________________
बृहत्कल्प-छेदसूत्रम् -२-१/१२ संयतीप्रायोग्योपकरण-प्रावरणादिना ताः सर्वदैव सुयन्त्रितास्तथापि तत्रापणगृहादौ विशेषतो यथोक्तयतनया यन्त्रणा कर्तव्या॥का पुनर्यतना? इति चेद् उच्यते[भा.२३२३] बोलेण झायकरणं, ठाणं वत्थुव पप्प भइयं तु।
वंदेन इंति निति व,अविनीयनिहोडणा चेव ।। वृ- 'बोलेन’ समुदायशब्देन स्वाध्यायकरणं येन पूर्वोक्ताः दोषा न भवन्ति । स्थानं वा वस्तु वाप्राप्य 'भाज्यं स्वाध्यायकरणंन कर्तव्यमपीत्यर्थः ।वृन्देन चकायिकीसंज्ञाव्युत्सर्जनार्थमतियन्ति नियन्तिवा। अविनीतानांच-दुःशीलानांतरुणादीनांनिहेठनाकर्तव्या, नतत्र प्रवेष्टुंदातव्यमितिभावः॥ [भा.२३२४] एएसिं असईए, सुने बहि रक्खियाउ वसहेहिं ।
तेसऽसती गिहिनीसा, वइमाइसु भोइए नायं ॥ वृ. 'एतेषाम्' आपणगृहादीनामसति अध्वप्रतिपन्नादयो व्रतिन्यः 'वृषभैः' समर्थसाधुभि'बहिः' समन्ततो रक्षिताः सत्यः शून्येऽप्युपाश्रये वसेयुः। अथ वृषभान भवन्ति ततस्तेषामभावे गृहिणाम्-अगारिणां निश्रया वृत्यादिभिः सुगुप्ते शन्येऽपि प्रतिश्रये वसन्ति । कथम् ? इत्याह'भोजिकस्य' ग्रामस्वामिनः 'ज्ञात' विदितं कृत्वा, यथा-वयमत्र भवदीयबाहुच्छायापरिगृहीताः स्थिताः स्मः, अतो भवता अस्माकं सारा करणीयेति ॥ सूत्रम्
मू. (१३) कप्पइ निग्गंथाणं आवणगिहंसि वा जाव अंतरावर्णसि वा वत्थए । वृ-अस्य व्याख्या प्राग्वत्॥अथ भाष्यम्[भा.२३२५] एसेव कमो नियमा, निग्गंथाणं पिनवरि चउलहुगा।
सुत्तनिवातो अंतोमुहम्मि तह चेव जयणाए। वृ-एष एव क्रमो नियमाद् निर्ग्रन्थानामपि भवति, तेषामप्यापणगृहादिषु वसतां पूर्वोक्ता दोषा भवन्तीति भावः । नवरं चतुर्लघुकाः प्रायश्चित्तम् । आह यद्येवं तर्हि सूत्रं निरर्थकम्, तत्र साधूनामापणगृहादिषु वस्तुमनुज्ञातत्व, नैवम्, कारणिकं सूत्रम्, यद्यन्य उपाश्रयो न प्राप्यते ततोऽन्तर्मुखे रथ्यागृहे स्थातव्यम्, अत्र ‘सूत्रनिपातः' प्रकृतसूत्रमवतरतीति भावः । तस्याभावे शेषेष्वपि तिषठतां तथैव यतना द्रष्टव्या। सूत्रम्
मू. (१४) नो कप्पइ निग्गंथीणं अवंगुयदुवारिए उवस्सए वत्थए । एगं पत्थारं अंतो किच्चा एगं पत्थारं बाहिं किच्चा ओहाडियचिलिमिलियागंसि एवं णं कप्पइ वत्थए।
वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.२३२६] पडिसिद्धविवक्खेसुं, उवस्सएहि उ संवसंतीणं ।
बंभवयगुत्ति पगए, वारिंतऽनेसु वि अगुत्तिं ॥ वृ- पूर्वसूत्रे प्रतिषिद्धानाम्-आपणगृहादीनां विपक्षा ये उपाश्रयाः कल्पनीया इत्यर्थः, तेषु संवसन्तीनां व्रतिनीनां ब्रह्मचर्यगुप्ति प्रकृता, तदर्थं तेषु ताभिर्वस्तव्यमिति भावः । अतस्तस्या प्रकृते प्रक्रमे 'अन्येष्वपि' अप्रतिषिद्धेषु प्रतिश्रयेष्वपावृतद्वारतारूपामगुप्तिं वारयन्ति भगवन्तो भद्रबाहुस्वामिन इति।।अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते 'निर्ग्रन्थीनां व्रतिनीनाम् 'अपावृतद्वारके' उद्घाटद्वारे उपाश्रये वस्तुम् । सकपाटोपाश्रयालाभे तु तत्रापि वसन्तीभिरित्थं विधिविधेयः-एकं 'प्रस्तारं' कटम् ‘अन्तः' प्रतिश्रयाभ्यन्तरे कृत्वाएकं प्रस्तारं बहि कृत्वा ततः
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only