________________
१०९
उद्देशक : १, मूलं-२९, [भा. २५८०] निर्ग्रन्थीनां मूलम् । 'शेषेषु' पुरुषेषु पुरुषनपुंसकेषु च प्रत्येकं चत्वारो गुरुकाः । एवं श्रमणीनां पुरुषवर्गे प्रायश्चित्तं मन्तव्यम् ।। अथापरं प्रायश्चित्तादेशमाह[भा.२५८१] थेराइएसु अहवा, पंचग पन्नरस मासलहुओ य।
छेदो मज्झत्थादिसु, काहियतरुणेसु चउलहुओ।। [भा.२५८२] सन्नी-अस्सन्नीणं, पुरिस-नपुंसेसु एस साहूणं ।
एएसुं चिय थीसुं, गुरुओ समणीण विवरीओ॥ वृ-अथवा स्थविरादिषु त्रिषु पदेषु पञ्चकः पञ्चदशको मासलघुकश्च छेदो दातव्यः । तद्यथामध्यस्थेषु स्थविरेषु तिष्ठन्ति लघुपञ्चकश्छेदः, मध्यस्थेषु मध्यमेषु लघुपञ्चदशकः, मध्यस्थेषु तरुणेषुलघुमासिकच्छेदः । एवमाभरणप्रियेषु कान्दर्पिकेषुच त्रिविधेष्वपिमन्तव्यम्। काथिका अपि येस्थबिरामध्यमाश्चतेप्यप्येवमेवावसातव्यम् । विशेषचूर्णिकृत् पुनराह-काहीएसण्णिथेरे पन्नरस राइंदियाणि लहुओ छेदो, मज्झिमे मासलहुओ छेदो त्ति । ये तु काथिकास्तरुणास्तेषु चतुर्लघुमासिकच्छेदः ।। एवं पुरुषाः पुरुषनपुंसका वा ये संज्ञिनोये चासंज्ञिनस्तेषां समुदितानां येऽष्टचत्वारिंशत्सङ्ख्याका भेदास्तेषु यथोक्तक्रमेण 'एषः' पञ्चकादिकच्छेदः साधूनां भवति । स्त्रीषुस्त्रीनपुंसकेषुच ‘एतेष्वेव' मध्यस्थस्थविरादिभेदेषु साधूनामेष एवच्छेदोगुरुकः कर्तव्यः, तद्यथा-गुरुपञ्चको गुरुपञ्चदशको गुरुमासिको गुरुचतुर्मासिकश्चेति । श्रमणीनांपुनरेषएवच्छेदो विपरीतोदातव्यः, किमुक्तं भवति?-श्रमणीनांस्त्रीवर्गेतिष्ठन्तीनां लघुपञ्चकादिकच्छेदः,पुरुषवर्गे तु गुरुपञ्चकादिकः । शेषं सर्वमपि प्राग्वद् द्रष्टव्यम् ।।
मू. (३०) नो कप्पइ निग्गंथाणं पडिबद्धसेन्जाए वत्थए। [भा.२५८३] इति ओह-विभागेनं, सेज्जा सागारिका समक्खाया।
तंचेव य सागरियं जस्स अदूरे स पडिबद्धो । वृ-'इति' एवमोधेन विभागेन च 'सागारिका' सागारिकयुक्ता 'शय्या' प्रतिश्रयापरपर्याया समाख्याता । तदेव च सागारिकं यस्योपाश्रयस्य ‘अदूरे' आसन्ने स प्रतिबद्ध उच्यते । तत्र निर्ग्रन्थानामवस्थानमनेन प्रतिषिध्यते॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-नोकल्पते निर्ग्रन्थानां 'प्रतिबद्धशय्यायां द्रव्यो भावतश्चप्रतिबद्ध उपाश्रये वस्तुमिति सूत्रार्थः।।अथ नियुक्तिविस्तरः[भा.२५८४] नामं ठवणा दविए, भावम्मिचउव्विहो उ पडिबद्धो।
दवम्मि पट्ठिवंसो, भावम्मि चउव्विहो भेदो ।। वृ-नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधः प्रतिबद्धः । तत्र नाम-स्थापने गतार्थे । द्रव्यतः पुनरयम्-‘पृष्ठवंशः' बलहरणं स यत्रोपाश्रये गृहस्थगृहेण सह सम्बद्धः स द्रव्यप्रतिबद्ध उच्यते। 'भावे तु' भावप्रतिबद्धे चिन्त्यमाने चतुर्विधो भेदो भवति । तद्यथा[भा.२५८५] पासवण ठाण रूवे, सद्दे चेव य हवंति चत्तारि।
दव्वेण य भावेण य, संजोगो होइ चउभंगो॥ वृ-प्रश्रवणे स्थाने रूपे शब्दे चेति चत्वारो भेदा भावप्रतिबद्धे भवन्ति । तत्र यस्मिन् साधूनां स्त्रीणां च कायिकीभूमिरेका सप्रश्रवणप्रतिबद्धः । यत्र स्थितैर्भाषा-भूषण-रहस्यशब्दाः श्रूयन्ते सशब्दप्रतिबद्धः । अत्र च द्रव्येण च भावेन च संयोगे चतुर्भङ्गी भवति । तद्यथा-द्रव्यो नामैकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org