________________
उद्देशक : १, मूलं- १४, [भा. २३३६ ]
[भा. २३३७] उभयविसुद्धा इयरी, पविसंतीओ पवत्तिणी छिवइ । सीसे गंडे वच्छे, पुच्छर नामं च का सि त्ति ।।
वृ- उभयं संज्ञा कायिकी च तद् विशुद्धं व्युत्सृष्टं याभिस्ता उभयविशुद्धाः, आहिताग्न्यादेशकृतिगणत्वात् पूर्वापरनिपातव्यत्ययः, 'इतराः संयत्यो यदा प्रविशन्ति तदा प्रविशन्तीरेव ताः प्रवर्त्तिनी 'किमेषा संयती ? उत न ?' इति परिज्ञानार्थं 'शीर्षे' शिरसि 'गण्डे' कपोले 'वक्षसि' हृदये एवं त्रिषु स्थानेषु परिस्पृशति नाम च पृच्छति - 'का?' किं नामासि त्वम् ? इति ॥ या च तत्र प्रवेशसमये विलम्बते या वा सुप्तानामप्रस्तावे निर्गच्छति सा वक्तव्या[भा. २३३५ ] किं तुज्झ इक्कियाए, घम्मी दारं न होइ इत्तो उ । न य निडुरं पि बन्नइ, मा जियगद्दत्तणं हुज्जा ।।
वृ-किं तवैकस्या एव घर्मो येनैवं निर्गच्छसि विलम्बसे वा ? द्वारमितो न भवति, एवमन्यव्यपदेशेन मधुरवचनैः सा वक्तव्या । न च "निडुरं” कठोरं स्फुटमेव भण्यते, “मा जियगद्दत्तणं' ति 'जितलज्जत्वं' निर्लज्जता मा भूदिति हेतोः ।। ततश्च
[भा. २३३९]
सव्वासु पविट्ठासुं, पडिहारि पविस्स बंधए दारं । मझे यठाइ गणिणी, सेसाओ चक्कवालेणं ॥
वृ- सर्वासु संयतीषु प्रविष्टासु प्रतिहारी प्रविश्य द्वारं पूर्वोक्तविधिना बघ्नाति । 'मध्ये च' मध्यभागे ‘गणिनी' प्रवर्त्तिनी 'तिष्ठति' संस्तारकं प्रस्तृणातीत्यर्थः, शेषास्तु संयत्यः 'चक्रवालेन' मण्डलिकया प्रवर्त्तिनीं परिवार्य संस्तृणन्ति यथा परस्परं सुप्तानां न सङ्घट्टो भवति ।।
आह किमर्थं न सङ्घट्टः क्रियते ? उच्यते
[भा. २३४०]
सइकरण कोउहल्ला, फासे कलहो य तेन तं मुत्तुं ।
किढि तरुणी किढि तरुणी, अभिक्ख छिवणा य जयणाए ।
५९
वृ- 'स्पर्शे' अन्योऽन्यं सङ्घट्टने भुक्ताऽभुक्तानां स्मृतिकरण-कौतूहले भवतः । 'कलहश्च' असङ्घडं च परस्परं भवति, यथा-अहं त्वया हस्तेन वा पादेन वा सङ्घट्टिता। तेन हेतुना 'तं' स्पर्शं मुक्त्वा 'कढी' स्थविरा सा प्रथमतः संस्तारकं करोति, ततस्तदन्तरिता तरुणी, पुनः स्थविरा, पुनस्तरुणी इत्येवं संस्तारकप्रस्तरणविधिः । 'यतनया च' यथा तासां स्मृतिकरणादिनोपजायते तथा ‘अभीक्ष्णं’ पुनः पुनः स्पर्शना प्रवर्त्तिन्या कर्त्तव्या । प्रतिहारी च द्वारमूले संस्तारयति ॥ कथम् ? इति अत आह
[ भा. २३४१ ] तनुनिद्दा पडिहारी, गोविय घेत्तुं च सुवइ तं दारं । जग्गंति वारएण व, नाउं आमोस दुस्सीले ।।
वृ- तन्वी स्तोका निद्रा यस्याः सा तथा एवंविधा प्रतिहारी तद् द्वारं बद्धवा तथा ग्रन्थिं गोपयित्वा स्वपिति यथा अन्याः संयत्यो न जानन्त्युद्घाटयितुम् । हस्तेन वा तद् दवरकप्रान्तं गृहीत्वा स्वपिति । अथ तत्र आमोषाः स्तेना दुःशीला वा अभितन्ति ततस्तान् ज्ञात्वा वारकेण रात्रौ जाग्रति ॥
अथ मात्रकयतनामाह
।
[भा. २३४२ ] कुडमुह डगलेसु व काउ मत्तगं इट्टगाइदुरुढाओ । लाल सराव पलालं, व छोटु मोयं तु मा सद्दो ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org