SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं- १२, [भा. २३१७] ५५ स्थापयन्ति । तथा तत्पाक्षिकाः - साधुपक्षबहुमानिनो ये श्रावकास्तेषां च पुरतः 'दुर्जनः ' मिथ्यादृंष्टिलोकः ‘हसति’ उपहासं करोति । याश्च प्रव्रज्यायामभिमुखास्तासां ताध्शस्थानावस्थानेनाभाविताः सत्यो भूयः स्वगृहाणि व्रजन्ति ।। अथ चारित्रभ्रंशनापदं विवृणोतितरुणादीए दहुं, सइकरणसमुब्भवेहि दोसेहिं । पडिगमनादी व सिया, चरितभासुंडणा वा वि ॥ [भा. २३१८] वृ- आपणे तरुणादीन् दृष्टवा स्मृतिकरणसमुद्भवैः उपलक्षणत्वात् कौतुकसमुद्भवैश्च दोषः 'प्रतिगमनं' गृहवासगमनं तदादीनि वा पदानि स्यु' भवेयुः, आदिशब्दादन्यतीर्थिकगमनादिपरिग्रहः, स्वलिङ्गे वा स्थितानां तरुणादिभि प्रतिसेवनायां चारित्रभ्रंशना भवेत् ॥ एते आपणगृहे तिष्ठन्तीनां दोषा द्रष्टव्याः । अथ रथ्यामुखादिषु तानतिदिशन्नाह[भा. २३१९] एए चेव य दोसा, सविसेसतरा हवंति सेसेसु । रच्छामुहमादीसुं, थिरा-थिरेहिं थिरे अहिया ।। वृ- 'एत एव' अनन्तरोक्ता दोषाः 'शेषेषु' रथ्यामुख- शृङ्गाटक-त्रिकादिष्वपि भवन्ति । नवरं सविशेषतरा उत्तरोत्तरेषु द्रष्टव्याः यावदुद्यानम् । ते च तरुणादयो द्विधा - स्थिरा अस्थिराश्च । स्थिरा नाम-येषां तत्रैव गृहाणि, अस्थिराः येषामन्यत्र गृहाणि । अत्र च स्थिरेष्वधिकतरा दोषाः प्रतिपत्तव्याः । द्वितीयपदे तिष्ठेयुरपि । कथम् ? इत्याह [भा. २३२०] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । रच्छामुहे चउक्के, आवण अंतो दुहिं बाहिं ॥ वृ- अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् निर्दोषां वसतिं मार्गयित्वा 'असत्याम्' अलभ्यमानायां विविक्तवसतौ वृषभाः प्रथमतो रथ्यामुखे संयतीः स्थापयन्ति, तत्रापि प्रथमम् 'अन्तर्मुखे' यस्य पृष्ठतो रथ्या वर्त्तते इत्यर्थः, तस्याप्राप्तौ “दुहिं" ति द्विधामुखे' उभयद्वारे इत्यर्थः, तस्याप्यभावे “बाहिं" ति 'बहिर्मुखे' रथ्याभिमुखद्वारे इत्यर्थः । “चउक्के आवण "त्ति उपलक्षणत्वात् शृङ्गाटकादीनामपि ग्रहणम्, ततोऽयमर्थ - रथ्यामुखस्याभावे आपणगृहेऽपि संयतीभिः स्थातव्यम्, तदप्राप्तौ शृङ्गाटके त्रिके वा, तस्याप्यसत्त्वे चतुष्के, तस्यालाभे चत्वरे, तदप्राप्तौ अन्तरापणेऽपि स्थातव्यमिति ॥ अथ “अंतो दुहिं बाहिं "ति पदत्रयं व्याचष्टे [भा. २३२१] अंतोमुहस्स असई, उभयमुहे तस्स बाहिरं पिहए । तस्सऽ सइ बाहिरमुहे, सइ ठइए थेरिया बाहिं | वृ- पूर्वम् 'अन्तर्मुखे' रथ्यामुखगृहे स्थातव्यम् । अन्तर्मुखस्यासत्युभयमुखे । तस्य च यद् बहिर्द्वारं रथ्याभिमुखं तत् 'पिदधति' कटादिना स्थगयन्ति द्वितीयेन द्वारेण निर्गम-प्रवेशौ कुर्वन्ति । 'तस्य' उभयमुखस्याभावे 'बहिर्मुखे' रथ्याभिमुखद्वारे तिष्ठन्ति, तत्र च द्वारं सदा स्थगितमेव कुर्वन्ति, स्थविरसाध्व्यश्च तत्र "बाहिं" ति 'बहि' द्वारप्रत्यासत्तौ तिष्ठन्ति ॥ अथात्रैव विधिमाह[भा. २३२२] जत्थऽप्पयरा दोसा, जत्थ य जयणं तरंति काउं जे । निच्चमवि जंतियाणं, जंतियवासो तहिं वृत्तो ।। वृ-यत्राल्पतराः पूर्वोक्ता दोषाः, तेषां च दोषाणां परिहरणे यत्र यतनां कर्तुं शक्नुवन्ति 'तत्र' आपणगृहादौ नित्यं यन्त्रितानामपि यन्त्रितवासः प्रोक्त इति । किमुक्तं भवति ? - यद्यपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy