SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-१९, [भा. २३८२] वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.२३८३] मा मं को इच्छिइ, दच्छंव अहं ति चिलिमिली तेनं । दगतीरे वि न चिट्ठइ, तदालया मा हुसंकेज्जा॥ वृ-मा मां कोऽपि' सागारिको द्रक्ष्यति, अहंवा तंसागारिकंमाद्राक्षमिति कृत्वा चिलिमिली क्रियते । अत्रापि दकतीरेऽनेनैव कारणेन न तिष्ठति यत् ‘तदालयाः' दकतीराश्रिता जन्तवो मा शङ्कन्तामिति ।। अनेन सम्बन्धेनायातस्यास् व्याख्या- नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'दकतीरे' उदकोपकण्ठे स्थातुंवा' ऊध्वंस्थितस्यासितुं निषत्तुंवा' उपविष्टस्यस्थातुं त्वग्वर्तयितुं वा' दीर्घ कायं प्रसारयितुं निद्रायितुं वा' सुखप्रतिबोधावस्थया निद्रया शयितुं 'प्रचलायितुं वा' स्थितस्य स्वप्तुम्, अशनं वा पानं वा खादिमं वा स्वादिमं वाऽऽहारयितुम्, उच्चारंवा प्रश्रवणंवा खेलं वा सिङ्घानं वा परिष्ठापयितुम्, 'स्वाध्यायं वा' वाचनादिकं कर्तुम्, 'धर्मजागरिकां वा' धर्मध्यानलक्षणां 'जागरितुं' कर्तुम् धातूनामनेकार्थत्वात्, अत्र पाठान्तरम्-"झाणं वा झाइत्तए" धर्मध्यानमनुस्मतमिति, 'कायोत्सर्ग वा' चेष्टा-ऽभिभवभेदाद् द्विविधकायोत्सर्गलक्षणं स्थानं 'स्थातुं' कर्तुमित्यर्थः । एष सूत्रार्थः ॥ अथ नियुक्तिविस्तरः[भा.२३८४] दगतीर चिट्ठणादी, जूयग आयावणा य बोधव्वा । . लहुओ लहुया लहुया, तत्थ विआणाइणो दोसा ॥ वृ-दकतीरे स्थानादीनि कुर्वतः प्रत्येकं लघुको मासः । 'यूपके वक्ष्यमाणलक्षणे वसतिगृह्णाति चतुर्लघुकाः। ‘आतापनां' प्रतीतामपि दकतीरे कुर्वतश्चतुर्लघुकाः प्रायश्चित्तंबोद्धव्याः। तत्रापि प्रत्येकमाज्ञादयो दोषाः ।।अत्र दकतीरस्य प्रमाणे बहव आदेशाः सन्ति तानेव दर्शयति[भा.२३८५] नयने पूरे दिढे, तडि सिंचण वीइमेव पुढे य। अच्छंते आरण्णा, गाम पसु-मणुस्स-इत्थीओ॥ वृ-नोदकः प्राह-“नयनि"ति उदकाकराद् यत्रोदकं नीयते तद् दकतीरम्, यदि वयावन्मात्रं नदीपूरेणाक्रम्यते तद् दकतीरम्, यद्वा यत्र स्थितैर्जलं दृश्यतेतद्दकतीरम्, अथवा यावन्नद्यास्तटी भवति, यदि वा यत्र स्थितो जलस्थितेन शृङ्गकादिना सिच्यते, अथवा यावन्तं भूभागं वीचयः स्पृशन्ति, यदि वायावान्प्रदेशोजलेन स्पृष्ट एतद्दकतीरम्।सूरिराह-यानित्वया दकतीरलक्षणानि प्रतिपादितानि तानिन भवन्ति, किन्त्वारण्यका ग्रामेयकावा पशवोमनुष्याः स्त्रियो वाजलार्थिन आगच्छन्तः साधुंयत्र स्थितं दृष्ट्वा तिष्ठन्तिनिवर्तन्ते वातद्दकतीरमुच्यते ॥ एतदेव सविशेषमाह[भा.२३८६] सिंचण-वीई-पुट्ठा, दगतीरं होइन पुन तम्मत्तं । ओतरित्तरिउमणा, जहि दटुंतसंति तं तीरं ॥ कृनयन-पूरप्रभृतीनांसप्तानामादेशानांमध्याच्चरमाणित्रीणि सिञ्चन-वीचि-स्पृष्टक्षणानिदकतीरं भवन्ति, न पुनस्तावन्मात्रमेव, किन्त्वारण्यका ग्रामेयका वा तिर्यङ्-मनुष्या जलपानाद्यर्थमवतरीतुमनसः पीत्वा वा उत्तरीतुमनसो जलचरा वा यत्र स्थितं साधुं दृष्टवा 'त्रस्यन्ति' बिभ्यति चलन्ति वा तदव्यभिचारि दकतीरमुच्यते ॥ तत्र च स्थान-निषदनादिकरणे दोषान् दर्शयति[भा.२३८७] अहिगरणमंतराए, छेदन ऊसास अनहियासे अ। आहनन सिंच जलचर-खह-थलपाणाण वित्तासो॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy