________________
उद्देशक : १, मूलं - १८, [भा. २३७५]
च्छं सकलमपि वेष्टयति सा गणनयैका, प्रमाणेन त्वनियता ॥ [भा.२३७६ ]
६७
असतोण्णि खोमिरज्जू, एक्कपमाणेण जा उ वेढेइ । कडहूवागादीहिं, पोत्तऽसइ भए व वागमई ॥
वृ- रज्जूचिलिमिलिका पूर्वमौर्णिकदवरकरुपा । तस्या अभावे क्षौमिकदवरकात्मकाऽपि कर्त्तव्या। सा च सर्वेषामपि साधूनां प्रत्येक गणनयैकैका, प्रमाणेन तु हस्तपञ्चकदीर्धा भवति; गणावच्छेदिकहस्ते वा एक एव दवरको भवति यः सकलमपि गच्छ शीतादिरक्षायै वेष्टयति । कडहूर्नाम-वृक्षविशेषः, तस्य यद् वल्कम् आदिशब्दात् पलाश-शणादिसम्बन्धीनि वल्कानि, तैर्निर्वृत्ता वल्कमयी, साच “पोत्तऽसई” त्ति वस्त्रचिलिमिलिकाया अभावे 'भये वा' स्तेनादिसमुत्थे गृह्यते ॥ [भा. २३७७] देहऽहिओ गणणेक्को, दुवारगुत्ती भये व दंडमई । संचारिमा य चउरो, भय माणे कडमसंचारी ॥
वृ- देहं शरीरं तस्य प्रमाणादधिको यो दण्डकः स देहाधिकः, स च समयपरिभाषया देहात् चतुरङ्गुलाधिकप्रमाणा नालिका भण्यते, एतावता प्रमाणप्रमाणमुक्तं द्रष्टव्यम् । स च देहाधिको दण्डको गणनयैकैकस्य साधोरकैको भवति । तैश्च दण्डकैः श्वापदादिभये 'द्वारगुप्ति' द्वारस्य स्थगतं क्रियते । एषा दमयी दृष्ट्वा । एताश्चादिमाश्चतस्त्रश्चिलिमिलिका वसतेर्वसतिं क्षेत्रात् क्षेत्रं सञ्चरन्तीति सञ्चारिमा उच्यन्ते । कटकमयी तु असञ्चारिमा । 'माने च' प्रमाणे द्विविधेऽपि तां कटकमरयीं चिलिमिली 'भज' विकल्पय, अनियतप्रमाणेत्यर्थः । तत्र प्रमाणङ्गीकृत्य यावता वक्ष्यामाणं कार्यं पूर्यते तावप्रमाणा कटकचिलिमिली, गणना तु यद्येकः कटः कार्यं न प्रतिपूरयित ततो द्विव्यादयोऽपि तावत्सङ्ख्याकाः कटा ग्रहीतव्या यावद्भिस्तत् कार्यं पूर्यते तावत्प्रमाणा कटकचिलिमिली, गणनया तु यद्येकः कटः कार्यं न प्रतिपूरयति ततो द्विव्यादयोऽपि तावत्सङ्ख्याकाः कटा ग्रहीतव्या यावद्भिस्तत् कार्यं पूर्यते ॥
गतं द्विविधप्रमाणम् । अथ 'उपभोगो द्विपक्षे' इति पदं विवृणोति
[भा. २३७८ ] सागारिय सज्झाए, पानदय गिलाण सावयभए वा । अद्धाण-मरण-वासासु चेव सा कप्पए गच्छे ॥
वृ- - सागारिके पश्यति स्वाध्याये विधातव्ये प्राणदयायां विधेयायां ग्लानार्थं श्वापदभये वा उत्पन्नेऽध्वनि मरणे वर्षासु चैव 'सा' चिलिमिलिका कलपते 'गच्छे' गच्छ्वासिनां साधूनां परिभोक्तुम् । एष निर्युक्तिगाथासमासार्थः । अथैनामेव प्रतिपदं विवृणोति
[भा. २३७९]
पडिलेहोभयमंडलि, इत्थी - सागारियट्ठ सागरिए । घाणा - SS लोग ज्झाए, मच्छिय- डोलाइपानेसु ॥
वृ- प्रतिलेखनां कुर्वन्तो द्वारे चिलिमिलिकां कुर्वते, मा सागारिका उत्कृष्टोपधिं द्राक्षु मा वा उडुञ्चकान् कार्षुरिति कृत्वा, “उभयमंडलि"त्ति समुद्देशनमण्डल्यां स्वाध्यायमण्डल्यां चोड्डाहरक्षणार्थम्, 'इत्थीसागारियट्ठ "त्ति स्त्रीरूपप्रतिबद्धायां च वसतौ 'स्त्रीसागारिकानामालोको मा भूत्' इत्येतदर्थं चिलिमिली दीयते, “सागारिए "त्ति सागारिकद्वारे चिन्त्यमाने एतत् कारणजातं चिलिमिलिकाग्रहणे द्रष्टव्यम् । “घाणाऽऽ लोग ज्झाए ”त्ति स्वाध्यायद्वारे यत्र मूत्रपुरीषादेरशुभा प्राणिरागच्छति, शोणित-चर्बिकाणां वा यत्रालोकः, चेटरूपाणि वा यत्र कुतूहलेनालोकन्ते तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org