________________
बृहत्कल्प-छेदसूत्रम् -२-१/१९
वृ-दकतीरे तिष्ठतः साधोः 'अधिकरणं' वक्ष्यमाणलक्षणं बहूनां च प्राणिनामन्तरायं भवति । तथा साधोः सम्बन्धिनीनां पादरेणूनां 'छेदनकाः' सूक्ष्मावयवरूपा उड्डीय पानीये निपतेयुः, यद्वा 'छेदनं नाम' ते प्राणिनः साधुं दृष्ट्वा प्रतिनिवृत्ताः सन्तो हरितादिच्छेदनं कुर्वन्तो व्रजन्ति । “उस्सासे’ति उच्छ्वासविमुक्ताः पुद्गला जले निपतन्ति ततो अप्कायविराधना, यदि वा तेषां प्राणिनां तृषार्त्तानाम् 'उच्छ्वासः' च्यवनं भवेत् मरणमित्यर्थः । “अनहियासेय'त्ति 'अनधिसहाः' तृषामसहिष्णवस्तेऽतीर्थेन जलमवतरेयुः, साधुर्वा कश्चिद् 'अनधिसहः' तृषार्त्ताः पानीयं पिबेत् । दुष्टगवा - ऽश्वादिना वा तस्याहननं भवेत् । दकतीरस्थितं वा अनुकम्पया प्रत्यनीकतया वा कश्चिद् दृष्ट्वा सिञ्चनं कुर्यात् । जलचर- खचर- स्थलचरप्राणिनां च वित्रासो भवेत् ॥
तत्राधिकरणं व्याचिख्यासुराह
७०
[भा. २३८८] दवण वा नियत्तण, अभिहननं वा वि अन्नतूहेणं । गामा-SS रन्नपसूणं, जा जहि आरोवणा भणिया ||
वृ- साधुं दृष्ट्वाऽऽरण्यकादिप्राणिनां निवर्त्तनं भवति, अभिहननं वा परस्परं तेषां भवेत्, “अन्नतूहेणं" ति अन्यतीर्थेन वा ते जलमवतरेयुः तेषां च ग्रामा-Sऽरण्यपशूनां निवर्त्तनादौ षट्कायोपमर्दसम्भवात् “छक्काय चउसु लहुगा" इत्यादिना या यत्रारोपणा भणिता सा तत्र द्रष्टव्या। एष निर्युक्तिगाथासमासार्थः । अथैनामेव विवृणोति
[भा. २३८९] पडिपहनियत्तमाणम्मि अंतरायं च तिमरणे चरिमं । सिग्घगइतन्निमित्तं, अभिघातो काय - आयाए ।
वृ-आरण्यकाः तिर्यञ्चः तिर्यक्स्तियो वा 'पानीयं पिबामः' इत्याशया तीर्थाभिमुखमायान्तः साधुंदकतीरस्थितं दृष्ट्वा प्रतिपथेन निवर्त्तन्ते, निवर्त्तमाने च तत्रारण्यकप्राणिगणे साधीरधिकरणं भवति । तेषां च तृषार्त्तानामन्तरायं चशब्दात् परितापना च कृता भवति । तत्रैकस्मिन् परितापिते च्छेदः, द्वयोस्तु मूलम्, त्रिष्वनवस्थाप्यम्, चतुर्षु परितापितेषु पाराञ्चिकम्, एतेनान्तरायपदं व्याख्यातम् । “तिमरणे चरिमं" ति यद्येकस्तृषार्त्तोम्रियते ततो मूलम्, द्वयोर्ग्रयमाणयोरनवस्थाप्यम्, त्रिषु म्रियमाणेषु साधोः पाराञ्चिकम्, एतेनोच्छ्वासपदं विवृतम् । तथा तं साधुं दृष्ट्वा ते तिर्यञ्चो भीताः शीघ्रगत्या पलायमाना अन्योऽन्यं वा अभिघातयेयुः, षट्कायानां वा तन्निमित्तं शीघ्रं धावमाना अभिघातं विदध्यु, तत्र “छक्काय चउसु लहुगा' इत्यादिकं कायविराधनानिष्पन्नं प्रायश्चित्तम् । हप्ता वा तिर्यञ्चस्तस्यैव साधोराहननादिनाऽऽत्मविराधनां कुर्युः । अनेनाहननपदं व्याख्यातम् ॥ “अनहियासे अन्नतूहेणं "ति पदद्वयं भावयति
[भा.२३९०] अतड-पवातो सो चेव य मग्गो अपरिभुत्त हरियादी । ओवग कूडे मगरा, जइ घंटे तसे य दुहतो वि ॥
वृ- अथ तृषामसहिष्णवस्ते गवादयो अतटेन वा अतीर्थेन अन्यतीर्थेन वाऽवतरेयुः छिन्नटक्के वा प्रपातं दधु ततः परितापनाद्युत्था सैवारोपणा । अथवा 'स एव' अभिनवो मार्ग प्रवर्त्तते तत्र चापरिभुक्तेनावकाशेन गच्छन्तो हरितादीनां छेदनं कुर्यु तत्र तन्निष्पन्नं प्रायश्चित्तम् । एतेन च्छेदनपदं व्याख्यातम् । “ओवग”त्ति गर्त्ता तस्यां वा अतीर्थेनावतीर्णा सन्तः ते प्रपतेयुः, अतीर्थे वा केनचिल्लुब्धकेन कूटं स्थापितं भवेत् तेन कूटेन बद्धा विनाशमश्नुवते, अतीर्थेन वा जलमवतीर्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org