________________
४४६
बृहत्कल्प-छेदसूत्रम् - २-३/९२
अथ विस्तरार्थोऽभिधीयते - आह-न तावदद्याप्ययं प्रव्रजितः ततः कथं निर्ग्रन्थो भवति ? इति उच्यते
[भा. ४१९०] दव्वम्मिय भावम्मि य, पव्वइए एत्थ होति चउभंगो । दव्वेण लिंगसहितो, ओहावति जो उनीसंको ।।
[भा. ४१९१] पवज्जए अभिमुहो, परलिंगे कारणेन वा बितिओ । ततितो उ उभयसहितो, उभओविजढे चरिम भंगो ॥
वृ- द्रव्ये च भावे च प्रव्रजित इत्यत्र चतुर्भङ्गी भवति । तद्यथा-द्रव्यतो निर्ग्रन्थो न भावतः १ भावतो निर्ग्रन्थो न द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ अपरो न द्रव्यतो न भावतः ४ । तत्र द्रव्यतो निर्ग्रन्थः स उच्यते यः 'लिङ्गसहितः' द्रव्यलिङ्गयुक्तो निशङ्कः सन् 'अवधावति' उठप्रजतीत्यर्थः । यस्तु प्रव्रज्यायामभिमुखो न तावदद्यापि प्रव्रजति कारणेन वा यः साधुः परलिङ्गे वर्तते सः 'द्वितीयः' द्वितीयभङ्गवर्ती । यस्तु 'उभयविमुक्ते तु ' द्रव्य-भावलिङ्गरहिते गृहस्थादौ 'चरमः' चतुर्थो भङ्गो भवति ॥
अत्राचार्यो देवस्य मानुष्या सह संवासलक्षणं दृष्टान्तं कर्तुकामः प्रथमतः सिद्धान्तं प्रज्ञापयति[भा. ४१९२ ] चउधा खलु संवासो, देवाऽसुर रक्खसे मनुस्से य । अनोनकामणेण य, संजोगा सोलस हवंति ॥
वृ- देवसंवासः असुरसंवासो राक्षससंवासो मनुजसंवासश्चेति संवासश्चतुर्धा । अत्र चान्योन्यकाम्यया षोडश संयोगा भवन्ति, तद्यथा देवो देव्या सार्धं संवसति १ देवो असुर्या सार्धम् २ देवो मनुष्या सार्धम् ३ देवो राक्षस्या सार्धम् ४, असुरो देव्या समं संवसति ५ असुरोऽसुर्या ६ असुरो मनुष्या ७ असुरो राक्षस्या ८, राक्षसो देव्या ९ राक्षसोऽसुर्या १० राक्षसो मनुष्या ११ राक्षसो राक्षस्या १२, मनुष्यो देव्या १३ मनुष्योऽसुर्या १४ मनुष्यो राक्षस्या १५ मनुष्यो मनुष्या १६ चेति । अत्र देवशब्देन वैमानिको ज्योतिष्को वा, असुरशब्देन भवनवासी, राक्षसशब्देन तु सामान्यतो व्यन्तरः परिगृह्यते ॥ अथमूनेव षोडश भङ्गान् चतुर्षु भङ्गेष्वतारयन्नाह -
[भा. ४१९३/१] अधवण देव छवीणं, संवासे एत्थ होति चउभंगो ।
वृ- “अहवण” त्ति प्रकारान्तरद्योतकः । देव-च्छविमतोः संवासे चतुर्भङ्गी भवति देवो देव्या सार्धं संवसति १ देवः छविमत्या सार्धंम् २ छविमान् देव्या सार्धम् ३ छविमान् छविमत्या ४ । अत्र देवशब्देन सामान्यतो भवनपत्यादिनिकायचतुष्टयाभ्यन्तरवर्ती गृह्यते, छविमांश्च मनुष्य उच्यते । अत एतेषु चतुर्षु भङ्गेषु पूर्वोक्ताः षोडशापि भङ्गा अन्तर्भूताः ॥
एवं सिद्धान्तं प्रज्ञाप्य प्रस्तुतार्थसाधकं दृष्टान्तमाह
[भा. ४१९३/२] पव्वज्जाभिमुहंतर, गुज्झग उब्मामिया वासो ॥
[भा. ४१९४] बितियनिसाए पुच्छा, एत्य जती आसि तेन मिन आतो । जतिवेसोऽयं चोरो, जो अज्ज तुहं वसति दारे ॥
वृ- "पव्वज्जा" इत्यादि । एकः कश्चित् तरुणः प्रव्रज्याभिमुखो गुरुणां पार्श्वे प्रस्थितः । अन्तरा च कस्मिंश्चिद् ग्रामे एकस्या वरतरुण्या गृहे वासार्थमुपगम्य द्वारमूल सुप्तः । साच तरुणी 'उद्भ्रामिका' कुशीला | 'गुह्यकश्च' कश्चिद् यक्षः तया उद्भ्रामिकया सह रात्रौ वासं कृत्वा प्रभाते स्वस्थानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
.