्परं साम्भोगिका असाम्भोगिका वा । तत्र साम्भोगिकसामान्य क्षेत्रे वस्त्रग्रहणे तथैव विध्यवसातव्यो यथा एकस्मिन् गच्छे सङ्घाटकादिक्रमेण अनन्तरगाथायामुक्तः॥
असाम्भोगिकेषु विधिमाह[भा.४३१२] अमणुनकुलविरेगे, साही पडिवसभ-मूलगामे य।
अहवा जो जं लाभी, ठायंतिजधासमाधीए॥ वृ-अमनोज्ञाः-असाम्भोगिकास्तैः सह यत् क्षेत्रं साधारणं तत्र कुलादीनां विरेकः- विभजनं कर्तव्यम्, यथा-एतेषु कुलेषुयुष्माभिर्वस्त्रणिग्रहीतव्यानि, एतेषुपुनरस्माभि, यद्वाऽस्यांसाहिकायांगृहपङ्क्तिरुपायां भवद्भिः, अस्यां पुनरस्माभि; अथवा प्रतिवृषभग्रामेषु यूयं ग्रहीष्यथ, वयं मूलग्रामे ग्रहीष्यामः; मूलग्रामेवा यूयं, वयंप्रतिवृषभग्रामेषु; अथवा यो यद्वस्त्र कुलादौ पर्यटन् "लाभी' लप्स्यते तेन तस्य ग्रहणं कर्तव्यम् । एतेषामन्यतमेन प्रकारेण व्यवस्था स्थापयित्वा यथासमाधिना तत्र तिष्ठन्ति ।।
एवमसाधारणे वा क्षेत्रे वस्त्राणि गृहीत्वा किं कर्तव्यम् ? इत्याह - [भा.४३१३] वत्थेहि आनितोहिं, देति अहारातिणिं तहिं वसभा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org