________________
४४२
बृहत्कल्प-छेदसूत्रम् - २-३/९१
अपि च
[भा. ४१६८] इहरह वि ताव मेहा, माणं भंजंति पणइणिजनस्स । किं पुन बलाग सुरचाव-विज्जुपज्जोविया संता ।।
वृ- 'इतरथाऽपि च ' बलाका- सुरचापादिविशेषमन्तरेणापि तावद् मेघा गगनमण्डलमापूर्य गर्जयन्तः ‘प्रणयिनीजनस्य' मानवतीलोकस्य मानं भज्जन्ति, किं पुनः बलाका- सुरचाप-विद्युत्प्रद्योतिताः सन्तः ?, एवंविधाः सुतरां मानमुन्मूलयन्ति; एवमियमपि 'अतिप्रौढा समर्था चाहम्' इति कृत्वा अस्माकं मानभङ्गं पुराऽपि करोति, साम्प्रतं तु गुरुभि स्वयं पूजित - सत्कारिता विशेषतः करिष्यतीति शेषसाध्व्याश्चिन्तयेयुः ॥
[ भा. ४१६९] दुल्लभवत्थे व सिया, आसन्ननियाण वा वि निब्बंधे । पुच्छंतऽज्जं थेरा, वत्थपमाणं च वण्णं च ॥
वृ- अथ स देशो दुर्लभवस्त्र भवेत् ततो ये व्यापारितास्तैरपि न लब्धानि वस्त्राणि, अथवा यैः ‘निजैः' सज्ञातकैस्ता निमान्त्रितास्ते तासाम् ‘आसन्नाः' अतीवप्रत्यासन्नसम्बन्धास्ततो न तन्निर्बन्धो अप्रमाणीकर्तुं शक्यते, एवमादौ कारणे समुत्पन्ने 'स्थविरा:' आचार्या 'आर्या' प्रवर्तिनीं वस्त्रस्य प्रमाणं वर्णं च पृच्छन्ति-की शैर्वस्त्रर्ययं निमन्त्रिताः ? किं वा तेषां प्रमाणम् ?
ततः संयत्यो ब्रुवते[भा. ४१७० ]
सेयं व सिंधवनं, अहवा मइलं च ततियगं वत्थं । तस्सेव होति गहणं, विवज्जए भाव जाणित्ता ।।
वृ- एकं वस्त्र 'श्वेतं' शरदिन्दु - कुन्दावदातम्, द्वितीयं 'सैन्धववर्णं' पाण्डुरम्, अथवाशब्दो वर्णप्रकारान्तरताद्योतकः, तृतीयं परिमलितत्वाद् मलिनम् प्रमाणमपि च तस्य वस्त्रस्य ईध्शमस्तीति ताभिरुक्ते गुरुभिस्तत्र गत्वा तस्यैव वस्त्रस्य ग्रहणं कर्तव्यम् । अथ ते गृहस्थास्तत्र गतानामाचार्याणामन्यानि वस्त्राणि दर्शयन्ति तत एवं विपर्यये 'भावं' भद्रक-प्रान्तगतमभिप्रायं ज्ञात्वा ग्रहणं कर्तव्यं न वा ।। इदमेव स्पष्टयन्नाह
[भा. ४१७१] पुव्वगता भे पडिच्छह, अम्हे वि य एमुता तहिं गंतुं । गुरु आगमन कधेत्ता, नीनावेंताऽऽगते तम्मि ॥
वृ- सूरयः प्रवर्तिनीं भणन्ति-यूयं तत्र पूर्वगताः प्रतीक्षत, वयमपि युष्माकमनुमार्गीत एवागच्छामः। ततस्ताः संयत्यः 'तत्र' गृहस्थकुले गत्वा गुरुणामागमनं कथयन्ति । ततः 'तस्मिन् ' गुरावागते संयत्यो भणन्ति-निष्काशयत तानि वस्त्राणि यैर्वयं निमन्त्रिताः । एवमुक्ते यदि तान्येव दर्शयन्ति ततो गृह्णन्ति ।। अथान्यानि ततः सूरिभिरिदं वक्तव्यम्
[भा. ४१७२ ] अन्नं इदं ति पुट्ठा, भांति किह तुम्भ तारिसं देभो । इति भद्दे पंतेसु तु, धुणंति सीसं न तं एतं ।
वृ- येन भवद्भिः संयत्यो निमन्त्रिता नेदं तद् वस्त्रम् किन्तु प्रमाणेन वर्णेन वा अन्याध्शत्वेनान्यदिदमिति पृष्टाः सन्तस्ते गृहस्था यदि भद्रकास्तत इदं भणन्ति कथं वयं युष्माकं स्वयमेवागतानां ‘ताध्शं’ सामान्यवर्णादियुक्तं प्रयच्छामः ? इदं तु ततो विशिष्टतरवर्णादिगुणोपेतम्, इदं गृह्णीत इति भद्रका ब्रूयुः । ये तु प्रान्तास्तेषु सूरयः शीर्षं धूनयन्ति, इदं च वचनं ब्रूवते-येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org