________________
उद्देशक ः २, मूलं-५६, [भा. ३४४८]
२९९ वृ-शुद्धोपाश्रयालाभे प्रथमं भाण्डशालायां तिष्ठन्ति, यतस्तत्र 'उभयकालेऽपि' दिवा रात्रौ च सागारिकं नास्ति । तदभावे कर्मशालायाम् । तदप्राप्तौ आपणशालायामपि, यतस्तत्र 'निशि' रात्रौ सागारिकं नास्ति । तदभावे 'शेषासु' पचनशालादिषु क्रमेण स्थातव्यं यावदिन्धनशाला। तद्यथा-प्रथमं पचनशालायाम्, ततो व्याघरणशालायाम्, गत इन्धनशालायामपि ॥
तत्र स्थितानां यतनामाह[भा.३४४९] ते तत्थ सन्निविट्ठा, गहिया संथारगा विहीपुव्वं ।
जागरमाण वसंती, सपक्खजयणाए गीतत्था॥ वृ-'ते' साधवः 'तत्र' उपाश्रये सन्निविष्टाः सन्तः स्वाध्यायं कुर्वन्ति । विधिपूर्वं यथारत्नाधिकं संस्तारकास्तैस्तत्र गृहीताः । ततश्च गीतार्थाः स्वपक्षयतनां कुर्वाणा जाग्रतः सन्तः 'वसन्ति' तिष्ठन्तीत्यर्थः ॥ कथम् ? इत्याह[भा.३४५०] पासे तणाण साहण, अहिसक्कोसक्क अन्नहिं नयनं ।
संवरणा लिंपणया, छुक्कारण वारणाऽऽगट्ठी ॥ वृ- अग्नेः पार्वे यदि तृणानि भवन्ति ततस्तेषां शोधना कर्तव्या । श्वापदभयेऽनाक्रान्कस्तेनसम्भवे वा अग्नेरभिष्वष्कणं कुर्वन्ति । यदि तत्र आक्रान्तिकस्तेनानां सम्भवस्तदा तमग्निमवष्वष्कयन्ति, स्वप्तुकामा वा तमन्यत्र नयन्ति, बहिः सङ्क्रामयन्तीत्यर्थः । कृते कार्ये क्षारेण मल्लकेन वा तस्याग्नेः 'संवरणम्' आच्छादनं कर्त्तव्यम् । ततो यथाऽऽयुष्कमनुपाल्य स्वयमेव विध्यायति । प्रदीपनकभयात् तत्र स्तम्भस्य च्छगणादिना लेपनं कर्तव्यम् । श्वानो वा गौर्वा यदि तत्र प्रविशति स्तेनो वा ढौकते तदा “छुक्कारण"त्ति छिछिक्कारः कर्तव्यः । अथ तथापि न तिष्ठन्ति ततो निवारणा तेषां कर्त्तव्या । सहसा च प्रदीपनके लग्ने कटादेराकर्षणं कर्त्तव्यम् । यद्वा तत्प्रदीपनकंधूल्यादिना विध्यापयितव्यम्॥अथोपकरणप्रत्युपेक्षणादिषु द्वारेषुयतनामाह[भा.३४५१]कडओ व चिलिमीणी वा, असती सभए व बाहि जं अंतं ।
ठाणाऽसति य भयम्मि व, विज्झायऽगणिम्मि पेहिति ॥ वृ- अग्नेरन्तरे-वंशमयः कटो वस्त्रमयी वा चिलमिलिका दातव्या । ततः प्रत्युपेक्षणाप्रमार्जनादीनि सर्वाण्यपि पदानि कुर्वन्ति । कटक-चिलिमिलिकयोरभावे प्रतिश्रया बहिरुपकरणं प्रत्युपेक्षणीयम् । अथ बहि ‘सभयं' स्तेनभययुक्तं ततो यदन्त्यं परिजीर्णमुपकरणं तद् बहिः प्रत्युपेक्षन्ते, सारोपकरणं तु विध्याते ज्योतिषि प्रत्युपेक्षितव्यम् । अथ बहिः स्थानं नास्ति यद्वाऽन्त्योपकरणस्यापि तत्रापहरणभयं ततः सर्वमप्युपधिं विध्यातेऽग्नौ प्रत्युपेक्षन्ते ॥ [भा.३४५२] निंता न पमज्जंती, मूगाऽऽवासं तु वंदनगहीणं ।
पोरिसि बाहि मनेन व, सेहाण य दिति अनुसद्धिं ॥ वृ-निर्गच्छन्तः प्रविशन्तो वातन्त्र भुवं न प्रमार्जयन्ति, वसतिमपिन प्रमार्जयन्ति, आवश्यकमपि 'मूकं वाग्योगविरहितं वन्दनकहीनं च कुर्वन्ति, सूत्रार्थपौरुष्यौ बहिर्विदधति, बहि स्थानाभावे मनसैव सूत्रमर्थं वाऽनुप्रेक्षन्ते, ये च शैक्षाः ज्योति प्रकाशे रागमुपगच्छन्ति तेषां गीतार्था अनुशिष्टिं प्रयच्छन्ति ।। कथम् ? इत्याह- .
[भा.३४५३] नाणुजोया साहू, दव्वुजोवम्मि मा हु सज्जित्था ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org