SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ बृहत्कल्प-छेदसूत्रम् -२-१/२९ [भा. २५७४ ] काहीयातरुणीसुं, चउसु वि मूलं तु ठायमाणाणं । सेसासु विचउगुरुगा, समणाणं इत्थिवग्गम्मि ॥ वृ- स्त्रीषु स्त्रीवेषधारिषु वा नपुंसकेषु याश्चतस्त्रः काथिकतरुण्यस्तासु तिष्ठतां निर्ग्रन्थानां मूलम् । शेषासु संज्ञिनीषु असंज्ञिनीषु वा स्त्रीषु चतुर्गुरुकाः । एवं श्रमणानां स्त्रीवर्ग तिष्ठतां प्रायश्चित्तमुक्तम् ॥ [भा. २५७५ ] जह चैव य इत्थीसुं सोही तह चेव इत्थिवेसेसु । तेरासिए सुविहिय! ते पुन नियमा उ पडिसेवी ॥ वृ- यथैव श्रमणानां स्त्रीषु तिष्ठतां शोधिरभिहिता तथैव स्त्रीवेषेषु त्रैराशिकेषु हे सुविहित ! शोधिमवबुध्यस्वेत्युपस्कारः । 'ते पुनः' स्त्रीनपुंसका नियमात् 'प्रतिसेविनः' प्रतिसेवनाकाराषणशीला इति ॥ अथ कारणे तिष्ठतां यतनामाह [भा. २५७६ ] एमेव होंति इन्थी, बारस सन्नी तहेव अस्सन्नी । सन्नीण पढमवग्गे, असइ असन्नीण पढमम्मि || कृ- 'एवमेव' पुरुषवत्स्त्रियः स्त्रीवेषधारिणश्च नपुंसका मध्यस्थादिभि स्थविरादिभिश्च भेदैर्द्वादश संज्ञिन्यो द्वादश चाऽसंज्ञिन्यः प्रत्येकं भवन्ति । तत्र प्रथमं संज्ञिनीनां 'प्रथमवर्गे' मध्यस्थस्त्रीलक्षणे तदभावे असंज्ञिनीनां प्रथमवर्गे स्थविरादिक्रमेण स्थातव्यम् ॥ [भा. २५७७] एवं एक्क्क तिगं, वोच्चत्थकमेण होइ नेयव्वं । मोत्तूण चरिम सन्निं, एमेव नपुंसएहिं पि ।। वृ-एवम् ‘एकैकस्मिन्' आभरणप्रियादी वर्गे 'त्रिकं' तरुण्यादिभेदत्रयं विपर्यस्तक्रमेण नेतव्यम्प्रथमं स्थविरासु, ततो मध्यमासु, ततस्तरुणीषु, परं मुक्त्वा 'चरमां' काथिकाख्यां संज्ञिनीम् । तत्र हि प्रथमं संज्ञिनीषु स्थविरासु, ततो मध्यमासु, तदलाभेऽसंज्ञिनीषु स्थविरामध्यमासु, ततः संज्ञिनीषु तरुणीषु, तदप्राप्तावसंज्ञिनीषु तिष्ठन्ति । एवमेव स्त्रीवेषधारीषु, नपुंसकेष्वपि द्रष्टव्यम् ।। भावितं निर्ग्रन्थसूत्रद्वयम् । सम्प्रति निर्ग्रन्थीसूत्रद्वयं भावयति [भा. २५७८] एसेव कामो नियमा, निग्गंथीणं पि होइ नायव्वो । जह तेसि इत्थियाओ, तह तासि पुमा मुणेयव्वा ॥ वृ- एष एव क्रमो नियमान्निर्ग्रन्थीनामपि भवति ज्ञातव्यः । परं यथा 'तेषां' निर्ग्रन्थानां स्त्रियो गुरुकतरास्तथा निर्ग्रन्थीनामपि पुमांसो गुरुकतरा ज्ञातव्याः ॥ [भा.२५७९ ] काहीयातरुणीसुं, चउसु वि चउगुरुग ठायमाणीणं । सेसासु विचउलहुगा, समणीणं इत्थवग्गम्मि । वृ-स्त्रीणां स्त्रीवेषनपुंसकानां च मध्ये काधिकतरुणीषु चतसृष्वपि तिष्ठन्तीनां चतुर्गुरुकाः । 'शेषास्वपि' मध्यस्थादिषु द्वाविंशतिसङ्ख्याकासु स्त्रीषु द्वाविंशतौ च स्त्रीनपुंसकेषु चतुर्लघुकाः । एवं श्रमणीनां स्त्रीवर्गे प्रायश्चितं ज्ञातव्यम् ॥ [भा. २५८० ] काहीयातरुणेसु वि, चउसु वि मूलं तु ठायमाणीणं । सेसेसु उ चउगुरुगा, समणीयं पुरिसवग्गम्मि ॥ वृ-पुरुषाणां पुरुषनपुंसकानां च संज्ञ्यसंज्ञिनां ये प्रत्येकं चत्वारः काथिकास्तरुणास्तेषु तिष्ठन्तीनां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy