________________
१०२
बृहत्कल्प-छेदसूत्रम् -२-१/२५ "अरहन्नगमाइमकडि"त्ति अरहन्नकस्य भ्रातृजाया तदनुरागाद् मृत्वा या मर्कटी जाता तदा दयस्तिरश्चयोदुःखमोच्याः परंसुखविज्ञप्याः, अरहन्नकदृष्टान्तश्चावश्यकादवसातव्यःतृतीयभङ्गे तुगो-महिष्यादयः, ताः स्वपक्षेऽपिदुःखेन सङ्गमंकार्यन्ते किंपुनः परपक्षे मनुजेषु? अतोदुःखविज्ञपनाः, लोकजुगुप्सितश्चतासुसङ्गमइति कृत्वासुखमोच्याः३।यास्तु सिंही-व्याघ्रीप्रभृतयस्ता उभयदुःखाः, तत्रजीवितान्तकारिणीत्वाद्दुःखविज्ञपनाः, अनुरक्ताश्च सत्यःप्रतिबन्धबन्धुरतया दुःखमोच्याः । अत्र नोदकः प्रश्नयति-को नाम प्राकृतोऽप्येतास्तियस्त्रियो लोकजुगुप्सिताः प्रतिसेवेत? विशेषतो जिनवचनपरिमलितमति? इति, अत्रोच्यते[भा.२५४६] जइता सणप्फईसुं, मेहुणभावंतु पावए पुरिसो।
जीवियदोच्चा जहियं, किं पुन सेसासु जाईसु॥ वृ-यदि तावत् ‘सनखपदीषु सिंहीषु पुरुषो मैथुनभावं प्राप्नोति यत्र "जीवितदोच्च"त्ति जीवितभयं प्राणसन्देहो यासु भवतीत्यर्थः, किं पुनः शेषासु खरिकादिजातिषु? । तथा चात्र दृष्टान्तः-एक्का सीही रिउकाले मेहुणत्थी सजाइपुरिसं अलभमाणी सत्थे वहंते इक्वं पुरिसं चित्तुं गुहं पविठ्ठा चाटुं काउमाढत्ता । सा य तेन पडिसेविता । तत्थ तेसिं दोण्ह वि संसारानुभावतो अनुरागोजातो।गुहापडियस्स तस्स सा दिने दिने पोग्गलं आनेउं देइ । सो वितं पडिसेवइ ।जइ एवं जीवितंतकरीसु वि सणप्फईसु पुरिसो मेहुणधम्म पडिसेवइ किमंग पुन जासु जीवियभयं नत्थि तासु न पडिसेविस्सइ ? ति ॥ यञ्चोक्तम् “विशेषतो जिनवचनपरिमलितबुद्धि” इति तदप्ययुक्तम्, यतः किमेषोऽपिलोको भवतो न कर्णकोटरमध्यमध्यासिष्ट ? -
मात्रास्वस्रा दुहित्रावा, न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति॥ उक्तं तैरश्चं रूपम्, तदुक्तौ च समर्थितं भावसागारिकम् । एवं निर्ग्रन्थानामुक्तम् । अथ निर्ग्रन्थीनामेतदेवातिदिशन्नाह
[भा.२५४७] एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्यो। . पुरिसपडिमाउ तासिं, साणम्मि यजंच अनुरागो॥
वृ- “एष एव' द्रव्य-भावसागारिकविषयः क्रमो नियमाद् निर्ग्रन्थीनामपि भवति ज्ञातव्यः । नवरं दिव्यद्वारे तासां पुरुषप्रतिमा द्रष्टव्याः, मानुष्यद्वारे मनुजपुरुषाः, तैरश्चद्वारे तिर्यक्पुरुषा इति।तैरश्चेचश्वानविषयोयदनुरागोबभूव तद् दृष्टान्तो भवति।जहा-एगाअविरइयाअवाउडा काइयं वोसिरंती विरहे साणेण दिट्ठा। सोय साणो पुच्छं लोलितो चाडूणि करेंतो अल्लीणो।सा अगारी चिंतेइ-पेच्छामितावइएस किंकरेइ? त्ति।तस्सपुरतो सागारियं अभिमुहंकाउंजानुएहिं हत्थेहि यअहोमुही ठिया। तेन सापडिसेविया। तीए अगारीए तत्थेव साणे अनुरागोजातो । एवं मिग-छगल-वानरादीविअगारिंअभिलसंति॥यतएतेदोषास्ततः सागारिकेप्रतिश्रयेनवस्तव्यम्। अथ द्वितीयपदमाह[भा.२५४८] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए।
गीयत्था जयणाए, वसंति तो दव्वसागरिए॥ वृ- अध्वनिर्गतादयः “त्रिकृत्वः' त्रीन् वारानन्यां निर्दोषां वसतिं मार्गयित्वा यदि न लभन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org