SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -२-१/१८ चिलिमिलीं दत्त्वा स्वाध्यायः क्रियते । मक्षिका-डोलादयो वा प्राणिनो यत्र बहवः प्रविशन्ति, डोला:-तिड्डुका उच्यन्ते तत्र प्राणदयार्थमेतासामेव चिलिमिलिकानामुपभोगः कर्त्तव्य इति ॥ [भा. २३८० ] उभओसहकज्जे वा, देसी वीसत्थमाइ गेलने । अद्धाणे छन्नासइ, भओवही सावए तेने । वृ- उभयं-संज्ञा-कायिकीलक्षणं चिलिमिलिकया आवृतो ग्लानः सुखं व्युत्सृजति, 'औषधकार्ये वा' औषधं वा तस्य प्रच्छन्ने दातव्यम्, 'मा मृगा अवलोकन्ताम्' इति कृत्वा, अतश्चिलिमिलिका दातव्या । एवं "देसि "त्ति यत्र देशे शाकिन्या उपद्रवः सम्भवति तत्र ग्लानः प्रच्छन्ने धारयितव्यः । विश्वस्तो वा ग्लानः प्रच्छन्ने सुखमपावृतस्तिष्ठति । आदिशब्दाद् दुग्धादिकं ग्लानार्थमेव गीतार्थेन स्थापितम्, तच्च दृष्ट्वा ग्लानो यदा तदा वा अभ्यवहरेदिति कृत्वा तत्रान्तरे चिलिमिलिका दीयते यथाऽसौ तन्न पश्यति । एवमादिको ग्लानत्वे चिलिमिलिकानामुपभोगः । अध्वनि प्रच्छन्नस्थानस्याभावे चिलिमिलिकां दत्त्वा समुद्दिशन्ति वा सारोपधिं वा प्रत्युपेक्षन्ते । श्वापदेभ्यो वा यत्र भयं स्तेनेभ्यो वा यत्रोपधेरपहरणशङ्का तत्र दण्डकचिलिमिलिकया कटकचिलिमिलिकया वा ढं द्वारं पिधाय स्थीयते ॥ ६८ [भा.२३८१] छन्न-वहणट्ठ मरणे, वासे उज्झक्खणी य कड़ओ य । उल्लुवहि विरल्लिति व, अंतो बहि कसिण इतरं वा ।। वृ- 'मरणे' मरणद्वारे यावद् मृतकं न परिष्ठाप्यते तावत् प्रच्छन्ने चिलिमिलिकया आवृतं ध्रियते। तथा दण्डकचिलिमिलिकया मृतकमुत्क्षिप्य वहनं कर्त्तव्यम् । तथा वर्षासु जीमूते वर्षति यस्या दिशः सकाशात् “उज्झक्खणीय "त्ति पवनप्रेरिता उदककणिकाः समागच्छेयुः तस्यां कटकचिलिमिली कर्त्तव्या, वर्षासु वा भिक्षाचर्यादौ गतानां वृष्टिकायेनार्द्रीकृतमुपधिं रज्जुचिलिमिलिकायां ‘विरल्लयन्ति' विस्तारयन्तीत्यर्थः । तत्र यः कृत्स्नः -सारोपधिस्तम् 'अन्तः' मध्ये विस्तारयन्ति, इतरः- अकृत्स्नः स्वल्पमूल्य उपधिस्तं बहिर्विस्तारयन्ति । एनां पञ्चविधां चिलिमिलिकामगृह्णतोऽधारयतश्चतुर्लघुकाः, या च ताभिर्विना संयमा-ऽऽत्मविराधना तन्निष्पन्नमपि प्रायश्चित्तम् ।। तथा [भा. २३८२] बंभव्वयस्स गुत्ती, दुहत्यसंघाडिए सुहं भोगो । वीसत्थचिट्ठणादी, दुरहिगमा दुविह रक्खा य ।। वृ- उपाश्रये वर्त्तमाना आर्यिकाश्चिलिमिलिकया नित्यकृतया तिष्ठन्ति, यतो ब्रह्मव्रतस्य गुप्तिरेवं कृता भवति । द्विहस्तविस्तराया अपि सङ्घाटिकायाः सुखं भोगो भवति । किमुक्तं भवति ?प्रतिश्रये हि तिष्ठन्त्यस्ता द्विहस्तविस्तरामेव सङ्घाटिकां प्रावृण्वते न त्रिहस्तां न वा चतुर्हस्ताम् । ततश्चिलिमिलिकायां बहिर्बद्धायां तयाऽपि प्रावृतया विश्वस्ताः - निशङ्काः सत्यः सुखं स्थाननिषदनत्वग्वर्त्तनादिकाः क्रियाः कुर्वन्ति । 'दुरधिगमाश्च' दुःशीलानामगम्या भवन्ति । द्विविधा च रक्षा कृता भवति, संयम आत्मा च रक्षितो भवतीति भावः ॥ मू. (१९) नो कप्पइ निग्गंथाण वा निग्गंथीण वा दगतीरंसि चिट्ठित्तए वा निसीइत्तए वा तुयट्टित्तए वा निद्दाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिट्ठवित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, काउस्सग्गं वा ठाणं ठाइत्तए ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy