________________
२५८
बृहत्कल्प-छेदसूत्रम् -२-१/५०
पुरस्सरा होतु मुहुत्तमेत्तं, अपेयचक्खू सगडेण खुण्णा ॥
वृ- 'सा' पुच्छिका 'मन्दबुद्धि' सद्बुद्धिविकला 'अथ' अनन्तरं शीर्षकस्य वचनमकृत्वा 'स्वच्छन्दा' स्वमतिप्रवृत्ता ‘मन्दा' गमनक्रियायामलसा बलामोटिकया पुरस्सरा भूत्वा गन्तुं प्रवृत्ता । ततः किमभूत् ? इत्याह- 'अपेतचक्षु' लोचनरहिता सा पुरो गच्छन्ती मुहूर्तमात्रेण शकटेन 'क्षुण्णा' आक्रान् विपत्तिमुपागता । एष ध्ष्टान्तः, अयमर्थोपनयः
[भा. ३२५७] जे मज्झदेसे खलु देस गामा, अतिपपितं तेसु भयंतु ! तुज्झं । लक्खण-हिंडीहि सुताविया मो, अम्हं पि ता संपइ होउ छंदो ॥
वृ- 'ये' अगीतार्था शिष्यास्ते आचार्यान् भणन्ति-भदन्त ! ये खलु 'मध्यदेशे' आर्यक्षेत्रे देशाःमगधादयो ग्रामाश्च तव्प्रतिबद्धास्तेषु भगवताम् 'अतिप्रियम्' अतीव विहर्त्तु रोचते, परं वयमेषु दिवसेषु रूक्षान्नमात्रलाभेन हिण्ड्या च इतस्ततः परिभ्रमणरूपया सुष्ठु अतिशयेन तापिताःदग्धान्त्रदेहाः सञ्जाताः, अतोऽस्माकमपि तावत् सम्प्रति च्छन्दो भवतु, स्वच्छन्देन यत्र यत्र रोचते तत्र तत्र विहरिष्याम इति ।। गुरवो ब्रुवते
[भा. ३२५८ ] देहोवहीतेणग-सावतेहिं, पदुट्ठमेच्छेहि य तत्थ तत्थ । जता परिब्भस्सध अंतदेसे, तदा विजानिस्सह मे विसेसं ॥
वृ- भो भद्राः ! यूयं प्रत्यन्तदेशे विहरन्तो यदा देहस्तेनैः - शरीरहरैः उपधिस्तेनैः - उपकरणहरैः श्वापदैः-सिंह-व्याघ्रादिभिः प्रद्विष्टम्लेच्छैश्च तत्रतत्रोपहृताः सन्तः संयमा-ऽऽत्मविराधनादिना परिभ्रंशमाप्स्यथ तदा विज्ञास्यथ 'मे' मदीयं विशेषम्, यथा- हा ! न शोभनं कृतमस्माभि यदेवं गुरूणां वचनमवगणय्य स्वच्छन्दसा विहारः कृत इति । यस्तु गणधरो न जानाति, जानानो वा शिष्याणां मार्गं नोपदिशति, स तेषामनुवृत्त्या सन्मार्गमतिक्रम्यानार्यदेशे विहरन् तैरेव शिष्यैः सह विनाशमाविशति; यथा सर्पशीर्षकं पुच्छिकासहितं विनष्टमिति । अथ वैद्यपुत्रदृष्टान्तमाह[भा.३२५९] वेज्जस्स एगस्स अहेसि पुत्तो, मतम्मि ताते अनधीयबिज्जो ।
गंतुं विदेसं अह सो सिलोगं, घेत्तूणमेगं सगदेसमेति ॥
वृ- एकस्य वैद्यस्य पुत्र आसीत् । स च 'ताते' पितरि मृते सति अनधीतविद्य इति कृत्वा राज्ञः 'सकाशाद् वृत्तिं न लभते । ततो वैद्यकशास्त्रपठनार्थं विदेशं गत्वा तत्र कस्यापि वैद्यस्य पार्श्वे एकं श्लोकं शृणोति स्म
पूर्वाह्णे वमनं दद्यादपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पथमाहुर्विशोषणम् ॥
ततस्तेन चिन्तितम्-हुंज्ञातं वैद्यकरहस्यम्, अतः किमर्थमत्र तिष्ठामि ? इति । 'अथ' अनन्तरमसौ श्लोकं गृहीत्वा 'स्वकम्' आत्मीयं देशमुपैति ॥
[भा.३२६०] अहाऽऽगतो सो उ सयम्मि देसे, लद्धूण तं चैव पुराणवित्तिं । रन्नो नियोगेण सुते तिगिच्छं, कुव्वंतु तेनेव समं विनट्ठो ॥
वृ- 'अथ' अनन्तरं 'सः' वैद्यपुत्रः स्वके देशे समागतः संन् राज्ञः समीपे तामेव पुराणां वृत्तिं लब्ध्वा अन्यदा राज्ञो नियोगेन 'सुतस्य' राज्ञः पुत्रस्य पूर्वोक्त श्लोकप्रमाणेन चिकित्सां कर्त्तुमारब्धवान्। ततोऽसौ राजपुत्रस्तदीयया अपप्रयोगक्रियया विनष्टः । राज्ञा चापरे वैद्याः पृष्टाः - किमेतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org