________________
उद्देशक : ३, मूलं-९४, [भा. ४३०३]
४७१
सम्यग निश्चित्य परक्षेत्रे वस्त्रग्रहणं कर्तुकामाः क्षेत्रस्वामिनामन्तिके गत्वा पृष्टवा च तैः “दत्तम्' अभ्यनुज्ञातं यावत्प्रमाणं वस्त्रादि तावदेव गृह्णन्ति, नातिरिक्तम् । अथ न ज्ञायन्ते ते कुत्रापि गतास्ततो विधिपृच्छया उपकरणे गृहीतेयदि ते क्षेत्रिकाः शुद्धा आगच्छेयुः ततः शुद्धेषुतेष्वागतेषु ततो यावद् गृहीतं तावत् तेषां प्रत्यर्पयन्ति, शेषस्य चाग्रहणम् ।।
कथं पुनस्ते क्षेत्रिका आगताः शद्धा अशुद्धा वा भवन्ति? इति उच्यते[भा.४३०४] पडिजग्गंति गिलाणं, ओसहहेऊहि अहव कजेहिं ।
एतेहि होति सुद्धा, अह संखडिमादि तह चेव ॥ वृ-क्षेत्रिका मासद्वये पूर्णेऽपिअमीभि कारणैर्नसमागन्तुं शक्नुयुः-ग्लानं प्रतिजाग्रतः स्थिताः, ग्लानस्य वा औषधम्-अगदंतन्मीलनहेतोः स्थिताः, कुल-गण-सङ्घकार्येषुवाव्यापृताः; एवमादिभिः कारणैरनागच्छन्तः शुद्धाः । अथ सङ्खडिनिमित्तं स्थिता व्रजिकादिषु वा प्रतिबध्यमाना आगताः ततः 'तथैव' मासद्वयं यावत् तदीयं क्षेत्रम्, उपरि तु पञ्चरात्रं न ते प्रभवः, ततो यत् तैस्तत्र क्षेत्रे गृहीतं तद् गृहीतमेव, न क्षेत्रिकाणां प्रयच्छन्ति॥
अमुनि तु विशुद्धकरणानि[भा.४३०५] तेनभय सावयभया, वासेण नदीय वा विनि]रुद्धाणं।
दायव्वमदेताणं, चउगुरुतिविहं च नवमं वा।। वृ-स्तेनभयाद्वा श्वापदभयाद्वा वर्षेण वा नद्या वा निरुद्धानां चिरादागमनमभूत् ततो यद् गृहीतंतत् तेषामागतानां दातव्यम् । अथ न ददति ततश्चतुर्गुरुकम्, उपकरणनिप्पन्नवा (त्रिविधं] पञ्चक-मासिक-चतुर्लघुकलक्षणम्, 'नवमं वा' सूत्रादेशेनानवस्थाप्यम् ॥ [भा.४३०६] परदेसगते नाउं, सयं व सेज्जातरं व पुच्छित्ता ।
गेहंति असढभावा, पुनेसु तु दोषु मासेसु ॥ वृ-स्वयमपि क्षेत्रिकान् परदेशगतान् ज्ञात्वा शय्यातरं वा पृष्टवा परदेशगतान् निश्चित्य द्वयोर्मासयोः पूर्णयोः 'अशठभावाः' शुद्धपरिणामा गृह्णन्ति ।। [भा.४३०७] बिइयपदमणाभोगे, सुद्धा देंता अदेंते ते चेव ।
आउट्टिया गिलाणादि जत्तियं सेस अग्गहणं॥ वृ-द्वितीयपदमत्रोच्यते-'अनाभोगो नाम' 'किमत्र साधवो वर्षाकल्पं मासकल्पं वा कृतवन्तो नवा?' इति न सम्यक् परिज्ञातं ततः परक्षेत्रेऽपि गृह्णीयुः, पश्चाद् ज्ञाते क्षेत्रिकाणां प्रयच्छन्तः शुद्धाः, अप्रयच्छतां त एव दोषाः । अथ 'आकुट्टिकया' आभोगेन गृहीतं परं ग्लानादीनामर्थे ततो यावत् तेषामुपयुज्यते तावद् गृह्णन्ति, 'शेषम्' अतिरिक्तंन गह्णन्ति॥
मू. (९५) कप्पइ निग्गंथाण वा निग्गंधीण वा अहाराइणियाए चेलाइं पडिग्गाहिंत्तए। [भा.४३०८] दिटुं वत्थग्गहणं, तेसिं परिभायणे इमं सुतं ।
अविनय असंविभागा, अधिकरणादी य नेवं तु ॥ वृ-द्वितीयसमवसरणे दृष्टं तावद् वस्त्रग्रहणम् । सम्प्रति तेषां वस्त्रणां परिभाजने' विभज्य प्रदाने यो विधिस्तदभिधायकमिदं सूत्रमारभ्यते । इत्थं विभज्य प्रदाने किं प्रयोजनम् ? इति चेद् अत आह-‘एवं' यथारनाधिकं वस्त्राणां विभज्य दानेऽविनयोऽसंविभागोऽधिकरणादयश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org