SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४४० बृहत्कल्प-छेदसूत्रम् -२-३/९१ पश्यत मदीयानि वस्त्राणि इति।तत इतराः संयत्यो मत्सरिता ब्रुवते-धिगस्तु भवदीयानि वस्त्राणि भवतींचयदेवमात्मानं विकत्थयसि; अपिच यथा यूयं स्वच्छन्दाः पर्यटथन तथा वयं हिण्डामः, नैवच स्वयं गृह्णीमः, न वाऽऽत्मानं 'प्रवदामः' प्रकर्षेण श्लाधामहे, नच यत् कुण्टलादिकं कर्म कर्तुयुष्माशो जनो जानाति तद् वयं कर्तुंजानीमः॥ - [भा.४१५८] जम्हा य एवमादी, दोसा तासिं तु गिण्हमाणीणं । तम्हा तासि निसिद्धं, वत्थग्गहणं अनीसाए॥ वृ-यस्मादेवमादयो दोषास्तासांगृह्यतीनां भवन्ति तस्मात्तासामनिश्रया वस्त्रग्रहणं निषिद्धम्।। परः प्राह[भा.४१५९] सुत्तं निरत्थगं खलु, कारणियंतं च कारणमिणंतु। असति पाउग्गे वा, मन्नक्खो वा इमा जतना ॥ वृ- यदि संयतीनामनिश्रया वस्त्रग्रहणं न कल्पते ततः सूत्रं निरर्थकं प्राप्नोति । सूरिराहकारणिकं सूत्रम् । तच्च कारणमिदम्-न सन्ति संयतीनां वस्त्रणि, सन्ति वा परं न प्रायोभ्याण, “मन्नक्खो वा" महद् दौर्भनस्यं संज्ञातकादीनां संयतीभर्वस्त्रऽगृह्यमाणे भवति तत्रेयं यतना॥ तामेवाभिधित्सुराह[भा.४१६०] तरुणीण य पव्वज्जा, नियएहि निमंतणा य वत्थेहिं। पडिसेहण निब्बंध, लक्खण गुरुणो निवेदेज्जा ॥ वृ-कस्याप्याचार्यस्य पार्वेमहर्द्धिकानांबहुजनपाक्षिकाणांतरुणीनांप्रवज्या समजनि, ताश्व कियन्तमपि कालमन्यस्मिन् देशे विहृत्य सूरिभिः सार्धं तत्रैव समायाताः, ततः 'निजकैः' सज्ञातकैस्तासां वस्त्रनिमन्त्रणा कृता, ततः “न कल्पते अस्माकं वस्त्रग्रहणं कर्तुम्' इति प्रतिषेधः कर्तव्यः । अथ गाढतरं निर्बन्धं कुर्वन्ति तत इदं वक्तव्यम्-अस्माकं गुरव एव वस्त्रस्य लक्षणं जानते ततो गुरुणां निवेदयाम इति, अनुज्ञाते तेषां निवेदयेयुः ।। इदमेव व्याख्याति[भा.४१६१]थेरा परिच्छंति कधेमु तेसिं, नाहेति ते दिस्स अजोग्ग जोग्गं । पिच्छामु ता तस्स पमाण-वन्ने, तो नं कधेस्सामो तहा गुरुणं॥ [भा.४१६२] सागारऽकडे लहुगो, गुरुगो पुन होति चिंधऽकरणम्मि। गणिणीअसिढे लहुगा, गुरुगा पुन आयनीसाए॥ वृ-'स्थविराः' आचार्या अस्मत्यायोग्यं वस्त्र परीक्षन्ते अतः कथयामस्तेषाम्, ज्ञास्यन्ति ते दृष्टवैव वस्त्रमयोग्यं योग्यं वा, परं वयं तावदिदानीं तस्य वस्त्रस्य प्रमाणं वर्णं च पश्यामः, ततः "ण" मिति तद्वस्त्र तथा' तेन प्रमाण-वर्णादिना प्रकारेण गुरुणां कथयिष्यामः; एवं यद् वस्त्र साकारत्वेन व्यवस्थापितं तत् साकारकृतम् । तच्च यदि न कुर्वन्ति ततो मासलघु । साकारकृतं कृत्वाप्रमाण-वर्णाभ्यां चिहं न कुर्वन्तिमासगुरु। यदिगणिन्या अग्रे एतद्वस्यप्रमाणादिन कथयन्ति ततश्चतुर्लघवः । अथास्मनिश्रया स्वयमेव गृह्णन्ति चतुर्गुरवः ॥अथ गृहस्था एवं ब्रूयुः[भा.४१६३] जइ मे रोयति गिण्हध, न वयं गणिणिं गुरुं व जाणामो। ___ इय वि भणिया वि गणिणो, कणि न यतं पडिच्छंति॥ वृ-यदि "भे' भवतीनां रोचते ततो गृह्णीध्वमेतद्वस्त्रम्, न वयं गणिनी' प्रवर्तिनीं 'गुरुंवा' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy