________________
३००
बृहत्कल्प-छेदसूत्रम् -२-२/५६ जस्स वि न एइ निद्दा, स पाउय निमीलिओ गिम्हे ॥ . वृ-'ज्ञानोद्योताः' सकलजीवादिपदार्थसार्थप्रकाशकज्ञानलक्षणभावोद्योतकलिताः साधवो भवन्ति, अतः 'द्रव्योद्योते' कतिपयपदार्थपरकाशके ज्योतिप्रभृतिके ‘मा सजत' मा रागमुपगच्छत। यस्य वा साधोः सप्रकाशे निद्रा नागच्छति स कल्पेन प्रावृतः स्वपिति । अथ ग्रीष्मकाले प्रावृतस्य धर्मो भवति ततो निमीलितलोचनः स्वपिति ॥
अथ “मूकावश्यकं वन्दनकहीनम् इति पदं व्याचष्टे[भा.३४५४] आवास बाहि असई, ठिय वंदन विगड जयण थुइहीनं ।
सुत्तत्थ बाहि अंतो चिलिमिणि काऊण व झरंति ॥ वृ-आवश्यकं बहिः कुर्वन्ति । अथ बहि स्थानं नास्ति ततो यो यत्र स्थितः स तत्रैव स्थितो मनसैव करोति । द्वादशावर्त्तवन्दनकं न प्रयच्छन्ति । 'विकटनाम्' आलोचनां यतनया वर्षाकल्पप्रावृता निश्चेष्टा एव कुर्वन्ति । 'स्तुतिहीनं नाम' स्तुतिमङ्गलं मनसैव कुर्वन्ति । अथ “पोरिसि बाहि" त्ति पदंव्याख्यायते-सूत्रार्थपौरुष्यौ बहि कुर्वन्ति । अथ बहि स्थानं नास्ति ततः प्रतिश्रयस्याभ्यन्तरेऽपि चिलिमिलिकां कृत्वा ‘झरन्ति' स्वाध्यायं कुर्वन्ति। वा विकल्पोपदर्शने, चिलिमिलिकाया अभावे मनसैव सूत्रमर्थं वाऽनुप्रेक्षन्ते इत्यर्थः॥ [पा.३४५५] मूगा विसंति निंति व, उम्मुगमाई कओ वि अछिवंता।
सेहा य जोइ दूरे, जग्गंति य जा धरइ जोई॥ वृ-'मूकाः' तूष्णीकाः प्रविशन्ति निर्गच्छन्ति वा, नैषेधिकीमावश्यिकीं चमनसैव कुर्वन्तीत्यर्थः। 'उल्मुकम्' अलातम् आदिशब्दादग्निशकटिकांवा कचिदप्यस्पृशन्तः तथा निर्गच्छन्ति वा प्रविशन्ति वा यथाऽऽपतन-प्रपतने न भवतः । ये च शैक्षा अगीतार्थाश्च निर्धर्माणस्ते ज्योतिषो दूरे स्थापयितव्याः । गीतार्थवृषभाश्च तावद् जाग्रति यावद् ‘ज्योति' अग्निर्धयते, न विध्यायतीति भावः, मा शैक्षादयः प्रतापयेयुरिति कृत्वा ॥ [भा.३४५६] अद्धाणाई अइनिद्दपिल्लिओ गीओसक्किउं सुवइ ।
सावयभय उस्सके, तेनभए होइ भयणा उ॥ कृ-अध्वादिपरिश्रान्तोऽतिनिद्राप्रेरितो वा गीतार्थस्तमग्निमपसर्म्य स्वपिति।सिंह-व्याघ्रादिश्वापदभये यतनया तान्युल्मकान्युत्सर्पयति । स्तेनभये तु भजना भवति-यद्याक्रान्तिकस्तेनास्ततः 'मा ज्योति प्रज्वलदवलोक्यागमन कार्ड' इति कृत्वा तमग्निमपसर्पयति, अथाना-क्रान्तिकास्ततो ज्वलन्तमग्निं दृष्ट्वा 'जाग्रत्यमी' इति बुध्या ते नाभिद्रवन्ति अतस्तेषु तमग्निमुत्सर्पयतीति ॥ [भा.३४५७] अद्धाणविवित्ता वा, परकड असती यं तु जालेंति ।
सूलाई व तवेउं, कयकज्जा छार अक्कमणं ॥ वृ-अध्वनि विविक्ताः-मुषिताः ‘परकृतम्' अन्यप्रज्वालितमग्नि सेवन्ते। अथ परकृतो वह्निर्न प्राप्यते तः ‘स्वयम्' आत्मनैव ज्वालयन्ति, शीतास्ति।न्धनं प्रक्षिपन्तीत्युक्तं भवति । शूलम् आदिशब्दाद् विसूचिकां वा तापयितुं परकृताभावे स्वयं ज्वालयन्ति, ‘कृतकार्या' निष्ठिते कार्ये क्षारेणाक्रमणं कुर्वन्ति, मा प्रदीपनकं भविष्यतीति कृत्वा ।।
[भा.३४५८] सावयभय आनिंति व, सोउमणा वा वि बाहि नीनिंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org