________________
उद्देश : ३, मूलं - ९१, [भा. ४१८६ ]
[भा. ४१८६ ] तुब्भे वि कहं विमुहे, काहामो तेन देमो से अन्नं । इति पंते वज्रणता, भद्देसु तधेव गेण्हंती ॥
४४५
वृ-युष्मानपि कथं विमुखान् करिष्यामः ? अतः 'तस्याः' अपरस्याः संयत्वा अन्यद् वस्त्र दास्यामः, इदं तु यूयं गृह्णीत, इति ब्रुवाणे प्रान्ते वर्जनं कर्तव्यम्, न तदीयं वस्त्र ग्रहीतव्यमिति भावः । भद्रेषु तु 'तथैव' पूर्वोक्तप्रकारेण गृह्णन्ति ॥
[भा. ४१८७] अंबा वि होंति सित्ता, पियरो वि य तप्पिया वदे भद्दो । धम्मो य ने भविस्सति, तुमं च पियं अतो अन्नं ।।
वृ- भद्रक इत्थं वदेत्- आम्रा अपि सिक्ता भवन्ति, पितरोऽपि च तर्पिता भवन्ति; एवं “ने” अस्माकं धर्मो भविष्यति, युष्माकं च प्रियम्, अतो अन्यद् वस्त्र दास्याम इत्युक्ते गृह्यते ॥ अथ ये चतुर्थावभाषणनिमित्तं प्रयच्छन्ति ते कथं ज्ञातव्याः ? इत्याह
[भा. ४१८८] वेवहु चला य दिट्ठी, अन्नोन्ननिरिक्खियं खलति वाया । देनं मुहवेवनं, न यानुरागो उ कारणं ॥
वृ- ये कारिणः चतुर्थनिमित्तं वस्त्रदायिनस्तेषां शरीर 'वेपथुः' कम्पश्चला च दृष्टिर्भवति, ‘अन्यान्यनिरीक्षितं’ ‘कस्को नाम मां जनाति ?' इति बुद्धया अन्यस्यान्यस्य च सम्मुखं निरीक्षन्त इति भावः, वाक् च तेषां स्खलति, ज्ञाते च तदभिप्राये तेषां दैन्यं मुखवैवर्ण्य चोपजायते, न च तेषां वस्त्र ददानानाम् 'अनुराग' हृष्टप्रहृष्टतालक्षणो भवति ॥
मू. (९२) निग्गंथस्स तप्पढमयाए संपव्वयमाणस्स कप्पइ रयहरण-गोच्छ-पडिग्गहमायाए तिहिं कसिणोहिं वत्थेहिं आयाए संपव्वइत्तए। से अ पुव्वोवट्ठिए सिया एवं से नो कप्पइ रयहरणपडिंग्गह- गोच्छ्य- मायाए तिहि य कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । कप्पइ से अहापरिग्गहियाइं वत्थाई गहाय आयाए संपव्वइत्तए ।
दृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
[ भा. ४१८९ ] निग्गंथिचेलगहणं, भणियं समणाणिदानि वोच्छामि । निक्खते वा वृत्तं, निक्खममाणे इमं सुत्तं ॥
वृ-निर्ग्रन्थीविषयं चेलग्रहणं भणितम्, इदानी श्रमणानां यथा वस्त्रं ग्रहीतुं कल्पते तथाऽभिधीयते । यद्वा 'निष्क्रान्तः' दीक्षितस्तद्विषयं वस्त्रग्रहणमुक्तम्, इदं तु 'निष्क्रामति' दीक्षामाददाने वस्त्रग्रहणाभिधायकं सूत्रमारभ्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थस्य तत्प्रथमतया सम्-इति सम्यक् प्रकर्षेणपुनरनङ्गीकारलक्षणेन व्रजतः गृहवासाद् निर्गच्छतः सम्प्रव्रजतः कल्पते रजोहरण-गोच्छक-प्रतिग्रहमादाय त्रिभि कृत्स्नैर्वस्त्ररात्मना सम्प्रव्रजितुम् । इह रजोहरणग्रहणेन मध्यमोपधि गोच्छकग्रहणेन जधन्योपधि प्रतिग्रहणेनोत्कृष्टोपधि सर्वो गृहीतः, ततोऽयमर्थःजधन्य-मध्यमोत्कृष्टोपधनिष्पन्ना ये त्रयः कृत्स्नाः प्रतिपूर्णा वस्त्र- पात्रप्रत्यवतारास्तैरात्मना सहितैः प्रव्रज्या ग्रहीतुं कल्पते । “से य" त्ति चशब्दो अथशब्दार्थः, अथासौ प्रव्रज्याप्रतिपत्ता पूर्वम् उपस्थितः- दीक्षितः स्यात् ततो नो कल्पते “से” तस्य पूर्वोपस्थितस्य रजोहरण-गोच्छकप्रतिग्रहमादाय त्रिभः कृत्स्नैर्वस्त्रैरात्मना सम्प्रव्रजितुम्; किन्तु कल्पते “से” तस्य 'यथापरिगृहीतानि' क्रीतकृतादिदोषरहितानि वस्त्राणि गृहीत्वा आत्मना सम्प्रव्रजितुम् इति सूत्रसङ्क्षेपार्थः ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International