________________
५८
बृहत्कल्प-छेदसूत्रम् -२-१/१४
[भा.२३३२] असई यकवाडस्सा, विदलकडादी अदो कडा उभओ।
फरमुट्ठियस्स सरिसो, बाहिरकडयम्मि बंधोउ ॥ वृ-यदि द्वारं कपाटसहितं भवति ततः सुन्दरमेव । अथ कपाटं नास्ति ततः कपाटस्यासति प्रस्तारः क्रियते । प्रस्तारः-कटः, स च द्विदलकटादि द्विदलं-वंशदलं तन्मयः कटो द्विदलकटः, आदिशब्दात्शरकटः परिगृह्यते। ईशौ द्वौ कटौ द्वारस्यौभयतः क्रियेते, एकोऽभ्यन्तरे द्वितीयो बहिरित्यर्थः। ततःस्फरकस्ययामुष्टि-ग्रहणस्थानं तस्यसहशोबन्धोबाह्यकटेऽभ्यन्तरतोदातव्यः।। सच बन्धः किम्मयः कर्त्तव्यः ? इत्याह[भा.२३३३] सुत्ताइरज्जुबंधो, दुछिड्ड अभितरिल्लकडयम्मि।
हेट्ठा मज्झे उवरिं, तिन्नि व दो वा भवे बंधा॥ वृ-सूत्रस्य आदिशब्दावल्कस्य वा ऊर्णाया वा या रज्जु-दवरकः परिस्थूरो हेढश्च तस्य बन्धो बाह्यकटे स्फरमुष्टिकसशोदातव्यः, अभ्यन्तरकटेच द्वे छिद्रे कर्तव्ये । कथम्? इतिअत आह"हेट्ठा मझे उवरिं"ति ‘मध्ये स्फरकमुष्टेरनुश्रेण्यामेवाधस्तादुपरि चच्छिद्रद्वयं कर्त्तव्यम्, ततो बाह्यकटस्य स्फरकमुष्टौ दवरको ६ढं प्रवेश्य पश्चादभ्यन्तरकटस्य द्वयोरपि च्छिद्रयोः प्रक्षिप्य ततोऽभ्यन्तरेण निष्काश्यनिबिडंबन्धनीयः, ईशा द्वौवात्रयोवाबन्धाबध्यन्ते।अभ्यन्तरप्रस्तारस्य चोपरि चिलिमिली बध्यते, सा च तान् बन्धान् गोपयति। तथा च ते बन्धा बध्यन्ते यथा प्रतिहारी मुक्त्वा अन्या काचिन्न जानाति॥आह सा प्रतिहारी कीग्गुणान्विता स्थापनीया? इति उच्यते[भा.२३३४] काएण उवाचया खलु, पडिहारी संजईण गीयत्था।
परिनय भुत्त कुलीणा, अभीरु वायामियसरीरा॥ वृ-कायेनोपचिता न कृशशरीरा, 'गीतार्थाः' सम्यगधिगतसूत्रार्था, परिणता वयसा बुध्या च, “भुत्त"त्ति भुक्तभोगिनी, 'कुलीना' विशुद्धकुलोत्पन्ना, 'अभीरु' न कुतश्चिदपि स्तेनोद्रामकादेर्विविधां बिभीषिकां दर्शयतोऽपि बिभेति, “वायामियसरीर"त्ति व्यायामःखेदस्तत्सहशरीरा समर्थदहा इत्यर्थः, ईशी खलु संयतीनां प्रतिहारी स्थापयितव्या ।
साच किं करोति? इत्याह[भा.२३३५] आवासगंकरित्ता, पडिहारी दंडहत्थ दारम्मि।
तिन्नि उ अप्पडिचरिउं, कालं घेत्तूण य पवेए॥ वृ-'आवश्यक' प्रतिक्रमणं कृत्वा प्रतिहारी दण्डकहस्ता अग्रद्वारे तिष्ठति । ततश्च “तिन्नि उ"त्ति तिः संयत्यः कालप्रत्युपेक्षणार्थं निर्गच्छन्ति । “अप्पडिचरियं"ति प्रादोषिकं कालं यथा साधवः प्रतिजागरितं गृह्णन्ति तास्तथा न इति गृहीत्वा च कालं ततः प्रवर्त्तिन्या निवेदयन्ति । निवेद्य च स्वाध्याये प्रस्थापिते सर्वा अपि स्वाध्यायं कुर्वन्ति ॥ कथम् ? इत्याह[भा.२३३६] ओहाडियदाराओ, पोरिसि काऊण पढमए जामे ।
पडिहारि अग्गदारे, गणिणी उ उवस्सयमुहम्मि । वृ-अवघाटितं-चिलिमिलिकया पिहितं द्वारम्-अग्रद्वारंयासांता अवघाटितद्वाराः सर्वा अपि प्रथमेयामे सूत्रपौरुषीं कृत्वा ततो मध्ये प्रविशन्तीति वाक्यशेषत्र । पौरुषीं कुर्वाणानांचप्रतिहारी अग्रद्वारे तिष्ठति, 'गणिनी तु' प्रवर्तिनी उपाश्रयस्य मुखे-मूलद्वारे स्थिता स्वाध्यायं करोति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org