SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ बृहत्कल्प - छेदसूत्रम् - २- १/३० [ भा. २५९५ ] आयपरोभयदोसा, काइयभूमी य इच्छऽनिच्छंते । संका एगमनेगे, वोच्छेद पदोसतो जं च ॥ वृ-यत्र संयतानामविरतिकानां चैका कायिकीभूमिस्तत्रात्मपरोभयसमुत्था दोषाः । तत्र संयत एवाविरतिकां रहसि दृष्ट्वा यदात्मना क्षुभ्यति एष आत्मसमुत्थो दोषः, यस्तु सा स्त्री तस्मिन् संयते क्षुभ्यति स परसमुत्थः, यस्तु साधुरविरतिकायामविरतिकाऽपि साधौ क्षोभमुपगच्छति स उभयसमुत्थो दोषः । “इच्छऽनिच्छंते "त्ति यदि स्त्रिया प्रार्थितः साधुस्तां प्रतिसेवितुमिच्छति ततो व्रतभङ्गः, अथ नेच्छति ततः सा उड्डाहं कुर्यात् । "संक" त्ति अविरतिका कायिकीभूमौ प्रविष्टा पश्चात् संयतमपि तत्र गच्छन्तं दृष्ट्वा कोऽपि शङ्कां कुर्यात् यदेवममू द्वे अप्यत्र त्वरितं प्रविष्टे तन्नूनं मैथुनार्थमिति । तत एकस्यानेकेषां वा साधूनां व्यवच्छेदं कुर्यात् । “पदोसतो जं च"त्ति तदीयाः पि-देवरादयः प्रद्वेषतो यद् ग्रहणा-ऽऽकर्षणादिकं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम्।। 'यत्राविरतिकानां साधूनां चैकमेवोपवेशनस्थानं तत्र दोषानाह [भा. २५९६] दुग्गूढाणं छन्नंगदंसणे भुत्तभोगि सइकरणं । वेउव्वयमाईसु य, पडिबंधुहुंचयाऽऽसंका ॥ वृ- 'दुर्गूढानां' दुष्प्रावृतानां स्त्रीणांयानि च्छन्नाङ्गानि ऊरुकुचोरः प्रभृतीनि तेषां दर्शन भुक्तभोगिनां स्मृतिकरणं अभुक्तभोगिनां तु कौतुकमुत्पद्यते । तथा वैक्रियं वातादिविक्रियाविशेषाद् महाप्रमाणं सागारिकम्, अथवा विकुर्वितं नाम - महाराष्ट्रविषये सागारिकं विद्धवा तत्र विण्टकः प्रक्षिप्यते, सा चाविरतिका ताध्शेनाङ्गादानेन प्रतिसेवितपूर्वी, ततः वैक्रियं विकुर्वितं वा आदिग्रहणात् पैत्तिकं वा सागारिकं दृष्ट्वा सा स्त्री तत्र साधी प्रतिबन्धं कुर्यात्, उड्डुञ्चकं वा कश्चिदगारः कुर्यात्, आशङ्का वा लोकस्य भवति एते श्रमणका न सुन्दरा येनैवं महेलाभि सममासते ।। सर्वेष्वपि प्रश्रवणादिस्थानेषु सामान्यत इमे दोषाः[भा. २५९७ ] Jain Education International बंभवयस्स अगुत्ती, लज्जानासो य पीइपरिवुड्डी । साहु तवोवनवासो, निवारणं तित्थपरिहानी ।। वृ- स्त्रीभिः सहैकत्र तिष्ठतां साधूनां ब्रह्मचर्यस्य 'अगुप्ति' भङ्गो जायते, लज्जानाशच्च परस्परं भवति, अभीक्ष्णं सन्दर्शनादिना प्रीतिपरिवृद्धिरुपजायते, लोकश्चोपहासोक्तिभङ्गया ब्रवीतिअहो ! अमी साधवस्तपोवने वसन्ति, निवारणं च राजादयः कुर्वन्ति मा एतेषां मध्ये कोऽपि प्रव्रज्यां गृह्णातु, ततश्च 'तीर्थपरिहानि' तीर्थस्य व्यवच्छेदो भवति ॥ रूपप्रतिबद्धे दोषानाह[ भा. २५९८ ] चंकम्मियं ठियं मोडियं च विप्पेक्खियं च सविलासं । आगारे बहुविहे, दटुं भुत्तेयरे दोसा ॥ वृ- 'चङ्क्रमितं' राजहंसीवत् सलीलं पदन्यासः, 'स्थितं' कटीस्तम्भेनोर्द्धवस्थानम्, 'मोटितं' गात्रमोटनम्, विविधम्-अर्द्धाक्षि- कटाक्षादिभिर्भेदैः प्रेक्षितं विप्रेक्षितम्, तच्च 'सविलासं' भ्रूविक्षेप सहितंविस्मितमुखंवा, एवमादीनाकारान्बहुविधान् दृष्ट्वा भुक्तानाम् 'इतरेषांच' अभुक्तानांस्मृतिकरणकौतुकादयो दोषाः ॥ अविरतिकानां पुनर्नानादेशीयान् साधून् ध्ष्ट्वेत्थमध्युपपातो भवेत् [भा. २५९९] जल्ल-मलपंकियाण वि, लायन्नसिरी जहेसि देहाणं । सामन्नम्म सुरुवा, सयगुणिया आसि गिहवासे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy