________________
उद्देशक : १, मूलं- ३०, [भा. २५९०]
१११
तदाऽऽवश्यकं कुर्वन्ति । “चिंधन दुगम्मि" त्त पारवर्त्तयतां यत्र सूत्रेऽर्थे वा रात्रौ शङ्कितं भवति तस्य चिह्नम्-अभिज्ञानकरणम्, यथा अमुकस्मिन श्रुतस्कन्धेऽध्ययने उद्देशके वा इदं शङ्कितमस्तीति, तत् सर्वंदिवा प्रश्नयित्वा निशङ्कितं कुर्वन्ति ॥ तथा
[भा. २५९१] जनरहिए वुज्जाणे, जयणा भासाए किमुय पडिबद्धे । ढड्ढरसरऽनुप्पेहा, न य संघाडेण वेरत्ती ॥
वृ-यदि तावज्जनरहितेऽप्युद्याने वसतां रात्रौ भाषायां यतना 'मा चतुष्पद-पक्षि- सरीसृपादयो जन्तवो विबुध्यन्ताम्' इति कृत्वा, ततः किं पुनः द्रव्यप्रतिबद्धे प्रतिश्रये ?, तत्र सुतरां यतना कर्त्तव्येति भावः । यस्तु ‘ढड्ढरस्वरः' बृहता शब्देन भाषणशीलः स वैरात्रिकं स्वाध्यायमनुप्रेक्षया करोति, मनसैवेत्यर्थः । येऽपि च साधवो न ढड्डुरस्वरास्तेऽपि सङ्घाटकेन न परिवर्तयन्ति किन्तु पृथक् पृथगिति ॥ गतः प्रथमो भङ्गः । अथ द्वितीयभङ्गं भावतः प्रतिबद्धो न द्रव्यत इत्येवंलक्षणं निरूपयति
[भा.२५९२] भावम्मि उ पडिबद्धे, चउरो गुरुगा य दोस आणादी । ते वि य पुरिसा दुविहा, भुत्तभोगी अभुत्ता य ॥
वृ- ‘भावे' भावतः प्रतिबद्धे प्रतिश्रये तिष्ठतां चतुर्गुरुकाः आज्ञादयश्च दोषाः । ये पुनस्ते भावप्रतिबद्धे वसन्ति ‘ते पुरुषाः' साधवो द्विविधाः केचिद् ‘भुक्तभोगिनः' ये स्त्रीभोगान् भुक्त्वा प्रव्रजिताः, केचित्तु ‘अभुक्तभोगिनः ' कुमारप्रव्रजिताः । एषा पुरातना गाथा ।।
अथास्या एव व्याख्यानमाह
[भा.२५९३] भावम्मि उ पडिबद्धे, पनरससु पदेसु चउगुरू होंति ।
एक्क्काउ पयाओ, हवंति आणाइणो दोसा ।।
वृ- भावप्रतिबद्धे चतुर्भि प्रश्रवणादिभिः पदैः षोडश भङ्गाः कर्त्तव्याः । तद्यथा-प्रश्रवणप्रतिबद्धः स्थानप्रतिबद्ध रूपप्रतिबद्धः शब्दप्रतिबद्धश्च १ प्रश्रवणप्रतिबद्धः स्थानप्रतिबद्धो रूपप्रतिबद्धो न शब्दप्रतिबद्धः २ इत्यादि । अत्र प्रथमभङ्गादारभ्य पञ्चदशसु 'पदेषु' भङ्गेषु चतुर्गुरवः प्रायश्चित्तम्। आदेशान्तरेण वा प्रथमे भङ्गे चत्वारश्चतुर्गुरवः, चतुर्णामपि पदानां तत्राशुद्धत्वात् । द्वितीये भङ्गे त्रयश्चतुर्गुरवः, त्रयाणां पदानां तत्राशुद्धत्वात् । एवमनया दिशा यत्र भङ्गे यावन्ति पदान्यविशुद्धानि तत्र तावन्तश्चतुर्गुरवः । एकैकस्माच्च 'पदाद्' भङ्गकादाज्ञादयो दोषा भवन्ति, यस्तु षोडशो भङ्गः स चतुर्ष्वपि पदेषु शुद्ध इति न तत्र प्रायश्चित्तम् ।। प्रश्रवणादीनामेवान्योऽन्यं सम्भवमाह[भा. २५९४] ठाणे नियमा रूवं, भासासद्दो य भूसणे भइओ ।
काय ठाणं नत्थी, सद्दे रूवे य भय सेसे ॥
वृ- यत्र साधूनां स्त्रीणां चैकमेवोपवेशनस्थानं तत्र नियमात् परस्परं रूपमवलोक्यते भाषाशब्दश्च श्रूयते भूषणशब्दस्तु भाज्यः, साभरणानां स्त्रीणां भवति इतरासां न भवतीत्यर्थः । 'कायिकी' प्रश्रवणं तत्र स्थानं नास्ति, लोकजुगुप्सिततया कायिकीभूमावुपवेशनाभावात्; भाषाभूषणशब्दरूपाणि तु भवन्त्यपीति भावः । शब्दे रूपे च 'शेषाणि' प्रश्रवणादीनि 'भज' विकल्पय । किमुक्तं भवति ? - शब्दे प्रश्रवण-स्थान-रूपामि भवन्ति वा न वा, रूपेऽपि प्रश्रवण-स्थान- शब्दा भवन्ति वा न देति ॥ एतेष्वेव दोषानुपदर्शयति
Jain Education International
Por Private & Personal Use Only
www.jainelibrary.org