________________
बृहत्कल्प-छेदसूत्रम् - २- १/३०
प्रतिबद्धो न भवतः, भावतो नामैकः प्रतिबद्धो न द्रव्यतः, एकोद्रव्यतोऽपि भावतोऽपि, एकोन द्रव्यतो न भावतः । एवं चतुर्भङ्गयां विरचितायां विधिमाह
[भा. २५८६ ]
११०
चउत्थपदं तु विदिन्नं, दव्वे हुगा य दोस आणादी । संसद्देण विबुद्धे, अहिकरणं सुत्तपरिहाणी ॥
वृ- चतुर्थपदमत्र 'वितीर्णम्' अनुज्ञातम्, चतुर्थभङ्गवर्तिनि प्रतिश्रये स्थातव्यमित्यर्थः । द्रव्यप्रतिबद्धे तिष्ठतां चत्वारो लघुकाः, आज्ञादयश्च दोषाः । साधूनां सम्बन्धिना आवश्यकीनैषेधिकीप्रभृतिना संशब्देन विबुद्धेषु विबुद्धेषु गृहस्थेष्वधिकरणं भवति । अथाधिकरणभयान्निस्सञ्चारास्तूष्णीकाश्चासते ततः सूत्रार्थपरिहाणि ॥ अथाधिकरणपदं व्याख्यानयति[भा.२५८७] आउ जोवण वणिए, अगनि कुडुंबी कुकम्म कुम्मरिए । तेने मालागारे, उब्भामग पंथिए जंते ।।
वृ- अस्या व्याख्या प्राग्वत् ।। अथाधिकरणभ्यात् तृष्णीकास्तिष्ठन्ति तत एते दोषाः[भा.२५८८] आसज्ज निसीही वा, सज्झाय न करिति मा हु बुज्झिज्जा । तेनासंका लग्गण, संजम आयाए भाणादी ।।
वृ- मा गृहस्था विबुध्यन्तामिति कृत्वा “आसज्ज” इति शब्दं नोच्चरन्ति मासलघु । नैषेधिकीमावश्यिकीं वा न कुर्वन्ति पञ्च रात्रिन्दिवानि । स्वाध्याये सूत्रपौरुषीं न कुर्वन्ति मासलघु। अर्थपौरुषीं न कुर्वन्ति पञ्च रात्रिन्दिवानि । स्वाध्याये सूत्रपौरुषीं न कुर्वन्ति मासलघु । अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रं नाशयन्ति चतुर्लघु । अर्थं नाशयन्ति चतुर्गुरु । एतेन सूत्रपरिहाणिरिति पदं व्याख्यातम् । तथा साधूनामावश्यिकीशब्दं पदनिपातशब्दं वा श्रुत्वा ते गृहस्थाः स्तेनोऽयमित्याशङ्कया साधुना समं युद्धाय लगेयुः । ततश्च युध्यमानयोः संयमात्मभाजनानां विराधनादयो दोषाः । यत एवमतो द्रव्यप्रतिबद्धायां वसतौ न स्थातव्यं । द्वितीयपदे तिष्ठेयुरपि ।।
कथम् ? इत्यत आह
[भा. २५८९] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । गीयत्था जयणाए, वसंत तो दव्वपडिबद्धे ।।
वृ-अध्वनिर्गतादयः ‘त्रिकृत्वः' त्रीन् वारा द्रव्यतो भावतोऽपि चाप्रतिबद्धमुपाश्रयं मार्गयित्वा यदि न लभन्ते ततो गीतार्था यतनया द्रव्यप्रतिबद्ध उपाश्रये वसन्ति ॥ यतनामेवाह[भा.२५९०] आपुच्छण आवासिय, आसज्ज निसीहिया य जयणाए । वेरती आवासग, जो जाहे चिंधन दुगम्मि ।।
वृ-यदा कोऽपि साधुः कायिकीभूमौ गन्तुमिच्छति तदा द्वितीयं साधुमापृच्छय निर्गच्छति, स च द्वितीयः पृष्टमात्र एवोत्थाय दण्डकहस्तो द्वारे तिष्ठति यावदसौ प्रत्यागच्छति, एषा आप्रच्छनयतना। आवश्यिकीमासाद्यशब्दं नैषेधिकीं च यतनया यथा गृहस्था न शृण्वन्ति तथा कुर्वन्ति । वैरात्रिकवेलायामपि यः पूर्वमुत्थितस्तेन द्वितीयः साधुर्यतनया हस्तेन स्पृष्ट्वा प्रतिबोधयितव्यः, स च स्पृष्टमात्र एव तूष्णीम्भावेनोत्तिष्ठति, ततो द्वावपि कालभूमौ गत्वा वैरात्रिकं कालं यतनया गृह्णीतः यथा पार्श्वस्थितोऽपि न शृणोति । आवश्यकं यो यदा यत्र स्थितो विबुध्यते स तदा तत्र स्थित एव करोति, वन्दनकं स्तुतीश्च हृदयेनैव प्रयच्छन्ति, यद्वा यदा ते गृहस्थाः प्रभाते स्वयमेवोत्थितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org