________________
२६०
बृहत्कल्प-छेदसूत्रम् -२-१/५० -इहयद्यप्याचारादिषुशास्त्रान्तरेषुबहवोजातिभेदाउपग्यन्तेतथापिलोकेएता एवाम्बष्ठकलिन्द-वैदेह-विदक-हारित-तुन्तुणरूपाः 'इभ्यजातयः' अभ्यर्चनीया जातयः प्रसिद्धाः । तत एताभिर्जातिभिरुपेता जात्यार्या, न शेषजातिमिरिति ॥अथ कुलार्यान् निरूपयति[भा.३२६५] उग्गा भोगा राइण्ण खत्तिया तह य नात कोरव्वा।
इक्खागा वियछट्ठा, कुलारिया होंति नायव्वा ॥ . 'उग्राः' उग्रदण्डकारित्वादारक्षिकाः । भोगाः'गुरुस्थानीयाः। राजन्याः' वयस्याः। क्षत्रियाः' सामान्यतो राजोपजीविनः । 'ज्ञाताः' उदारक्षत्रियाः, 'कौरवाः' कुरुवंशोद्भवाः, एते द्वयेऽप्येक एव भेदः । 'इक्ष्वाकवः' ऋषभनाथवंसजाः षष्ठाः । एते कुलार्या ज्ञातव्याः ॥ 'भाषा' अर्धमागधभाषाभाषिणः। शिल्पार्या तुण्णाक-तन्तुवायादयः । ज्ञानार्यापञ्चधा-आभिनिबोधिकश्रुता-ऽवधि-मनः पर्यय-केवलज्ञानार्यभेदात् । दर्शनार्या द्विधा सरागवीतरागदर्शनार्यभेदात् । तत्र सरागदर्शनार्या क्षायोपशमिकौपशमिकसम्यग्दृष्टिभेदाद् द्विधा । वीतरागदर्शनार्या उपशान्तमोहादयः । चारित्रार्या पञ्चविधाः-सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिकसूक्ष्मसम्पराय-यथाख्यातभेदात् । अत्र च क्षेत्रार्यैरधिकारः॥अथार्यक्षेत्रविहारे कारणमाह[भा.३२६६] जम्मण-निक्खमणेसु य, तित्थकराणं करेंति महिमाओ।
भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा॥ वृ- इहार्यक्षेत्रे भगवतां तीर्थकृतां जन्म निष्क्रमणयोः चशब्दाद् ज्ञानोत्पत्तौ च भवनपतिवानमन्तर-ज्योतिष्क-वैमानिका देवाः 'महिमाः' सातिशयपूजाः कुर्वन्ति । ताश्च दृष्ट्वा बहवो भव्या विबुध्यन्ते, प्रव्रज्यां च प्रतिपद्यन्ते, चिरप्रव्रजिता अपि स्थिरतरा भवन्ति॥ [भा.३२६७] उप्पन्ने नाणवरे, तम्मि अनंते पहीणकम्माणो ।
तो उवदिसंतिधम्म, जगजीवहियाय तित्थकरा॥ वृ-'तस्मिन्' तद्देशे 'अनन्ते' अपर्यवसिते 'ज्ञानवरे मति-श्रुतादिशेषज्ञानप्रधाने केवलाख्ये 'उत्पन्ने तदावारककर्मक्षयादाविर्भूते सति 'प्रहीणकर्माणः' प्रक्षीणघातिकाशास्तीर्थकराः 'ततः' ज्ञानोत्पत्त्यनन्तरं 'धर्म' श्रुत-चारित्ररूपंजगजीवहितायोपदिशन्ति॥ [भा.३२६८] लोगच्छेरयभूतं, ओवयणं निवयणं च देवाणं ।
संसयवाकरणाणि य, पुच्छंति तहिं जिनवरिदे॥ वृ-लोकस्य-मनुष्यलोकस्यआश्चर्यभूतं-विस्मयकारिदेवानामुत्पतनं निपतनंच दृष्ट्वा बहवो जीवाःप्रतिबुध्यन्ते । तथा देव-मनुष्य-तिर्यग्रूपाअसङ्खयेयाः संज्ञिनःस्वस्वसंशयानांव्याकरणानिनिर्वचनानि जिनवरेन्द्रान् 'तत्र' आर्यजनपदे पृच्छन्ति । भगवन्तोऽपि च सातिशयत्वात् तेषामसङ्घयेयानामपि युगपदेव संशयानुन्मूलयन्ति ।अपिच[भा.३२६९] समणगुणविदुऽत्थ जनो, सुलभो उवधी सतंतमविरुद्धो।
आरियविसयम्मि गुणा, नाण-चरण-गच्छवुड्डी य॥ वृ. श्रमणगुणाः-मूलोत्तरगुणरूपाः, तत्र पञ्च महाव्रतानि मूलगुणाः, उद्गमोत्पादनैषणादोषविशुद्धि अष्टादश शीलाङ्गसहस्राणि चोत्तरगुणाः, तान् वेत्ति-जानातीति श्रमणगुणविद्, ईशः 'अत्र' आर्यजनपदे ‘जनः' लोकः । अत्र च 'उपधि' औधिक औपग्रहिकश्च ‘स्वतन्त्रेण'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org