________________
उद्देशक : १, मूलं- २५, [भा. २५४८]
ततोऽन्यस्यां वसतावसत्यां गीतार्था यतनया द्रव्यसागारिकेऽप्युपाश्रये वसन्ति ।। यतनामेवाह[भा. २५४९ ] जहि अप्पतरा दोसा, आभरणादीण दूरतो य मिगा । चिलिमिलि निसि जागरणं, गीए सज्झाय-झाणादी ॥
१०३
वृ- 'यत्र' रूपा-ऽऽभरणादावल्पतरा दोषाः तत्र तिष्ठन्ति । मृगा इव मृगाः - अज्ञत्वादगीतार्थास्तानाभरणादीनां दूरतः कुर्वन्ति । चिलिमिलिकां च रूपादीनामपान्तराले बघ्नन्ति । 'निशि' रात्रौ तत्र जागरणं कर्तव्यम्, मा स्तेनादिराभरणादिकमपहरेदिति कृत्वा । गीतशब्दे च श्रूयमाणे महता शब्देन स्वाध्यायं कुर्वन्ति, ध्यानलब्धिसम्पन्नो वा ध्यानं ध्यायति, आदिशब्दाद् नृत्ते नाटके वा विधीयमाने तदभिमुखं नावलोकन्ते ।। भावसागारिके द्वितीयपदमाहअद्धानिग्गयादी, वासे सावयभए व तेनभए । आवरिया तिविहे वी, वसंति जयणाए गीयत्था ॥
[भा. २५५० ]
वृ- अध्वनिर्गतादयो ग्रामादीनामन्तः शुद्धां वसतिमलभमाना बहिरप्युद्यानादौ वसन्ति । अथ बहिर्वसतामिमे दोषाः-‘“वास”त्ति वर्षं निपतति, सिंह- व्याघ्रादीनां वा श्वापदानां भयम्, स्तेनानां वा शरीरोपधिहराणां भयम् । ततो ग्रामादेरन्तर्भावसागारिके जघन्यमध्यमोत्कृष्टभेदाद् प्राजापत्यादिपरिगृहीतभेदाद्वा त्रिविधेऽपि वसन्ति । तत्र च प्रतिमा वस्त्रादिभिरावृताः क्रियन्ते । मनुष्य-तिर्यक्स्तियश्च कटकचिलिमिलिकामपान्तराले दत्त्वा यथा न विलोक्यन्त तथाऽऽवृताः सन्तो गीतार्था यतनया वसन्ति ॥ सूत्रम्
मू. (२६) नो कप्पइ निग्गंथाणं इत्थिसागारिए उवस्सए वत्थए । मू. (२७) कप्पइ निग्गंथाणं पुरिससागारिए उवस्सए वत्थए । मू. (२८) नो कप्पइ निग्गंथीणं पुरिससागारिए उवस्सए वत्थए ॥ मू. (२९) कप्पइ निग्गंथीणं इत्थिसागारिए उवस्सए वत्थए ।
वृ- अस्य सूत्रचतुष्टयस्य सम्बन्धमाह
[भा. २५५१] अविसिहं सागरियं, वृत्तं तं पुन विभागतो इणमो । मज्झे पुरिससगारं, आदी अंते य इत्थीसु ॥
वृ- पूर्वसूत्रे 'अविशिष्टं' स्त्री-पुरुषविशेषरहितं सागारिकमुक्तम्। अधुना पुनः तदेव सागारिकं 'विभागतः' स्त्री-पुरुषविशेषादस्मिन् सूत्रचतुष्टयेऽभिधीयते । अत्र च मध्यवर्त्तिसूत्रद्वये पुरुषसागारिकमादिसूत्रे अन्त्यसूत्रे च स्त्रीसागारिकमाश्रित्य विधिरभिधीयत इति ॥ अनेन सम्बन्धेनायातस्यास्य सूत्रचतुष्टयस्य व्याख्या-नो कल्पते निर्ग्रन्थानां स्त्रीसागारिके उपाश्रये वस्तुम् कल्पते निर्ग्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम् । नो कल्पते निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वस्तुम् । नो कल्पते निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वस्तुम् । कल्पते निर्ग्रन्थीनां स्त्रीसागारिके उपाश्रये वस्तुमिति सूत्रचतुष्टयाक्षरार्थः ॥ अथ भाष्यकारो विस्तरार्थं बिभणिषुराहइत्थीसागरिए उवस्सयम्मि स चेव इत्थिया होइ।
[ भा. २५५२ ]
देवी मनुय तिरिच्छी, सच्चेव पसज्जणा तत्थ ॥
वृ- स्त्रीसागारिके उपाश्रये वस्तुंन कल्पते, सा चानन्तरसूत्रे या देवी मानुषी तिरश्ची च प्रतिपादिता सैवात्रापि द्रष्टव्या । सैव च 'प्रसजना' मिथ्यात्व-शङ्का भोजिकादिरूपा । तत्र च प्रायश्चित्तमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org