________________
४४३
उद्देशक ः ३, मूलं-९१, [भा. ४१७२] संयत्यो निमन्त्रितास्तदिदं वस्त्रं न भवति ॥ एवमुक्ते ते चिन्तयेयुः[भा.४१७३] बहु जाणिया न सक्का, वंचेउं तेसि जाणिउं भावं।
नेच्छंति भद्दएसुतु, पहभावेसु गेण्हंति ॥ वृ-अये ! अमीभिराचार्यैः 'बहु' प्रभूतं 'ज्ञाताः' उपलक्षिता वयम्-यदेते आभियोगिकानी वस्त्राणि प्रयच्छन्तीति, अतो न शक्य अभी वञ्चयितुम् ? इत्यादिकं तेषां भावम्' अभिप्रायं मुखविकारादिभिराकारैत्विा नेच्छन्ति । भद्रकेषु तु प्रहृष्टभावेषु गृह्णन्ति॥
भद्रकेष्वेव विशेषमुपदर्शयति[भा.४१७४] न वि एवं तं वत्थं, जंतं अजाण नीणियं भे त्ति ।
. तुब्भे इमं पडिच्छध, तं चिय एताण दाहामो ।। वृ-नाप्येतत् तद् वस्त्र यत् तद् आर्यिकाणामर्थाय निष्काशितं भवद्भि; इत्युक्ते यदि गृहस्था ब्रुवते-यूयं तावदिदं वस्त्र प्रतीच्छत, एतासांतु वयं तदेव दास्यामः॥ ततो वक्तव्यम्[भा.४१७५] अन्नेण ने न कजं, एतट्ठा चेव गेण्हिमो अम्हे।
जति तानि विइति वुत्ते, नीणेति दुए वि गिण्हंति ॥ वृ-अन्येन वस्त्रेण "ने" अस्माकं न कार्यम्, एतासामेवार्थाय वयं सम्प्रति गृह्णीमः; इत्युक्ते यदि 'तान्यपि प्राक्तनानि वस्त्रणि आनयन्ति ततः 'द्वयान्यपि प्राक्तन-पश्चात्तनानि गृह्णन्ति ॥ [भा.४१७६] तानि वि उवस्सयम्मिं, सत्त दिने ठविय कप्प काऊणं ।
थेरा परिच्छिऊणं, विहिना अति तेनेव ।। वृ- तान्यपि वस्त्राणि गृहीत्वा उपाश्रये आनीय सप्त दिनानि स्थापयित्वा कल्पं कृत्वा स्थविरप्रावरणद्वारेण परीक्ष्य यदि नास्ति कोऽप्यभियोगविकारस्ततः 'स्थविराः' आचार्यास्तेनैव विधिना संयतीनामर्पयन्ति॥
एवमाचार्यनिश्रया ग्रहणमुक्तम् । अथोपाध्यायदिनिश्रया तदेवाह[भा.४१७७] आयरिए उवज्झाए, पवत्ति थेरे गणी गणधरे य। .
गणवच्छेइयणीसा, पवित्तिनी तत्थ आनेति ॥ वृ-आचार्यस्याभावे उपाध्ययस्य प्रवर्तिनः स्थविरस्य गणिनो गणधरस्य गणावच्छेदिनो वा निश्रया वस्त्रग्रहणं कर्तव्यम् । एतेषामभावे प्रवर्तिनी 'तत्र' गृहस्थकुले गत्वा स्वयमानयति ॥ इदमेव व्याख्यानयति[भा.४१७८] आयरिए असधीणे, साहीणे वा विवाउल गिलाणे।
___ एक्केक्कगपरिहाणी, एमादीकारणेहिं तु॥ वृ-यदि तत्राचार्यो अस्वाधीनः स्वाधीनो वा परं 'व्याकुलः' कुलादिकार्येषु व्यापृतः ग्लानो वा तत उपाध्यायनिश्रया ग्रहणं विधेयम् । तत्रापि स एव विधि । अथोपाध्यायोऽस्वाधीनो व्याकुलोवा, ततएकैकपरिहाण्या तावद्नेयं यावत् प्रवर्तिनीनिश्रयाऽपिग्रहीतव्यम् । एवमादिभिः कारणैः संयतीनां वस्त्रग्रहणं भवतीति ।। [भा.४१७९] सुत्तनिवातो थेरी, गहणं तु पवत्तिनीय नीसाए ।
तरुणीण य अग्गहणं, पवत्तिणी तत्थ आनेति॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org