________________
उद्देश : १, मूलं- २९, [भा. २५५७ ]
भुक्ताऽभुक्तसमुत्था दोषाः । एतेषु तिष्ठतः प्रायश्चित्तमाह[भा. २५५८]
१०५
एक्क्कम्मि उ ठाणे, चउरो मासा हवंति उग्घाया । आणाइणो यदोसा, विराधना संजमाऽऽयाए ॥
वृ- एतेषु रुपा-ऽऽभरणादिपु एकैकस्मिन् स्थाने तिष्ठतश्चत्वारो मासा उद्धाता भवन्ति, लघव इत्यर्थः । आज्ञादयश्च दोषाः, विराधना च संयमे आत्मनि च द्रष्टव्या ।। एवं ता सविकारे, निव्वीकारे इमे भवे दोसा । संसद्देण विबुद्धे, अहिगरणं सुत्तपरिहाणी ॥
[भा. २५५९]
वृ- एवं तावत् सविकारपुरुषेषु दोषा उक्ताः । निर्विकारपुरुषेषु त्वमी दोषा भवेयुः साधूनां स्वाध्यायसत्केनावश्यिकी - नैषेधिकीसम्बन्धिना वा संशब्देन विबुद्धास्ते पुरुषाः साधुभि सह ‘अधिकारणम्' असङ्ग्रडं कुर्युः । तत्रात्मविराधना सूत्रपरिहाणिश्च भवति ॥ संयमविराधना त्वियम्[भा. २४६०] आउ जोवण वणिए, अगणि कुडुंबी कुकम्म कुम्मरिए । तेने मालागारे, उब्भामग पंथिए जंते ।।
वृ- साधूनां गृहस्थानांच सम्बन्धिना असङ्खडशब्देन विबुद्धाः स्त्रियः “आउ” त्ति अप्कायाहरणार्थं व्रजन्ति । "जोवणं" ति रथकारादयः शकटे गवादीन् योजयित्वा काष्ठादिहेतोरटवीं गच्छेयुः । वणिजो धृतकुतुपादिकं गृहीत्वा ग्रामान्तरं व्रजन्ति । “अगनि" त्ति लोहकारादय उत्थायाग्निप्रज्वालनादिकर्मणि लगन्ति । कुटुम्बिनो हलादीनि गृहीत्वा क्षेत्राणि गच्छन्ति । 'कुकर्माणः ' मत्स्यबन्ध-वागुरिकादयो मत्स्याद्यर्थं गच्छन्ति । कुत्सितः मारणीयसत्त्वस्यातीववेदनोत्पादकत्वान्निन्द्यो यो मारः-मारणं स विद्यते येषां ते कुमारिकाः - सौकरिका इत्यर्थः तेऽपि स्वकर्मणि लगन्ति । स्तेनः प्रभातमिति कृत्वा पन्थानं बन्दुं गच्छेत् । मालाकारः करण्डे गृहीत्वाऽऽरामं गच्छति । ‘उद्भ्रामकः’ पारदारिकः स दत्तसङ्केत उद्भ्रामिकां गृहीत्वा पलायेत । पथिको बिबुद्धः पथि प्रवर्त्तते । यन्त्रिका बिबुद्धाः सन्तो यन्त्राणि वाहयन्ति । यस्मादेते दोषास्तस्मात् पुरुषेष्वपि न स्थातव्यम् ।। नोदकः प्राह[भा. २५६१]
एवं सुत्तं अफलं, सुत्तनिवाओ उ असइ वसहीए ।
गीयत्था जयणाए, वसंति तो दव्वसागरिए ।
वृ- यदि ‘एवं' पुरुषेष्वपि निर्ग्रन्थानां वस्तुं न कल्पते तर्हि सूत्रं "कल्पते पुरुषसागारिके वस्तुम्” इत्येवंलक्षणमफलं प्राप्नोतिं । गुरुराह 'सूत्रनिपातः ' सूत्रस्यावसरो विशुद्धायां वसतावसत्यां मन्तव्यः, तथा च यद्यसागारिक वसतिर्न प्राप्यते ततो गीतार्था यतनया द्रव्यसागारिके वसन्ति, पुरुषसागारिके इत्यर्थः ।।
[भा. २५६२] ते वियपुरिसा दुविहा, सन्नी अस्सन्निणो य बोधव्वा ।
मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ॥
वृतेऽपि च पुरुषाद्विविधाः संज्ञिनोऽसंज्ञिनश्च । संज्ञा नाम देव-गुरु-धर्मतत्त्वानां यथावत् परिज्ञानं सा विद्यते येषां ते संज्ञितः, श्रावका इत्यर्थं । तद्विपरीता असंज्ञिनः । एते प्रत्येकं चतुर्विधाःमध्यस्था आभरणप्रिया कान्दर्पिकाः काथिकाश्च ॥ एतानेव व्याचाष्टे
[भा. २५६३ ] आभरणपिए ज. णसु, अलंकरिते उ केसमादीणि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org