________________
५७
उद्देशक : १, मूलं-१४, [भा. २३२६] 'अवघाटितचिलिमिलिकाके अवघाटिता-बद्धा चिलिमिलिका यत्रसतथाईशेउपाश्रये ‘एवम्' अनन्तरोक्तेन विधिना “णं" इति वाक्यालङ्कारे कल्पते वस्तुमिति सूत्रसङ्केपार्थः ।। विस्तरार्थं तु भाष्यकृदाह[भा.२३२७] दारे अवंगुयम्मी, निग्गंथीणं न कए वासो।
चउगुरु आयरियाई, तत्थ वि आणाइणो दोसा।। वृ-'अपावृते' उद्घाटिते द्वारे, उद्धारटद्वारे उपाश्रये इत्यर्थः निर्ग्रन्थीनांन कल्पते वासः ।अत्र चैतत् सूत्रमाचार्य प्रवर्त्तिन्यान कथयति चतुर्गुरु, प्रवर्तिनी संयतीनां नकथयति चतुर्गुरु, आर्यिका यदि न प्रतिशृण्वत्ति तदा तासां मासलघु । तत्रापि' अकथनेऽश्रवणे चाज्ञादयो दोषा द्रष्टव्याः॥ [भा.२३२८] दारे अवंगुयम्मी, भिक्खुणिमादीण संवसंतीणं।
गुरुगा दोहि विसिट्ठा, चउगुरुगादी व छेदंता ।। वृ-उपाश्रयसम्बन्धिनिद्वारेऽपावृतेसति भिक्षुण्यादीनां संवसन्तीनां द्वाभ्यां तपः-कालाभ्यां विशिष्टाश्चतुर्गुरुकाः प्रायश्चित्तम् । तद्यथा-भिक्षुण्याश्चतुर्गुरुकं तपसा कालेन च लघु, अभिषेकायास्तदेव कालगुरुतपोलघु, गणावच्छेदिन्यास्तपोगुरु काललघु, प्रवर्त्तिन्याद्वाभ्यामपि गुरुकम्। चतुर्गुरुकादयो वा छेदान्ताः प्रायश्चित्तविशेषा भवन्ति, तद्यथा-भिक्षुण्या अपावृतद्वारे वसन्त्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः पङ्गुरुकम्, प्रवर्तिन्याश्छेद इति ॥ अत्र दोषानाह[भा.२३२९] तरुणे वेसित्थीओ, विवाहमादीसु होइ सइकरणं ।
इच्छमनिच्छे तरुणा, तेना ताओ व उवहिं वा ।। वृ-अस्या व्याख्या अनन्तरसूत्रवद् द्रष्टव्या॥ [भा.२३३०] अन्ने वि होति दोसा, सावय तेणे य मेहुणट्ठी य।
वइणीसु अगारीसुय, दोच्चं संछोभणादीया।। वृ- अन्येऽप्यभ्यधिका अत्रदोषा भवन्ति । तत्रापावृतद्वारे उपाश्रये श्वापदो वा स्तेनो वा चशब्दात् श्वानो वा प्रविशेयुः, तैश्च यद्विराधनां प्राप्नुवन्ति तनिष्पन्नं प्रायश्चित्तम् । 'मैथुनार्थी बा' उद्रामकः प्रविशेत् स बलादप्युदारशरीरांसंयतीं गृह्णीयात् ।तिनीषु वा मध्ये काचिद्वतिनी मोहोद्भवेन कस्यापि गृहिणो गृही वा तस्याः संयत्याः प्रसुप्तासु शेषसाध्वीषु रात्रौ काञ्चिदगारी प्रेष्य दौत्यं कारापयेत् । अगारीषु वा मध्ये काचित् संछोभणं-परावर्त्त कुर्यात्, संयतीसंस्तारके सा अगारी संयतीसत्कानि वस्त्राणि प्रावृत्य सयीत संयती तु तदीयानि वस्त्राणि प्रावृत्यागारस्य सकाशंगच्छेदित्यर्थः । यस्मादेवमादयोदोषास्तस्मादपावृतद्वारे प्रतिश्रये साध्वीभिर्न स्थातव्यम्।। द्वितीयपदे तिष्ठतां (तिष्ठन्तीनां) विधिमाह[भा.२३३१] पत्थारो अंतो बहि, अंतो बंधाहिं चिलिमिलि उवरिं।
पडिहारि दारमूले, मत्तग सुवणं च जयणाए। वृ-प्रस्तीर्यत इति प्रस्तारः, सच द्विधा-अन्तर्बहिश्च । 'अन्तः' अभ्यन्तरप्रस्तारे "बंधाहि"न्ति 'बधान' नियन्त्रय चिलिमिलीमुपरिष्टात् । ततः प्रतिहारी द्वारमूले तिष्ठति। ‘मात्रकं मोकव्युत्सर्जन स्वपनं च यतनया कर्तव्यमिति नियुक्तिगाथासमासार्थः । अथ विस्तरार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org