________________
बृहत्कल्प-छेदसूत्रम् -२-१/२९
१०४
तदेव मन्तव्यम् । अत्र परः प्राह
[भा. २५५३] जइस चेव य इत्थी, सोही य पसज्जणा य स च्चेव । सुत्तं तु किमारद्धं, चोदग ! सुण कारणं इत्थं ॥
वृ- यदि सैव स्त्री सैव 'शोधिः' प्रायश्चित्तं सैव च प्रसजना तर्हि किमर्थमिदं स्त्रीसागारिकसूत्रमारब्धम्? पुनरुक्तदोषदुष्टत्वान्नेदमारब्धं युज्यत इति भावः । सूरिराह-नोदक ! कारणमत्रास्ति येनेदं सूत्रमारब्धम्, तच्चावहितः शृणु' निशमय ॥
[भा. २५५४] पुव्वभणियं तु पुनरवि, जं-भण्णइ तत्थ कारणं अत्थि । पडिसेोऽणुन्ना कारणं विसेसोवलंभो वा ॥
वृ- तुशब्दोऽपिशब्दार्थे । पूर्वभणितमपि पुनरपि यद् भण्यते तत्र कारणमस्ति । किम् ? इत्याह- "पडिसेहो "त्ति ये पूर्वमनुज्ञां कुर्वता अर्था उक्तास्त एव भूयः प्रतिषेधद्वारेण भण्यन्ते । "अणुन "त्ति येऽर्था पूर्व प्रतिषेधं कुर्वता भणितास्तानेवानुज्ञां कुर्वन् भूयोऽपि दर्शयति । तथा 'कारणं' निमित्तं तद्दर्शनार्थं भूयोऽपि स एवार्थो भणनीयः । अथवा पूर्वं सामान्येन यः प्रतिपादितोऽर्थस्तस्यैव विशेषोपलम्भार्थं प्राग् भणितमपि भूयः प्रतिपादनीयम् । एवं प्रागुक्तभणने चत्वारि कारणानि सन्तीति ।। आह यद्येवं ततः प्रस्तुते किमायातम् ? इत्याहओहे सव्वनिसेहो सरिसाणुन्ना विभागसुत्तेसु । जाउं भेदो, तह मज्झत्थादओ वा वि ॥
[भा. २५५५ ]
वृ- "नो कप्पइ निग्गंथाण वा निग्गंधीण वा सागारिए उवस्सए वत्थए" इत्यस्मिन् ओघसूत्रे सर्वस्यापि सागारिकस्य निषेधः कृतः, इह तु विभागसूत्रेषु सध्शानुज्ञा क्रियते, यथा-पुरुषाणां पुरुषसागारिके स्त्रीणां स्त्रीसागारिके वस्तुं कल्पते । तथा यतना यथा पुरुषेषु स्त्रीषु वा कर्त्तव्या तद्दर्शनहेतोर्विभागसूत्राणां भेदः । मध्यस्थादयो वा स्त्री-पुरुषाणां भेदा अर्थतो दर्शयिष्यन्ते इति विभागसूत्राणां पृथगारम्भः क्रियते ॥ अथ द्वितीयसूत्रे विशेषोपलम्भं दर्शयन्नाह
[भा. २५५६] पुरिससागारिए उवस्सयम्मि, चउरो लहुगा य दोस आणादी । वि य पुरसा दुविहा, सविकारा निव्विकारा य ।।
वृ- "कल्पते निर्ग्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम्" इत्येवं यद्यपि सूत्रेऽनुज्ञातं तथाप्युत्सर्गतो न कल्पते । यदि वसन्ति ततश्चत्वारो लघुकाः प्रायश्चित्तम् आज्ञादयश्च दोषाः । तेऽपि च पुरुषा द्विविधाः सविकारा निर्विकाराश्च ।। तत्र सविकारान् व्याख्यानयति[भा. २५५७ ] रूवं आभरणविहिं, वत्था - ऽलंकार - भोयणे गंधे । आउज्ज नट्ट नाडग, गीए अ मनोहरे सुणिया ।।
वृ- इह ये पुरुषाः रूपं उद्वर्तन - स्नान- नखदन्तकेशसंस्थापनादिना स्वशरीरे जनयन्ति, 'आभरणविधि' मणि-कनकादिमयानाभरणभेदान् 'वस्त्राणि वा' चीनांशुकादीनि परिदधते, 'अलङ्कारेण वा' केश- माल्यादिनाऽऽत्मानमलङ्कुर्वन्ति, भोजनं वा महता विस्तरेणभुञ्जते, चन्दनकर्पूरादिभिः कोष्ठपुटवाकादिभिर्वा गन्धैरात्मानमालिम्पन्ति वासयन्ति वा, तत-विततादिकं वा चतुर्विधमातोद्यं वादयन्ति, नृत्तं वा कुर्वन्ति, नाटकं वा नाटयन्ति, मधुरध्वनिना वा गीतमुच्चरन्ति, एते सविकारा उच्यन्ते । एतेषां रूपादीनि मनोहराणि दृष्ट्वा गीतादिशब्दांश्च 'श्रुत्वा' निशम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org