SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-२९, [भा. २५६९] १०७ [भा.२५६९] एवं एक्कक्क तिगं, वोच्चत्थकमेण होइ नायव्वं । मोत्तूण चरिम सन्नी, एमेव नपुंसएहिं पि॥ वृ-एवं मध्यस्थादिषु एकैकस्मिन् पदे त्रिकं 'विपर्यस्तक्रमेण' प्रथम स्थविरेषु ततो मध्यमेषु ततस्तरुणेषु इत्येवंलक्षणेन वैपरीत्यविधिना भवति ज्ञातव्यम्, परं मुक्तवा चरमं संज्ञिनम् । किमुक्तं भवति? -चरमो भेदः काथिकः, तत्र संज्ञिनि प्रथमतस्त्रिकंन चारयितव्यं किन्तु द्विकम्, तद्यथा-यदा तृतीयावर्गो न प्राप्यते तदा चतुर्थवर्गे प्रथमं संज्ञिषु काथिकस्थविरेषु, तदलाभे काथिकमध्यमेषु, तदप्राप्तावसंज्ञिषु काथिकस्थविरेषु, तदभावे काथिकमध्यमेषु तिष्ठन्ति, अथ तेऽपि न प्राप्यते ततः संज्ञिषु काथिकतरुणेषु, तदभावेऽसंशिष्वपि काथिकतरुणेषु तिष्ठन्ति, ते चोभयेऽपि प्रज्ञापनीया यथा कथां न कथयन्ति । एवं पुरुषेषुस्थातव्ये विधिरुक्तः । एवमेवच नपुंसकेष्वपि वक्तव्यः । इदमेव भावयति[भा.२५७०] एमेव होति विहा, पुरिसनपुंसा वि सन्नि अस्सन्नी । मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ।। वृ-पुरुषसागारिकालाभे कदाचिनपुंसकसागारिकः प्रतिश्रयो लभ्यते तत्रोप्येवमेव भैदाः कर्तव्याः। तत्र नपुंसका द्वि-स्त्रीनेपथ्यिकाः पुरुषनेपथ्यिकाश्च । ये पुरुषनेपथ्यिकास्ते द्विधाप्रतिसेविनोऽप्रतिसेविनश्च । ये तु स्त्रीनेपथ्यिकास्ते नियमात् प्रतिसेविनः । तत्र पुरुषनपुंसका अपि न केवलं पुरुषा इत्यपिशब्दार्थः संज्ञिनोऽसंज्ञिनश्चेति द्विविधा भवन्ति । उभयेऽपि प्रत्येक चतुर्विधाः-मध्यस्था आभरणप्रियाः कान्दर्पिकाः काथिकाश्चेति ।। [भा.२५७१] एकेक्का ते तिविहा, थेरा तह मज्झिमा य तरुणाय। एवं सन्नी बारस, बारस अस्सन्निणो होति ।। वृ. एकैकाः 'ते' मध्यस्थादयस्त्रिविधाः-स्थविरा मध्यमास्तरुणाश्च । एवं संज्ञिनो द्वादश असंज्ञिनोऽपि द्वादश भवन्ति ।। एतेषु प्रायश्चित्तमाह[भा.२५७२] जह चेव पर पुरिसेसुं, सोही तह चेव पुरिसवेसेसु । तेरासिएसुसुविहिय!, पडिसेवग-अपडिसेवीसु॥ वृ-यथैव पुरुषेषुशोधिरुपवर्णिता तथैव पुरुषवेषेष्विपि त्रैराशिकेषु' नपुंसकेषुहे सुविहित! प्रतिसेवकेषु अप्रतिसेवकेषु वा शोधिं जानीहीत्युपस्कारः । सा चेयम्-पुरुषनपुंसकानां ये काथिकास्तरुणास्तेषु चत्वारो गुरवः, शेषेषु भेदेषु चतुर्लघुकाः । कारणे पुनरध्वनिर्गतादीनां वसतेरलाभे तिष्ठतां तथैव पुरुषनपुंसकेष्वपि यतनाक्रमो यथा पुरुषेषु प्रतिपादितः ।। [भा.२५७३] जह कारणे पुरिसेसुं, तह कारणे इत्थियासु वि बसेज्जा । अद्धाण-वास-सावय-तेनेसु व कारणे वसती॥ वृ-यथाकारणेपुरुषेषुपुरुषेवेषनपुंसकेषुवावसन्ति तथा स्त्रीषु स्त्रीवेषधारिषुवानपुंसकेषु कारणे वसेयुः । किं पुनस्तत् कारणम् ? इत्याह-अध्वानं प्रितपन्नास्ततो निर्गता वा शुद्धामल्पतरदोषदुष्टां वा वसतिं न लभन्ते तत उद्यानादौ तिष्ठन्ति ।अथ वर्षं पतति बहिर्वा श्चापदभयं शरीरोपधिस्तेनभयं वा तत ईदृशे कारणे स्त्रीसागारिके तदभावे स्त्रीवेषधारिषु वा नपुंसकेषु पूर्वोक्तक्रमेण वसन्ति ।। निष्कारणे तु तत्र तिष्ठतामिदं प्रायश्चित्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy