________________
४४४
बृहत्कल्प-छेदसूत्रम् -२-३/९१ . वृ-अत्र पुनः सूत्रनिपात इत्थं मन्तव्यः-आचार्यादीनां गणावच्छेदिकान्तानामभोवे प्रवर्तिन्या निश्रया स्थविराआर्थिकाः स्वयंवस्त्रग्रहणं कुर्वन्ति।तरुणीनांतुसर्वथैव वस्त्रस्याग्रहणमुत्सर्गतः, प्रवर्तिनी स्वयं तत्र गत्वा आनयति ॥ इदमेव भावयति[भा.४१८०]साहू जया तत्थ न होज कोई, छंदेज्ज नीया तरुणी जया य।
पवत्तिनी गंतु सयं तु गेण्हे, आसंकभीया तरुणी न नेति ॥ वृ- यदा तत्राचार्यादीनां मध्यात् कोऽपि गीतार्थः साधुर्न भवति, यदा च 'निजकाः' संज्ञातकास्तरुणीः 'छन्दयेषुः' निमन्त्रयेरन् तदा प्रवर्तिनी स्वयंतत्र गत्वा गृह्णाति। 'आशङ्काभीता च' प्रत्यपायशङ्कया चकिया तरुणीरात्मना सार्धंन नयति॥ [भा.४१८१] असती पवत्तिनीए, आयरियादी व्व जं वनीसाए।
आगाढकारणम्मि उ, गिहिनीसाए वसंतीणं ॥ वृ-अथ नास्तिप्रवर्तिनी ततआचार्योपाध्यायादीन् 'यंवा' सामान्यसाधुमपि निश्राय' निश्रां कृत्वा विहरति तन्निश्रया ग्रहणं कर्तव्यम् । आगाढे तु कारणे गृहिनिश्रया वसन्तीनां स्वयमपि ग्रहणं भवतीति वाक्यशेषः ॥ इदमेव सविशेषमाह[भा.४१८२] असती पवत्तिनीए, अभिसेगादी विवज्जए नीसा ।
. गेण्हंति थेरिया पुन, दुगमादी दोण्ह वी असती ।। वृ-प्रवर्तिन्या अभावे अभिषेका-गणावच्छेदिनीप्रभृतयो या गीतार्था संयत्यस्ताः स्वयं गत्वा गृह्णन्ति । “विवजए नीस" त्ति विपर्ययो नाम-अभिषेकादयोऽपिन सन्ति ततः परस्परनिश्रया स्थविरा आर्यिका गृह्णन्ति । ताश्च 'द्विकादयः' द्वि-त्रिप्रभृतिसङ्ख्याकाः पर्यटन्ति।अथ द्वे अपिन भवतस्ततो वक्ष्यमाणविधिना ग्रहीतव्यम् ।। कथं पुनर्बयोरप्यभावः ? इत्याशङ्कयाह[भा.४१८३] दुब्भूइमाईसु उ कारणसुं, गिहत्थणीसा वइणी वसंती।
जे नालबद्धा तह भाविया वा, निदोस सन्नी व तहिं वसेज्जा॥ वृ-'दुभूतिः' अशिवम्, आदिशब्दादवमौदर्यादिपरिग्रहः, तेषुकारणेषुगृहस्थनिश्रयाएकाकिनी व्रतिनी वसन्ती ये 'नालबद्धाः' तस्या एव सज्ञातकाः, ये वा 'अनालबद्धा अपि भाविताः . साधुसामाचारी परिकर्मितमतयो यथाभद्रकाः ये वा निर्दोषाः' हास्य-कन्दादिदूषणरहिताः संज्ञिनस्तेषां गृहे वसेत् ॥
तत्र च स्थितां भिक्षां पर्यटन्तीं यदा कोऽपि वस्त्रेण निमन्त्रयेत् तदा वक्तव्यम्[भा.४१८४] सेज्जायरो व सन्नी, व जाणति वत्थलक्खणं अम्हं।
तेन परिच्छियमेतं, तदनुन्नातं परिग्धेच्छं। वृ-शय्यातरो वा संज्ञी वा अस्माकं प्रायोग्यस्य वस्त्रस्य लक्षणं जानाति, अतस्तेन परीक्षितं तदनुज्ञातं च सद् अहमिदं परिग्रहीष्यामि ।। [भा.४१८५] पंतो दह्ण तंग, संकाए अवनयं करेजाहि ।
____अन्नासिं वा दिन्नं, वइतं नीयं व हसिता व ॥ कृ-ततः संयत्वा समानीनं 'तकं शय्यातरंसंज्ञिनंवा दृष्ट्वाप्रान्तः शङ्कया अपनयं वस्त्रस्यैकान्ते स्थापनं कुर्यात्; यद्वा ब्रूयात्-अन्यासां संयतीनां दत्तं वजिकां वा नीतं हसेद्वा ।। अथवा
For Private & Personal Use Only
HEELLEHEभा
Jain Education International
www.jainelibrary.org