________________
उद्देशक : ३, मूलं - ९१, [भा. ४१६३ ]
आचार्यं जानीमः, इत्यपि भणिताः संयत्यः 'गणिनः' सूरेः कथयन्ति, न पुनः 'तद्' वस्त्रं प्रतीच्छन्ति ।। सूरिभिश्च संयतीमुखाद् वस्त्रवृत्तान्तं श्रुत्वा इत्थं वक्तव्यम्
[भा. ४१६४ ] कतरो भे नत्थुवधी, जो दिज्जउ भणह मा विसूरित्थी । पुव्वुप्पन्नो दिजति, तस्सऽ सतीए इमा जयणा ॥
वृ-‘भणत' प्रतिपादयत वर्षाकल्पा-ऽन्तरकल्पादीनां मध्यात् कतरः “भे” भवतीनां नास्त्युपधि यः साम्प्रतं दीयताम्, मा यूयमुपधिना विना 'विसूरयथ' खेदमुद्वहथ, इत्युक्ते यस्योपघेरभावस्तं निवेदयन्ति । स यदि पूर्वोत्पन्नो वर्तते ततो दीयते । अथ पूर्वोत्पन्नो नास्ति ततस्तस्याभावे इयं
यतना ॥
४४१
[भा. ४१६५ ]
नाऊण या परीत्तं, वावारे तत्थ लद्धिसंपन्ने । गंध परिभुत्ते, कप्पकते दान गहणं वा ॥
वृ- "परीत्तं" स्तोकम्, अभावोपलक्षणं चेदम्, ततोऽयमर्थ परीत्तं नाम न सन्ति संयतीनां वस्त्राणि इति ज्ञात्वा ये तत्र लब्धिसम्पन्नाः साधवस्तान् व्यापारयेत्, यथा- आर्या ! संयतीनां प्रायोभ्याणि वस्त्राणि गवेषयत । ततस्ते वस्त्राणि गृहीत्वा गुरुणां समर्पयन्ति, तानि च गन्धाढ्यानि परिभुक्तानि वा भवेयुः ततः कल्पे कृते सति दानं ग्रहणं वा कर्तव्यम् । किमुक्तं भवति ? - तानि वस्त्राणि प्रक्षाल्य सप्त दिवसानि स्थापयित्वा यदि नास्ति कोऽपि विकारस्ततो गणधरेन प्रवर्तिन्या दातव्यानि । प्रवर्तिनीहस्ताच्च संयतीभिर्ग्रहीतव्यानि इति सङ्ग्रहगाथासमासार्थः ॥
साम्प्रतमेनामेव विवृणोति
[भा. ४१६६ ] गुरुस्स आणाए गवेसिऊणं, वावारिता ते अहछंदिया वा । दुधापमाणेण जहोदियाई, गुरुण पाएसु निवेदयंति ॥
वृ-ये 'व्यापारिताः' गुरुभिर्वस्त्रग्रहणाय प्रवर्तिताः, ये वा 'यथाच्छन्दिकाः' अव्यापारिता एव गुरुणां पुरतो भणन्ति वयं वस्त्राणि गवेषयिष्यामः, आभिग्रहिका इति भावः; ते द्वयेऽपि गुरोराज्ञया वस्त्राणि 'द्विधाप्रमाणेन' गणनाप्रमाणेन प्रमाणप्रमाणेन च यथा भगद्भिस्तीर्थकरैः 'उदितानि' भणितानि तथा गवेषयित्वा गुरुणां 'पादयोः' पुरतस्तानि निवेदयन्ति' निक्षिपन्तीत्यर्थः ॥
ततश्च
[भा. ४१६७ ] गंधड्ड अपरिभुत्ते, वि धोविउं देति किमुअ पडिपक्खे। गणिणीए निवेदेज्जा, चतुगुरु सय दान अट्ठाणे ॥
वृ- यानि गन्धाढ्यानि तानि यद्यपि अपरिभुक्तानि तथापि 'धावित्वा' प्रक्षाल्य संयतीनां ददाति 'किमुत' किं पुनः पतिपक्षान्' परिभुक्तान् ? इत्यर्थः तानि सुतरां प्रक्षालनीयानीति भावः । उपलक्षणमिदम्, तेन यद्यपि तानि न गन्धाढ्यानि तथापि धावनीयान्येव, धावित्वा च तानि सप्त दिवसानि स्थापयित्वा स्थविरः प्रावरणं कार्यते । यदि नास्ति कोऽप्यभियोगविकारस्ततो गणधरः ‘गणिन्याः' प्रवर्तिन्यास्तानि 'निवेदयेद्' अर्पयेदित्यर्थः । सा च संयतीनां ददाति । अथ गणधरः स्वयं तासां ददाति ततश्चतुर्गुरु, अस्थाने च शेषसंयतीभि स्थाप्येत । शुद्धभावेनापि हि यदि काचिदार्यिका विशेष्य आलप्यते तथापि काचिदपरा संयती तत्र विरुपकाभिप्रायतया शङ्कां करोति, किं पुनः स्वयं वस्त्रप्रदाने ? |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org