________________
२५९
उद्देशक : १, मूलं-५०, [भा. ३२६०] सम्यक्प्रयोगेण क्रियाकृता? उतापप्रयोगेण? । तैरुक्तम्-अपप्रयोगेणेति। ततोऽसौ तेन राज्ञा शारीरेण दण्डेन दण्डितः। एवमसावपि 'तेन' राजपुत्रेण समं विनष्ट इति उक्तम् । एष दृष्टान्तः, अयमर्थोपनयः-यथाऽसौ वैद्यपुत्र एकभविकं मरणमनुप्राप्तः एवं य आचार्य इदं कल्पाध्ययनंन जानाति एकदेशं वाजानन् गणं परिवर्तयति स गम्भीरसंसारसागरंपरिभ्रमन्ननेकानिजनितव्यमर्तव्यानि प्राप्नोति ।। अथेदं सूत्रं भगवता यत्र क्षेत्रे यंच कालं प्रतीत्य प्रज्ञप्तं तदेवाह[भा.३२६१] साएयम्मि पुरवरे, सभूमिमागम्मि वद्धमाणेण ।
. सुत्तमिणं पन्नत्तं, पडुच्च तं चेव कालंतु॥ वृ-साकेते पुरवरे सभूमिभागे उद्याने समवसृतेन भगवता वर्द्धमानस्वामिना सूत्रमिदं तमेव' वर्तमानं कालं प्रतीत्य निर्ग्रन्थ-निर्ग्रन्थीनां पुरतः प्रज्ञप्तम् ॥ कथम् ? इत्याह[भा.३२६२] मगहा कोसंबी या, थूणाविसओ कुणालविसओ य।
एसा विहारभूमी, एतावंताऽऽरियं खेतं ॥ वृ-पूर्वस्यां दिशि मगधान् दक्षिणस्यां दिशि कौशाम्बी अपरस्यां दिशि स्थूणाविषयं उत्तरस्यां दिशि कुणालाविषयं यावद्द्ये देशा एतावदार्यक्षेत्रमन्तव्यम् । अत एव साधूनामेषा विहारभूमी। इतः परं निर्ग्रन्थ-निर्ग्रन्थीनां विहर्तुन कल्पते ॥अथार्यपदस्य निक्षेपनिरूपणायाह[भा.३२६३] नामं ठवणा दविए, खेत्ते जाती कुले य कम्मे य ।
भासारिय सिप्पारिय, नाणे तह दंसण चरिते॥ वृ-नामार्या स्थापनार्या द्रव्यार्या क्षेत्रार्या जात्यार्याकुलार्या कार्या भाषार्या शिल्पार्या ज्ञानार्या दर्सनार्याश्चारित्रायश्चेिति । तत्र नाम-स्थापने सुप्रतीते । द्रव्यार्यानामनादियोग्याः तिनिशवृक्षवृतयः। क्षेत्रार्या अर्द्धषड्विशतिर्जनपदाः तद्वासिनो वा ।तेचजनपदाराजगृहादिनगरोपलक्षिता मगधादयः । उक्तञ्च
रायगिह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य३।
कंचनपुरं कलिंगा ४, वाणारसि चेव कासी य ५॥ साकेत कोसला ६ गयपुरं च कुरु ७सोरियं कुसट्टा य ८।
कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १०॥ बारवईय सुरट्ठा ११, विदेह मिहिला य १२ वच्छ कोसंबी १३।
नंदिपुरं संडिब्भा १४, भद्दिलपुरमेव मलया य १५॥ वेराड वच्छ १६ वरणा, अच्छा १७ तह मत्तियावइ दसन्ना १८।. सुत्तीवई य चेदी १९, पाव भंगी य २२, मास पुरिवट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसंच लाढा य २५॥ सेयविया विय नगरी, केगइअद्धं च आरियं भणियं ।
जत्थुप्पत्ति जिणाणं, चक्कीणं राम-कण्हाणं॥ -सम्प्रति जात्यानाह[भा.३२६४] अंबट्ठा य कलंदा, विदेहा विदका ति य ।
हारिया तुंतुणा चेव, छ एता इब्भजातिओ॥
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org